ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ।। १५ ।।

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ।। १५ ।।

भाष्यम्

सर्वत्रैक एव नारायणः स्थित इति एकत्वेन, पृथक्त्वेन सर्वतो वैलक्षण्येन । बहुधा हि तस्य रूपम् ‘आभाति शुक्लमिव लोहितमिवाथो नीलमथोऽर्जुनम्’ इति सनत्सुजाते ।। ‘दैवमेवापरे’ इत्युक्तप्रकारेण बहवो वा बहुधा ।। १५ ।।

भावप्रदीपिका

एकत्वेन इत्यादेरर्थं सप्रमाणकमाह– सर्वत्रेति ।।

प्रमेयदीपिका

‘एकत्वेनाद्वैतभावनया’ इति व्याख्यानमसत् । मिथ्याभावनात्वादिति भावेनाऽह– सर्वत्रेति ।। सर्वत्र स्थितो नारायण एक एवेति योजना । ‘पृथक्त्वेनादित्यचन्द्रादिरूपेण’ इत्यसदिति भावेनाऽह– पृथक्त्वेनेति ।। अपरस्तु ‘पृथक्त्वेन’ इत्येतत् सम्यक् व्याख्याय ‘बहुधा’ इत्येतत् ‘आदित्यादिरूपेण’ इति व्याख्यातवान् । अत आह– बहुधेति ।। कथम्? इत्यत आगमेनैव दर्शयति– शुक्लमिवेति ।। इवशब्दोऽप्यर्थः ।। प्रकारान्तरेण व्याख्याति– दैवमेवेति ।। १५ ।।

भावबोधः

अल्पत्वादेरिवशब्दमुख्यार्थस्य बाधाद्व्याख्याति– इवशब्दोऽप्यर्थ इति ।।

भावदीपः

।। दैवमेवेति ।। ‘दैवमेवापरे यज्ञंं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति’ इत्यादिना चतुर्थोक्तदिशेत्यर्थः ।। १५ ।।

भावरत्नकोशः

‘एकत्वेन ‘एकमेव परं ब्रह्म’, ‘वासुदेवः सर्वम्’ इत्येवं-रूपपरमार्थदर्शनेन’ इति शङ्करभाष्यतात्पर्यम्– औतभावनयेति ।। मिथ्याभावनात्वा-दिति ।। सा च ‘न च रमन्त्यहो असदुपासनया’, ‘अयोग्यानि अनुपास्यानि, अफलत्व-विपर्ययाभ्याम्’ इत्यादौ अनर्थहेतुरावेदितेति भावः । ‘एक एव नारायणः स्थितः’ इति कथम् । अव्याकृताकाशादेरपि सर्वत्रावस्थितत्वाद्, इति शङ्कां परिहर्तुमन्वयं दर्शयति– सर्वत्र स्थित इति ।। ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुरवस्थित इत्युपासते’ इति शङ्करभाष्यं सङ्क्षिप्यानुवदति– पृथक्त्वेनादित्येति ।। इत्यसदिति ।। मिथ्योपासनात्वापातादिति भावः । सम्यक् ‘सर्वतो वैलक्षण्येन’ इति भाष्यरीत्या । ‘शुक्लादिरूपतयेवोपासते’ इति प्रतीतिः मिथ्योपासनात्वापातादयुक्तेति भावेनेवशब्दार्थमाह– इवशब्द इति ।। ‘इत्युक्तप्रकारेण’ इति भाष्ये ‘दैवमेवापरे यज्ञं योगिनः पर्युपासते’ इत्यादिना चतुर्थे यज्ञभेदोक्तिप्रस्तावोक्तप्रकारेण ‘बहव उपासका बहुभिः प्रकारैरुपासते’ इति वा ‘बहुधोपासते’ इति वचनार्थः । तत्र ‘एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे’ इति सर्वयज्ञैर्भगवत उपास्यत्वावेदनादिति व्याख्यानं द्रष्टव्यम् ।।

गीताक्षरार्थस्तु अन्येऽपि च महात्मानः ज्ञानयज्ञेन यजन्तः पूजयन्तो मामुपासते श्रवणमननध्यानानि नित्यमनुतिष्ठन्तः सन्तः एकत्वेन ‘सर्वत्र स्थितो नारायण एक एव’ इति भावनया पृथक्त्वेन सर्वतो वैलक्षण्येन बहुधा शुक्लनीलपीतादिरूपवत्त्वेन च मामुपासते । यद्वा बहुधा ‘दैवमेवापरे यज्ञम्’ इत्यादिचतुर्थाध्यायोक्तदिशा बहवः उपासकाः विश्वतोमुखं सन्तं भगवन्तम् उपासते । अत्र पक्षे धाप्रत्ययो न विधार्थे, किन्तु स्वार्थ इति ।। १५ ।।

भावदीपिका

व्यवहितत्वादन्वयमाह– सर्वत्रेति ।। अपरः भास्करः । सम्यगिति ।। ‘सर्वतो वैलक्षण्येन’ इत्येवं सम्यगित्यर्थः । तस्य भेदाभेदवादित्वादिति भावः । अल्पत्वादेरिवशब्दमुख्यार्थस्य प्रकृतेऽसम्भवादाह– इवशब्दोऽप्यर्थ इति ।। तथाच परस्परसमुच्चयार्थो द्रष्टव्यः । दैवमेवेतीति ।। तथा चैकत्वेन, पृथक्त्वेन, ‘दैवमेव’ इत्युक्त-प्रकारेण ‘बहुधा बहवः यजन्तः यज्ञभेदवन्तो मामुपासते’ इति गीतार्थः ।। १५ ।।

भावप्रकाशः

ननु गीतायामेकत्वेन मामुपासत इत्येकत्वस्योपासना-प्रकारत्त्वमुक्तम् । भाष्ये तु सर्वत्र स्थितस्य तत्प्रतीयत इत्यत आह– सर्वत्र स्थित इति ।। इवशब्दाद् वस्तुतः शुक्लत्वाद्यभावप्रतीतावाह– इवशब्दोऽप्यर्थ इति ।। १५ ।।