काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।। २ ।।

श्रीभगवानुवाच–

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।। २ ।।

भाष्यम्

फलानीच्छयाऽकरणेन वा काम्यकर्मणो न्यासः सन्न्यासः । त्यागस्तु फलत्याग एव । तथा हि प्राचीनशालाश्रुतिः ‘अनिच्छयाऽकर्मणा वाऽपि काम्यकर्मन्यासो न्यासः फलत्यागस्तु त्यागः’ इति ।। २ ।।

भावप्रदीपिका

काम्यानाम् इति श्लोकं सप्रमाणकं व्याचष्टे– फलेति

।। २ ।।

प्रमेयदीपिका

‘काम्यानां कर्मणाम्’ इत्येतं श्लोकं केचिद् व्याचक्षते ‘काम्यानां कर्मणामश्वमेधादीनां स्वरूपेण त्यागः सन्न्यासः । नित्यनैमित्तिकादि-सर्वकर्मफलत्यागः त्यागः’ इति । तदसदिति भावेनाऽह– फलेति ।। वैकल्पिक-काम्यानां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागः, नियतकाम्यानां स्वरूपाकारणेन त्यागः सन्न्यासः ।। काम्यकर्मणामेव फलत्यागस्तु त्यागः करणाकरणे तु न विवक्षित इत्यर्थः । कुत एतत्? इत्यत आह– तथा हीति ।। अकर्मणा अकरणेन ।। जनकाश्वपत्यादिभिर्मुमुक्षुभिः अश्वमेधादीनाम् अनुद्दिष्टफलानाम् अनुष्ठानात् न काम्यानां स्वरूपपरित्याग एव । नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन तत्त्यागो न युक्तः ।। २ ।।

भावबोधः

नन्वकरणेन वेति पक्षान्तरेऽश्वमेधादीनां स्वरूपेण त्यागप्राप्त्या अपव्याख्यानमेवाङ्गीकृतं स्यादित्यत आह– वैकल्पिकेति ।। ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च’ इति वक्ष्यमाणरीत्या फलेच्छया तदनिच्छया च कर्तंु योग्यत्वात् ज्योतिष्टोमादीनां वैकल्पिककाम्यत्वमित्यर्थः । विशेषणत्यागेनेति ।। फलकामनाविषयत्वरूप-विशेषणत्यागेनेत्यर्थः । नियतकाम्यानामिति ।। कारीर्यादीनामित्यर्थः । काम्यकर्मण-मेवेति ।। वैकल्पिकेति ग्राह्यम् । नित्यनैमित्तकव्यावृत्त्यर्थमेवेत्युक्तम् । यद्वक्ष्यति ‘नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन त्यागो न युक्तः’ इति । नन्वेवं तर्हि सन्यासात् त्यागस्य कथं भेद इत्यत आह– करणाकरणे त्विति ।। सन्यासशब्दाथर् तु करणं विवक्षितमिति भावः । अत एव विशेषणत्यागेनेत्युक्तम् । तथाच कर्म कृत्वैव स्वर्गादि-नश्वरतत्फलत्यागः सन्यासः, तादृशफलत्यागमात्रं त्याग इति द्वयोर्भेद इत्युक्तं भवति ।

भावदीपः

।। फलानिच्छया अकरणेन वा इति भाष्यं भिन्नकर्मविषयतया व्याचष्टे– वैकल्पिकेति ।।अश्वमेधज्योतिष्टोमादयो हि फलकामनया तदकामनया वा अनुष्ठानयोग्यत्वाद्वैकल्पिककाम्याः, तेषां कामनाविषयत्वरूपविशेषणत्यागेन स्वरूपाकरणत्यागेन स्वरूपाकरणम् इत्यर्थः ।। नियतेति ।। पुत्रेष्ट्यादिरूपकाम्यकर्मणामित्यर्थः ।। काम्यकर्मणा-मेवेति ।। स्वर्गादिफलकाश्वमेधज्योतिष्टोमराजसूयादिकर्मणामित्यर्थः ।। एव इत्यनेन प्रागुक्ता-नामिति द्योतयति । भाष्यस्थस्यैवाक्षरतात्पर्यमाह– करणाकरणे तु न विवक्षत इति ।। उत्तरं वक्तुर्भगवत इति योज्यम् । सन्न्यासशब्दार्थे तु उक्तदिशा केषाञ्चित् करणं केषाञ्चिदकरणं विवक्षितमिति सन्न्यासत्यागयोर्भेद इति भावः ।। २ ।।

