प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ।। ३० ।।

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ।। ३० ।।

भावरत्नकोशः

प्रह्लाद इति ।। दैत्यानां मध्ये कलयतां गणयताम्, वशीकुर्वताम्, बन्धनादिकं कुर्वतां च मृगेन्द्रः सिंहः । वैनतेयः गरुडः ।। ३० ।।