उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ।। २३ ।। य एवं(एनं ) वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ।। २४ ।।

उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ।। २३ ।।

य एवं(एनं ) वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ।। २४ ।।

भाष्यम्

यतश्च यत्’ (१३.४) इत्याह– उपद्रष्टेति ।। अनुमन्ता अन्वनु विशेषतो निरूपकः । ‘पुरुषः सुखदुःखानाम्’ इति जीव उक्तः । ‘पुरुषं प्रकृतिम्’ इति जीवेश्वरौ सहैवोच्येते ।।

भावप्रदीपिका

उत्तरश्लोकमवतारयति– यतश्चेति । यतश्च यत् इति प्रतिज्ञातं प्रवर्तकमाहेत्यर्थः । अनुमन्तृपदं व्याचष्टे– अन्वति ।

प्रमेयदीपिका

‘यतश्च यत् इति वक्तुम्’ (१३.४) इत्युक्तम् । तत्केनो-च्यते? इत्यत आह– यतश्चेति ।। इति ‘प्रतिज्ञातम्’ इति शेषः । ‘अनुमन्ताऽनुज्ञाता’ इति कश्चित् । तदसत् । औदासीन्यप्राप्तौ ‘भर्ता’ ‘भोक्ता’ इत्यादि विरोधादिति भावेन व्याचष्टे– अनुमन्तेति ।। अनुशब्दः पुनरर्थे । क्रियाऽऽवृत्तिश्च तदर्थ इति ज्ञापनाय द्विरुक्तिः । ‘विशेषतः’ इति तृनोऽर्थः । निरूपकः कर्तव्यस्याऽलोचकः । ‘य एनं वेत्ति पुरुषम्’ इत्यत्र पुरुषशब्दं व्याख्यातुमुपोद्घातमाह– पुरुष इति ।। सुखदुःख-भोक्तृत्वलिङ्गादिति भावः ।।

सुखदुःखानां भोक्तृत्वे भोगे हेतुः कर्तेति व्याख्यानमाश्रित्येदमुक्तम् । व्याख्यानान्तरे तु भगवानेवात्र पुरुषः ‘पुरुषः प्रकृतिस्थो हि’ इति तु जीवः । उपलक्षणमेतत् । ‘उपद्रष्टा’ इति ईश्वर उक्त इत्यपि द्रष्टव्यम् । ततः किम्? इत्यत आह– पुरुषमिति ।। यत एवमुभावपि प्रकृतौ, अतो ‘य एनं वेत्ति पुरुषम्’ इत्यत्र पुरुषशब्देन जीवेश्वरौ द्वावपि गृह्येते । द्वयोरपि परामर्शसम्भवात् । तर्हि द्वयोर्द्विवचनेन भाव्यमित्यत उक्तम्– सहैवेति ।। तन्त्रेणेत्यर्थः ।।

भावबोधः

।। कर्तव्यस्यालोचक इति ।। अनेन मनुधात्वर्थ उक्तो भवति । ततश्च प्रेरकः इति भावः । व्याख्यानान्तर इति ।। ‘जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः’ इति प्रमाणानुसारेण जीवानां भोक्तृत्वे भोगशक्तिप्रदाने पुरुषः परमात्मा हेतुरिति तात्पर्यगतव्याख्यानान्तरे इत्यर्थः ।

भावदीपः

।। कर्तव्यस्यालोचक इति ।। ‘मनु अवबोधने’ इति धातोः पौनःपुन्यार्थकानूपसर्गयोगे आलोचनमेव सिद्ध्यतीति भावः ।। व्याख्यानान्तरे त्विति ।। ‘भोक्तृत्वे भोक्तृशक्तिदाने पुरुषो हेतुः’ इति तात्पर्योक्तव्याख्यानान्तर इत्यर्थः । उपलक्षण-मेतदिति ।। ‘पुरुषः’ इत्यादि भाष्यमित्यर्थः । एतच्च परामर्शसौकर्यायोक्तम् । अत एवाह– उभावपि प्रकृताविति ।। तन्त्रेणेति ।। सकृदुच्चरितमनेकोपकारकं तन्त्रम् । तेनेत्यर्थः ।।