भावरत्नकोशः

।। केचिदिति ।। तथा च शङ्करः ‘काम्यानाम् अश्वमेधा-दीनां कर्मणां न्यासं परित्यागम् अनुष्ठीयत्वेन प्राप्तस्याननुष्ठानम्, नित्यनैमित्तिकानाम् अनुष्ठीय-मानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागम् ’इति । श्रीधरोऽपि ‘पुत्रकामः’, ‘स्वर्गकामः’ इत्यादिकामोपबन्धेन विहितानां कर्मणां सन्न्यासं स्वरूपतः परित्यागं सर्वकर्मणां फलमात्रपरित्यागं त्यागं प्राहुः’ इति । नित्यनैमित्तिकादिसर्वकर्मेति ।। नित्यानि सन्ध्यावन्दनादीनि, नैमित्तिकानि उपरागस्नानादीनि । आदिपदगृहीतानि काम्यकर्माणि इत्येवं सर्वेषां कर्मणां फलत्यागः त्यागशब्दार्थ इत्यर्थः । यत्तु ‘अत्र आदिपदं सम्पातायातम् ’इति केषाञ्चिद्वचनं तदभव्यम् । काम्यानाम् अश्वमेधादीनां स्वरूपतः त्यागः सन्न्यासशब्दार्थः, निमित्तनैमित्तिककाम्यात्मकानां सर्वकर्मणां फलत्यागः त्यागशब्दार्थ इति सन्न्यासत्यागयोः स्वरूपव्याख्यानाद् आदिपदेन काम्यकर्मग्रहणसम्भवात् । नित्यनैमित्तिकयोः स्वपदेन, काम्यग्रहणं तु पूर्वार्धे स्वरूपतः त्यक्तव्यतयाऽभिहितत्वाशयात् । अत एव ‘सर्वकर्मफलत्यागम्’ इत्युत्तरार्धम् । ‘सर्वेषां काम्यानां नित्यानां नैमित्तिकानां च कर्मणां फलमात्रत्यागं प्राहुस्त्यागं विचक्षणाः’ इति श्रीधरोऽपि व्याचरव्यौ । ‘नित्यनैमित्तिकानां सर्वकर्मणाम्’ इति शङ्करभाषण-मपि स्वरूपतस्त्यक्तानां काम्यकर्मणां फलत्यागस्य कैमुतिकन्यायप्राप्तत्वाभिप्रायम् । ‘नित्यनैमित्तिकफलस्य अन्तःकरणशुद्धेः’ इति अग्रिमटीकावाक्यमपि ‘काम्यानां स्वरूप-तस्त्यागः, नित्यनैमित्तिकानां फलत्यागः’ इति यद् अपव्याख्यानं तत्प्रतिक्षेपाय प्रवृत्तमिति न तदपि आदिपदस्य सम्पातायातत्वे उपष्टम्भकमिति ।

अश्वमेधादीनां स्वरूपतस्त्यागः सन्न्यासः’ इति परपक्षं प्रतिक्षिपन् ‘फलानिच्छया अकरणेन’ इति भाष्यं व्यवस्थया व्याख्याति– वैकल्पिककाम्यानामिति ।। यानि फलाभि-सन्धिना कर्तुं योग्यान्यपि तदनभिसन्धिनाऽपि कर्तुं योग्यानि तानि वैकल्पिककाम्यानि अत्र विवक्षितानि, तेषाम् अश्वमेधादीनामित्यर्थः । भाष्ये फलस्वरूपं वक्तुमुक्तम्– स्वर्गादीति ।। ‘फलानिच्छया’ इत्यस्य तात्पर्यम्– विशेषणत्यागेनेति ।। फलाभिसन्धिपूर्वकं क्रियमाणत्व-रूपविशेषणत्यागेनेत्यर्थः ।

