यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मति मम ।। ७८ ।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मति मम ।। ७८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- एवं सर्वार्थान् सम्यगेवावज्ञातः तव समुप-नतसेनाद्वये जयाजयविवेकः कथं भासते इत्यत उच्यते– यत्रेति ।। यत्र यस्मिन् पक्षे योगेश्वरः सर्वोपायानामीश्वरः स्वामी कृष्णो वर्तते यत्र च धनुर्धरो गाण्डीवधन्वा पार्थः अर्जुनः तत्र एव श्रीः विजयो भूतिः ध्रुवा नीतिश्चेति मम मतिः अतिनिश्चय इति सञ्जयवचनम् । तत्र ध्रुवा निश्चला नीतिः न्यायः । ततो ध्रुवा भूतिः उत्तरोत्तराभिवृद्धैश्वर्यम् । ततः सर्वतो विजयः । ततश्च श्रीः महाराज्यलक्ष्मीः इति ।। ७८ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः ।।

भाष्यम्

पूर्णादोषमहाविष्णोः गीतामाश्रित्य लेशतः ।

निरूपणं कृतं तेन प्रीयतां मे सदा विभुः ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये

अष्टादशोऽध्यायः समाप्तः ।। १८ ।।

प्रमेयदीपिका

इदानीं समापितभाष्यो भगवानाचार्यो भाष्यनिर्माणस्य फलं भगवत्प्रीतिमेवाऽशास्ते– पूर्णेति ।। एतत् ‘गीताम्’ इत्यनेन ‘निरूपणम्’ इत्यनेन च सम्बद्ध्यते । ‘तेन’ इति श्रवणात् ‘यत्’ इति लभ्यते ।।

भावदीपः

‘समापितभाष्येेति’ बहुव्रीहिः, स्वस्य चेत्यर्थः ।। एतदिति ।। पूर्णादोषमहाविष्णोः इत्येतदित्यर्थः ।।

भावरत्नकोशः

भगवत्प्रीतिमेव न त्वन्यद् यत्किञ्चिद् एकान्तभक्तशिखामणि-त्वादिति भावः । एतत् ‘पूर्णादोषमहाविष्णोः’ इति विशेषणम् । तथा च पूर्णः सर्वैरानन्दादि-गुणैः परिपूर्णः, न दोषाः चिन्तासन्तापादयो यस्य सोऽदोषः । अत एव महान् यो विष्णुः तस्य भगवतो गीतामाश्रित्य व्याख्येयत्वेनोपादाय तस्याः बह्वर्थत्वात् मन्दान् प्रति लेशेनैव प्रतिपाद्यस्य पूर्णादोषमहाविष्णोः स्वरूपस्य यत् निरूपणं कृतं तेन ‘विभुर्मे प्रीयताम्’ इत्यर्थो योग्यतया सम्पद्यत इति भावः ।

भावदीपिका

।। प्रीतिमेवेति ।। अधिकार्युत्तमवाय्वतारभूतैः आनन्दतीर्थै-राशास्या भगवत्प्रीतिरेव, नान्या । ‘एकान्तानां न कस्यचिदर्थे नारायणो देवः’ इति वचनादिति भावः । एतदिति ।। तथा च पूर्णादोषमहाविष्णोर्गीतां भगवद्गीतां तदाख्यं ग्रन्थमिति यावत्, आश्रित्य पूर्णादोषमहाविष्णोः स्वरूपस्य निरूपणं लेशतो यत् कृतं तेन विभुर्मे सदा प्रीयतामित्यर्थः ।

भावप्रदीपिका

नमो जलदनीलाय वल्लवीवल्लभाय ते ।

रमाकरसमाराध्यचरणाय मुरद्विषे ।। १ ।।

श्रीमन्मध्वमहाचार्यपदपद्मैकसद्मनाम् ।

अणूनां महतां चापि भवतात् करुणा मयि ।। २ ।।

।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीभगवद्गीताभाष्यभावप्रदीपिकायां अष्टादशोऽध्यायः ।।

प्रमेयदीपिका

करतलकलितामलकमिव प्रभुणा येनेदमवगतं विश्वम् ।।

स जयति जनकसुतायाः कान्तः श्रीरघुनन्दनो देवः ।। १ ।।

नमामि व्यासदासस्य पूर्णबुद्धेः पदाम्बुजे ।

नतामरशिरोरत्नराजिनीराजिते सदा ।। २ ।।

अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य मे ।

वचोभिरमृतप्रायैः प्रीयन्तां सततं बुधाः ।। ३ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां

जयतीर्थमुनिविरचितायां प्रमेयदीपिकायाम् अष्टादशोऽध्यायः समाप्तः ।। १८ ।।

भावदीपः

।। जयति ।। सर्वोत्कृष्टो वर्तते । नतेति नमनं कुर्वताम् अमराणां देवानां शिरोरत्नराजैः नीराजिते आरार्तितेत्यर्थः । बुधाः विद्वांसः । अमृतैर्विबुधा देवा यथा प्रीयन्ते तथा मे वचोभिः अमृतकल्पैः मूलार्थं स्पष्टं प्रकाशयद्भिः वचोभिः विद्वांसः प्रीयन्ताम् इत्यर्थः ।।