भावरत्नकोशः

।। यतश्च यदिति वक्तुमिति ।। ‘यतश्च यत्’ इति प्रेरकस्य स्वरूपं वक्तुमिति पूर्वभाष्ये उक्तमित्यर्थः । केचिदिति ।। यदाहुः कार्यकारणेषु व्याप्रियमाणेष्विपि स्वयमव्यापृतः, तत्साक्षी आत्मा अनुमन्तोच्यते । अथवा स्वव्यापारेषु प्रवृत्तान् देहादीन् अनिवारयन् साक्ष्यात्मा अनुमन्तोच्यते इति । इत्यादिविरोधात् कर्ता, भोक्ता इति तृचा स्वतन्त्रकर्तृत्वावगमेन गीताक्षरविरोधात् । अव्ययानामनेकार्थत्वाशयेनोक्तम्– अनुशब्दः पुनरर्थ इति ।। पुनःशब्दार्थ इत्यर्थः । तदर्थः पुनःशब्दार्थः । द्विरुक्तिः ‘अन्वनु’ इति भाष्ये । तृनोऽर्थ इति ।। तत्प्रत्ययस्य तच्छीलतद्धर्मतत्साधुकारिषु विधानात् विशेषार्थ इत्यर्थः ।

ननु प्रेरकत्वोपयोगिनः प्रेर्यद्रष्टृत्वादयो धर्माः अत्र वक्तव्यतयाऽभिमताः । यथोक्तं प्राक् ‘एवं धर्मविशिष्टाद् उपद्रष्टृत्वादिधर्मविशिष्टाद् अस्मात् क्षेत्रं प्रवर्तते’ इति । ‘अनुमन्ता इत्यस्य च ‘निरूपकः’ इत्यर्थ उक्तो भाष्ये । तत्र निरूपकत्वं यदि ज्ञापकत्वं तदेन्द्रियादेर्ज्ञापकत्वेऽपि प्रेरकत्वाभावाद् ‘अनुमन्ता’ इत्यस्य न प्रेरकत्वोपयोगिधर्मप्रतिपादकत्वम् । यदि चोपदेष्टृत्वम्, तदेश्वरस्य ब्रह्मादीन् प्रत्युपदेष्टृत्वेऽपि, क्षेत्रान्तर्भूतसर्वोपदेष्टृत्वाभावात् न ‘अनुमन्ता इत्यस्य प्रकृतोपयोगः । इत्याशङ्कानिरासाय व्याचष्टे– कर्तव्यस्यालोचक इति ।। ‘इदमनेन कर्तुं शक्यम्, इदं न’ इति पर्यालोचनशालीत्यर्थः । ‘मनु अवबोधने’ इति धातोः, पौनःपुन्यार्थका-नूपसर्गयोगात् ताच्छील्यविशिष्टकर्त्रर्थकतृन्प्रत्यययोगाच्च सिध्यतीति, ‘अनुमन्ता’ इति पदमपि प्रेरकत्वोपयोगिधर्मसमर्पकं भवतीति भावः ।।

व्याख्यातुं ‘पुरुषं प्रकृतिं च’ इत्युत्तरवाक्ये । भाष्याभिमतव्याख्यानं दर्शयति– सुख-दुःखानां भोक्तृत्वे भोगे हेतुः कर्तेति ।। व्याख्यानान्तरे तु–

जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः’