नियतकाम्यानां ‘पुत्रकामः पुत्रेष्ट्या यजेत’, ‘वृष्टिकामः कारीर्या यजेत’ इत्यादिशास्त्र-चोदितनित्यकाम्यानां पुत्रकामेष्ट्यादीनामित्यर्थः । न चैतेषामपि फलेच्छया तदनिच्छया च कर्तुं शक्यत्वाद् वैकल्पिककाम्यत्वं शङ्क्यम् । अश्वमेधादिवत् मोक्षोद्देशेन सनकादिभिः अननुष्ठानेन तेषां नित्यकाम्यत्वमेवेत्याशयात् । काम्यकर्मणामेव वैकल्पिककाम्यकर्मणाम् अश्वमेधादीनामेव । एवकारेण नित्यनैमित्तिककर्मव्यावृत्तिः ।

तर्हि सन्न्यासत्यागयोः भेदः कथम् इत्यतः भाष्यस्थैवकारतात्पर्योक्तिः– करणाकरणे त्विति ।। सन्न्यासशब्दार्थे तु करणं विवक्षितमिति हृदयम् । अत एव ‘अश्वमेधादीनाम् अनुद्दिष्टफलानाम् अनुष्ठानात्’ इति वक्ष्यति । तथा च अश्वमेधादिकर्मानुष्ठानायैव तत्फल-स्वर्गाद्यनभिसन्धिः सन्न्यासः, वैकल्पिकनित्यरूपोभयविधकाम्यकर्मणामेव करणाकरणविवक्षया फलमात्रत्यागः त्याग इति तयोर्भेद इति विभावितं भवतीति वदन्ति । ‘अकरणेन’ इति भाष्याविसंवादाय ‘अकर्मणा’ इत्यस्य प्रकृतेऽन्वयाय चार्थमाह– अकर्मणा अकरणेनेति ।। ‘काम्यानां स्वरूपतस्त्यागः, नित्यनैमित्तिकानां फलत्यागः’ इति परव्याख्याने किं दूषणमुक्तं स्यात् इत्यतः तद्दर्शयति– जनकेति ।। फलानुद्देशे प्रेक्षावतां प्रवृत्तेरनुपपत्तिरिति विशेष-परिजिहीर्षयोक्तम्– मुमुक्षुभिरिति ।। अनुद्दिष्टफलानाम् अनभिसंहितनश्वरस्वर्गादिफलकानाम् । स्वरूपपरित्याग एव स्वरूपत एव त्यागः सन्न्यासः’ इति योज्यम् । न त्यागः नित्य-नैमित्तिककर्मफलत्यागः, ‘न युक्त इति भावः’ इति शेषः ।।

गीताक्षरार्थस्तु अत्र परिहार उक्तो भगवतेत्युच्यते– भगवानुवाच– काम्यानामिति ।। काम्यानि कर्माणि द्विविधानि वैकल्पिककाम्यानि नियतकाम्यानि चेति । तत्र यानि फलाभि-सन्धिना कर्तुं योग्यान्येव तदनभिसन्धिनाऽपि कर्तुं योग्यान्येव, (तदभिसन्धिनाऽपि कर्तुं योग्यानि) तान्युच्यन्ते वैकल्पिककाम्यानीति । यानि तु केवलम् ऐहिकफलाभिसन्धिना क्रियन्ते पुत्रकामेष्टिकारीर्यादीनि, तान्युच्यन्ते नियतकाम्यानीति । तत्र वैकल्पिककाम्यानाम् अश्वमेधा-दीनां फलानिच्छया फलाभिसन्धिना क्रियमाणत्वरूपविशेषणत्यागेन त्यागम्, नियतकाम्यानां कारीर्यादीनां स्वरूपाकरणेन त्यागं सन्न्यासं सन्न्यासशब्दार्थं कवयः पण्डिताः विदुः जानन्ति सर्वेषां काम्यकर्मणामेव फलत्यागं करणाकरणौदासीन्येन फलाभिसन्धित्यागं त्यागशब्दार्थं विचक्षणाः प्राज्ञाः प्राहुः कथयन्ति ।। २ ।।

