सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।। ५२ ।।

श्रीभगवानुवाच–

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।। ५२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु भयङ्कररूपं किमिति भवता प्रदर्शितम् इत्यतो विश्वरूपदृष्टेर्महिमोच्यते– भगवानुवाच– सुदुर्दर्शमिति ।। यत् मम रूपं त्वं दृष्टवानसि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणो ये देवास्तेऽपि यद् अदृष्टवन्तस्तत् इदं सुदुर्दशम् ‘ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ इति दृशेः खल्प्रत्यये सुष्ठु दुःखेन दर्शनमस्येति सुदुर्दर्शम् । केषाञ्चित्सुखेन केषाञ्चिद्दुखेन दर्शनीयमित्यर्थः । देवैरपि यद्दर्शनं चिराभिलषितं तदिदं विश्वरूपं तव शत्रुवधे निमित्तत्वज्ञापनाय त्वां प्रति दर्शितमिति भावः । एवं योजने च ‘देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण एव वर्तन्ते, न तु पश्यन्ति, इत्युक्तत्वात् कथमर्जुनादुत्तमैरधमैश्च विश्वरूपस्य दृष्टत्वमुच्यते’ इति शङ्का निरस्ता भवति ।। ५२ ।।