इति सर्वहेतुत्वेऽपि विष्णोः, प्रकृतेर्जीवं प्रति भोक्तृत्वदाने अल्पप्रवृत्तिरिति ‘पुरुषो भोक्तृत्वे हेतुरुच्यते’ इति च तात्पर्यनिर्णयोक्तव्याख्याने तु, पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते इति श्लोके पुरुषशब्दार्थो भगवानेव, न तु जीवः । भोक्तृत्वे भोगशक्तिदाने’ इति तत्राभिमतत्वादिति भावः । ननु तात्पर्यमते ‘पुरुषः सुखदुःखानाम्’ इत्यत्र पुरुषपदेन जीवस्य ग्रहणात् प्रकृति-विकारपुरुषान् सङ्क्षिप्याह’ इत्यत्र प्रेर्यकोटिनिविष्टत्वेन भाष्योक्तः पुरुषो न क्वाप्युक्तः स्यात् । तथा च ‘प्रकृतिं पुरुषं चैव’ इत्यत्र पुरुषशब्देन जीवस्य ग्रहणमिति सिद्धान्तो न सिध्यति इत्यतः ‘पुरुषः प्रकृतिस्थः’ इत्यत्र पुरुषशब्दो जीवे’ इति तात्पर्यनिर्णयोक्तमाह– पुरुषः प्रकृतिस्थो हीति तु जीव इति ।। तथा च पुरुषशब्देन जीव इति पदसिद्धिः, तस्य प्रेर्यत्वसिद्धिश्चेति भावः ।

ननु भाष्यमते ‘पुरुषः सुखदुःखानाम्’ इत्यत्र मतद्वयेऽपि ‘पुरुषः प्रकृतिस्थः’ इत्यत्र जीव एव पुरुषशब्देनोक्तः, नेश्वर इति कथं ‘य एवं वेत्ति पुरुषम्’ इत्युत्तरवाक्ये पुरुषशब्देनोभयोः परामर्शेन व्याख्यानम् इत्यत आह– उपलक्षणमेतदिति ।। ‘उपद्रष्टाऽनुमन्ता च’ इति श्लोके उपद्रष्टृत्वादिगुणविशिष्ट ईश्वर उक्त इति, ‘य एवं वेत्ति पुरुषम्’ इत्यत्र पुरुषशब्देन जीवेश्वरयोः ग्रहणमुपपन्नमिति भावः । ‘उपद्रष्टा इति श्लोके पुरुषः परः’ इति पुरुषशब्देनेश्वर उक्त इत्यर्थ इत्यपि आहुः । ‘पुरुषं प्रकृतिं च’ इति भाष्यं ‘य एवं वेत्ति पुरुषं प्रकृतिं च’ इत्यस्यानुवाद इति तत् सपरिकरं योजयति– यत एवमित्यादि ।। द्विवचनेनेति ।। द्व्येकयोर्द्विवचनैकवचने इति द्वित्वे द्विवचनानुशासनादिति भावः । तन्त्रेण सकृत्प्रयुक्तस्यानेकोपकारकत्वं तन्त्रम्, तेनेत्यर्थः ।।

भावदीपिका

।। औदासीन्येति ।। अनुज्ञामात्रदातुर्लोके औदासीन्य-दर्शनादिति भावः । विरोधादिति ।। तत्र भर्तृत्वादौ स्वातन्त्र्यप्रतीतेरिति भावः । क्रिया-वृत्तिश्चेति ।। मन्तृशब्दोक्तकर्तव्यालोचनरूपक्रियाया आवृत्तिः पुनरर्थकानुशब्दार्थ इत्यर्थः । तृनोऽर्थ इति ।। तृनस्ताच्छील्यादौ विहितत्वात् । तत्रादिपदेन विशेषरूपार्थस्यापि ग्रहणादिति भावः । ननु निरूपकः’ इत्युक्तेऽपि, आज्ञामात्रदातृत्वम् । अत्र प्राप्तौदासीन्यमनिवार्यमेव इत्यत आह– कर्तव्यस्येति ।। अनेन मनुधात्वर्थ उक्तोे भवति । ततश्च प्रेरक इति भावः ।। व्याख्यानान्तर इति ।।

जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः.......... ।।’