भावदीपिका

।। नित्येत्यादि ।। नित्यं सन्ध्यावन्दनादि । नैमित्तिकं पितृश्राद्धादि । ‘नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया’ इति वचनेन प्रत्यवायपरिहारार्थमेव तेषां कर्तव्यत्वादिति भावः । ननु ‘अकरणेन वा’ इति पक्षान्तरेऽश्वमेधादीनां स्वरूपेण त्यागप्राप्त्याऽपव्याख्यानमेवाङ्गीकृतं स्यात्? इत्यत आह– वैकल्पिकेति ।। ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च’ इति वक्ष्यमाणरीत्या फलेच्छया तदनिच्छया च कर्तंु योग्यत्वात् ज्योतिष्टोमादीनां वैकल्पिककाम्यत्वम् । विशेषणत्यागेनेति ।। फलकामना-विषयत्वरूपविशेषणत्यागेनेत्यर्थः । नियतकाम्यानामिति ।। कारीर्यादीनामित्यर्थः । काम्य-कर्मणामिति ।। वैकल्पिककाम्यकर्मणामित्यर्थः । नित्यनैमित्तिकव्यावृत्त्यर्थम् ‘एव’ इत्युक्तम् । यद्वक्ष्यति– ‘नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन त्यागो न युक्तः’ इति । नन्वेवं तर्हि सन्न्यासात् त्यागस्य कथं भेद इत्यत आह– करणाकरणे त्विति ।। ‘त्यागः’ इति शेेषः । सन्न्यासशब्दार्थे तु करणं विवक्षितमिति भावः । अत एव ‘विशेषणत्यागेन’ इत्युक्तम् । तथाच ‘कर्म कृत्वैव नश्वरस्वर्गादिफलत्यागः सन्न्यासः’, ‘तादृशफलत्यागमात्रं त्यागः’ इति द्वयोर्भेद इत्युक्तं भवति । परव्याख्यानं दूषयति– जनकेति ।। ‘नित्य-नैमित्तिकादि’ इत्युक्ततदीयत्यागशब्दार्थं दूषयति– नित्येति ।। २ ।।

भावप्रकाशः

नित्यनैमित्तिकादीत्यादिपदं सम्पातायातम् । अत एवाग्रे नित्यनैमित्तिकफलस्येत्येवोक्तम् । शब्दतः प्रतीतं विरोधं विषयव्यवस्थया परिहरति– वैकल्पिकेति ।। अश्वमेधादीनामित्यर्थः । ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च’ इत्युक्तेः । फलेच्छया तदनिच्छया च कर्तंु योग्यत्वाद्वैकल्पिककाम्यत्वमिति भावः । विशेषणेति ।। काम्यत्वं नाम फलेच्छया क्रियमाणत्वम् । तत्रेच्छारूपविशेषणत्यागेनेत्यर्थः । नियतकाम्यानामिति ।। ग्रामपश्वादिकामनया विहितानां चित्रादियागानामित्यर्थः । न चैतेषामपि फलेच्छया तदनिच्छया च कर्तंु शक्यत्वाद्वैकल्पिकत्वं शङ्क्यम् । अश्वमेधादिवन्मोक्षे-च्छया जनकादिभिरेतदननुष्ठानान्नित्यकाम्यत्वमेवेत्याशयात् । किञ्च यथा ज्योतिष्टोमादीनां फलोद्देशेन च विधिः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिश्रवणात् तथा चित्रादियागानां न विधिः । अतोऽपि नित्यकाम्यत्वमेवेति । काम्यकर्मणामेवेति ।। वैकल्पिककाम्यानामे-वेत्यर्थः । नित्यनैमित्तिकव्यावृत्त्यर्थम्‘ एव’ इत्युक्तम् । नन्वेवं तर्हि सन्न्यासात् त्यागस्य कथं भेद इत्यत आह– करणाकरणे त्विति ।। लक्षणशरीरप्रविष्टतयेति शेषः । सन्न्यासशब्दार्थे तु करणं विवक्षितमिति भावः । अत एव विशेषणत्यागेनेत्युक्तम् । तथा च कर्म कृत्वैव स्वर्गादिनश्वरतत्फलत्यागः सन्न्यासः । तादृशफलत्यागमात्रश्च त्याग इति द्वयोर्भेदो बोध्यः । अपव्याख्यानं निराह– जनकेति ।। २ ।।