कल्याणगुणपूर्णाय दोषदूराय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।

श्रीमद्गीताभाष्यटीकाभावदीपः कृतो मया ।

राघवेन्द्रेण यतिना प्रीत्यै माधवमध्वयोः ।।

।। इति श्रीमद्गीताभाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते अष्टादशोऽध्यायः समाप्तः ।।

भावरत्नकोशः

समापितगीताभाष्यव्याख्यानो जयतीर्थाचार्यवर्यः ग्रन्थान्तेऽपि शिष्यान् ग्राहयितुमपि मङ्गलमाचरति– करतलकलितेति ।। करतलमिलितामलकफलमिवेत्यर्थः । ‘प्रभुणा’ इति वदता भाष्यगतविभुशब्दो व्याख्यातः ।। १ ।।

पूर्णबुद्धेः सर्वज्ञाचार्यस्य नताः, नमेः कर्तरि क्तः, नतवन्तः, ते चामराः, तेषां शिरोरत्नानां राज्या पङ्त्या नीराजिते आरार्तिते ।। २ ।।

अक्षोभ्यतीर्थश्चासौ गुरुश्च तेन शुकवत् शुकस्येव बुधाः सन्तः ।। ३ ।।

श्रीमदानन्दतीर्थार्यहृदयाम्भोजवासिने ।

कृष्णाय कृष्णारमणप्रियायास्तु नमो नमः ।।

नमस्ते नमस्ते नमस्ते दयालो नमस्ते नमस्ते नमो नारसिंह ।

नमस्ते नमस्ते नमस्ते मुरारे नमस्ते नमस्ते नमो व्यास राम ।।

आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।

भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।

भूरिगमीषागमचितकरणान् श्रीजयतीर्थयतिकृतशरणान् ।

सन्ततमीडे सुचरितचरणान् वेङ्कटनारायणगुरुचरणान् ।।

 ।। इति श्रीमत्परमहंसपीरव्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायामष्टादशोऽध्यायः ।।

भावदीपिका

समापितग्रन्थो भगवान् टीकाकारः प्रचयगमनार्थम् अन्तेऽपि मङ्गलमाचरति – करतलकलितेत्यादिना ।। इदं विश्वं समस्तं करसम्बद्धामलकमिव येनावगतं स जयतीत्यर्थः । नतरुद्राद्यमरशिरोरत्नानां राज्या ‘वीथ्यालिरावलिः पङ्क्तिश्रेणीरेखास्तु राजयः’ इत्यभिधानात् पङ्क्त्या ‘राजृ दीप्तौ’ इति धातोः कान्त्या वा नितरां राजिते पूर्णबुद्धेः पदाम्बुजे नमामि, इत्यशेषमतिमङ्गलम् ।। २ ।।

इति यदुपतिवरगीताभाष्यटीकासुयुक्ता–

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा

समगमदयमत्राष्टादशाध्याय अन्तम् ।।

योऽयाचि त्रिदशैः कुभारहृतयेऽवातारि येन क्षितौ

येनामोचि पितौग्रसेनिनिगडाद्धर्मोऽपि येनाङ्कुरि ।।

येनाधायि युधिष्ठिरो निजपदे भाग्यादिदं श्रीपतिं

तं कृष्णं सदुपास्यमुद्धवजयज्ञानप्रदं संश्रये ।। १ ।।

श्रीयादवार्यगुरुमानसनीरजस्थश्रीमध्वहृत्कमलवासिरमानिवासः ।

व्यासोस्त्वनेन जयतीर्थमुनीन्द्रवाक्यगूढाशयप्रकटनेन ममाशु भूत्यै ।। २ ।।

गीताभाष्यस्य टीकेयं यादवार्यकृपाबलात् ।

विवृता श्रीनिवासेन भूयाद् व्याख्योपकारिणी ।। ३ ।।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां

श्रीमद्भगवद्गीताभाष्यविवृतौ भावप्रदीपिकाख्यायामष्टादशोध्यायः ।।

भावप्रकाशः

ननु यदि पूर्णादोषेति गीताया एव विशेषणं न निरूपणस्य तदा यत्किञ्चिन्निरूपणमिति प्रतीयते । तथा च भाष्यकारस्यानवरतमीश्वरप्रवणकायकरण-वृत्तित्वविरोधः । यदि च निरूपणस्यैव तदा यत् किञ्चिद्गीतामित्यापद्यते तच्च बाधितमित्यत आह– एतदिति ।। पूर्णेत्यादिविशेषणमित्यर्थः । योग्यतासत्वादिति भावः । इति ।

श्रीमत्तिर्मलसूरिसत्तमगुरुष्टीकाशयं व्याकरो

च्छ्रीवेदेशयतीशशिष्ययदुपत्याचार्यसंशिक्षितम् ।

यं मह्यं तमिहाकृषं हरिगुरुप्रीत्यै स्वधीशुद्धये

प्रीयन्तां सततं बुधा मयि ततः सन्तो गुणग्राहिणः ।।

प्रवरोम्बरजीकृष्णशर्मातिर्मलसूरिजः ।

प्रमेयदीपिकाव्याख्यां शर्मदां निर्ममे सुधीः ।। २ ।।

।। इति श्रीमत्तिर्मलाचार्यसूरिसूनुकृष्णविरचिते प्रमेयदीपिकाभावप्रकाशेऽष्टादशोऽध्यायः ।।

।। समाप्ताश्च ग्रन्थः ।।

।। श्रीकृष्णार्पणमस्तु ।।