इति प्रमाणानुसारेण जीवानां भोक्तृत्वे भोगशक्तिप्रदाने परमात्मा हेतुरिति तात्पर्यगत-व्याख्यानान्तर इत्यर्थः । तथा च तदपि व्याख्यानान्तरमित्याशयः ।

ननु य एवं वेत्ति पुरुषं प्रकृतिं च’ इत्यत्र पुरुषशब्देन जीवेश्वरयोः परामर्श इति भाष्ये व्याख्यानान्तरे च समम् । तत्र व्याख्यानान्तरे च पुरुषशब्देन जीवः कुत्र प्रकृतः? ‘पुरुषः सुखदुःखानाम्’ इत्यत्र पुरुषपदस्येश्वरपरत्वात् । तथा च ‘य एवं वेत्ति पुरुषम्’ इत्यत्र पुरुषपदेन तत्परामर्शो न सम्भवति इत्यत आह– पुरुष इति ।। एवं च व्याख्यानान्तरे ‘य एव वेत्ति पुरुषम्’ इत्यत्र पुरुषपदेनोभयपरामर्शो युक्त इति भावः ।

नन्वत्र भाष्ये ‘य एनं वेत्ति पुरुषं प्रकृतिं च’ इति जीवेश्वरौ सहैवोच्येते’ इत्युच्यते । तत्र पुरुषपदेन कथमुभयोः परामर्शः, अप्रकृतत्वात् इति शङ्कायां ‘पुरुषः सुखदुःखानाम् इति जीव उक्तः’ इत्यनेन जीवस्य प्रकृतत्वमुक्तम् । ईश्वरस्य तु कथं प्रकृतत्वम् इत्यतः ‘पुरुषः सुखदुःखानाम्’ इति जीव उक्त इति भाष्यमुपलक्षणपरमित्याह– उपलक्षणमेतदिति ।। ‘पुरुषशब्देन’ इति शेषोक्तिः – द्बिवचनेनेति ।। ‘य एतौ वेत्ति पुरुषौ प्रकृतिं च’ इति द्विवचनं गीतायां स्यादित्यर्थः । तन्त्रेणेति ।। सकृदुक्तम् अनेकोपकारकं तन्त्रम्, तन्न्याया-श्रयेणेत्यर्थः ।। २३ ।।

भावप्रकाशः

 ।। पुनरर्थ इति ।। अव्ययानामनेकार्थत्वादिति भावः । तृनोऽर्थ इति ।। तच्छीलादौ तृनो विधानादिति भावः । ननु प्रेरकत्वोपयोगिनः प्रेर्यद्रष्टृत्वादयो धर्मा इह वक्तव्यत्वेनाभिप्रेताः । अत एवोक्तं प्राक् ‘एवं धर्मविशिष्टात्प्रवर्तते क्षेत्रम् ’ इति । तन्निरूपकत्वं यदि ज्ञापकत्वं तदेन्द्रियादेस्तथात्वेऽपि प्रेरकत्वाभावात् तद्व्यभिचारः । यदि चोपदेष्टृत्वं तदाऽसिद्धिः । ईश्वरस्य ब्रह्माद्युपदेष्टृत्वेऽपि क्षेत्रान्तर्भूतसर्वोपदेष्टृत्वाभावादित्यत आह– कर्तव्यस्यालोचक इति ।। इदमनेन कर्तंु शक्यमिति विमर्शवानित्यर्थः । व्याख्यानान्तरे ‘य एवं वेति पुरुषम्’ इत्यत्र पुरुषपदेन जीवग्रहणसिद्ध्यर्थमाह– पुरुषः प्रकृतिस्थो हीति ।।

भाष्यमते पूर्वमीश्वरानुक्तेरुत्तरत्र कथं तद्ग्रहणमित्यत आह– उपलक्षणमिति ।। तन्त्रेणेति ।। सकृत्कृतमनेकोपकारकं तन्त्रं, तेनेत्यर्थः ।

Load More