दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ।। २० ।।

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ।। २० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु इदानीं प्रतिज्ञातो दानभेद उच्यते– दातव्यमित्यादिभिस्त्रिभिः । देशे पुण्यदेशे काले पुण्यकाले पात्रे ‘अक्षय्यं ब्राह्मणे दानम्’ इत्यत्रेव ‘पात्रे’ इति सप्तमी । समुपनत एव विहितत्वाद् विष्णुप्रीतये दातव्यमिति एवं श्रद्धया यद् अनुपकारिणे प्रत्युपकारमकुर्वते ब्राह्मणाय दीयते क्रियते तद् दानं सात्त्विकं सात्त्विकजीव-स्वरूपज्ञापकं स्मृतं धर्मग्रन्थेषु निबद्धम् ।। २० ।।