अकार्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकार्तिर्मरणादतिरिच्यते।। ३४ ।।

अकार्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।

सम्भावितस्य चाकार्तिर्मरणादतिरिच्यते।। ३४ ।।

भावरत्नकोशः

अपि च अकार्तिं भूतानि कथयिष्यन्ति । अव्ययां सर्वदेशकालव्यापिनीम् । कथयन्तु नामेत्यत उक्तम्– सम्भावितस्य शौर्यधैर्यादिगुणशालीत्येवं बहुमतस्य । अतिरिच्यते अधिका भवति । सम्भावितस्य पुरुषस्य अकार्तेर्मरणमेव वरमिति ।। ३४ ।।