पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। २६ ।।

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। २६ ।।

भाष्यम्

दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याऽह– पत्रमिति ।। न त्वविहितपत्रादि । तस्यापराधत्वोक्तेर्वाराहादौ । भक्त्यैवाहं तृप्य इति भावः ।

भक्तप्रियं सकललोकनमस्कृतं च’ इति भारते ।

एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।

 एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्’ इति ।। २६ ।।

भावप्रदीपिका

अस्त्वन्यद्वारा त्वद्यजनेऽल्पफलम् । तथाऽप्यन्ययजनमेव वरं तव महत्त्वेन पूजयितुं साधनाभावादित्याशङ्कापरिहाराय श्लोकमवतारयति– दुर्बलैरिति ।। यदि न साधने तात्पर्यम्, तर्हि यत्किञ्चित्पत्रादिनाऽपि पूजा स्यादित्यत आह– न त्वति ।। यदि न साधनमपेक्षितं तर्हि कथं हरिप्रसाद इत्यत आह– भक्त्येति ।। २६ ।।

प्रमेयदीपिका

‘पत्रम्’ इत्यस्य सङ्गत्यप्रतीतेराह– दुर्बलैरिति ।। ‘अतस्तद्भजनस्य महाफलत्वेऽपि तद्विहायाल्पानां देवानां भजनमल्पफलमपि सुशकत्वात् करोमि’ इति प्रासङ्गिकशङ्काशेषः । साधनानादरस्योक्तत्वात् यत्किञ्चित् पत्रादिकम् इति न मन्तव्यम् इत्याह– नत्विति ।। तत् किमपि भगवते समर्पणीय-मेवेति नियमोऽत्राभिप्रेत इत्यत आह– भक्त्यैवेति ।। कुतः? इत्यत आह– भक्तेति ।। स्वार्थः स्वार्थसाधनोपायः । आत्मनः गोविन्दस्य ।। २६ ।।

भावबोधः

।। प्रासङ्गिकेति ।। प्रकृताक्षेपसमाधानरूपत्वाद्यभावादिति भावः । साधनोपाय इति ।। साधनं भावः । तथा च स्वः स्वरूपभूतानन्दाविर्भावोऽर्थः प्रयोजनं येनेति स्वार्थसाधने एकान्तभक्तिरुपाय इत्यर्थः ।। २६ ।।

भावदीपः

।। प्रासङ्गिकेति ।। प्रासङ्गिकी भगवत्तदितरभजनयोरनल्पाल्प-फलकत्वोक्तिप्रसङ्गादागता या शङ्का तस्याः शेष इत्यर्थः ।। साधनोपाय इति ।। स्वाभीष्ट-साधना इयं गोविन्दैकान्तभक्तिरुपाय इत्यर्थः ।। २६ ।।

भावरत्नकोशः

।। आह सङ्गतिम् । पूर्वोक्तानाक्षेपाद् इयं शङ्कैव नेत्यत उक्तम्– प्रासङ्गिकेति ।। भागवतत्रैविद्यभजनयोः अनल्पाल्पफलोक्तिप्रसङ्गागतशङ्काशेष इत्यर्थः । पत्रादेर्लोकरीत्या महनीयत्वाभावादाह– साधनानादरस्येति ।। ‘इदं पत्रम्’, ‘इदं पुष्पम्’ इत्येवंरूपेणानुक्तेरनादर इत्यपि आहुः । किमपि यत्किञ्चिदपि भगवते समर्पणीयमेव किम् इत्यन्वयः । भक्तेरात्मदर्शनस्य च स्वतोऽपुरुषार्थत्वादाह– साधनोपाय इति ।। स्वार्थशब्देन स्वार्थनिष्पादनोपायो ग्राह्य इत्यर्थः । कोऽसौ ? इत्यत उक्तं भाष्ये ‘एकान्तभक्तिः आत्मदर्शनं चेति द्वयमित्येतावानेव स्वार्थः’ इति । अत्रात्मशब्दार्थ आत्मनः गोविन्दस्येति ।। ‘गोविन्दे’ इति प्रस्तावादियमुक्तिः ।। २६ ।।

दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वात् । अतस्त्वद्भजनस्य महाफलत्वेऽपि तद्विहायाल्पानां देवानां भजनम् अल्पफलमपि सुशकत्वात् करोमि इत्यत उच्यते– पत्रमिति ।। अनिषिद्धं पत्रादि यो मे मह्यं प्रयच्छति ददाति, तस्य प्रयतात्मनः प्रकर्षेणोपरतमनस्कस्य परिशुद्ध-मानसस्य वा तत् पत्रादि भक्त्युपहृतं भक्त्या समर्पितम् अहमश्नामि प्रतिगृह्णामि । ‘भक्त्यैवाहं तुष्टो भवामि, न द्रव्यादिना’ इति द्वि भक्तिशब्दं प्रयुञ्जानस्य भावः ।। २६ ।।

भावदीपिका

।। प्रासङ्गिकेति ।। प्रकृताक्षेपसमाधानरूपत्वाभावादिति भावः । साधनानादरस्येति ।। सामान्यतः ‘पत्रं पुष्पम्’ इत्याद्यनेकसाधनोक्त्या तुलसीपत्रादिरूप एव साधनेऽनादर उक्त इत्यर्थः । ‘स्वस्यार्थो येन भवत्यसौ स्वार्थः’ इति विग्रहमभिप्रेत्याह– स्वार्थसाधनेति ।। साधनशब्दोऽत्र भावार्थः । तथा च स्वार्थसंपादनोपाय इत्यर्थः । ‘आत्मनः स्वस्य दर्शनम्’ इत्यन्यथाप्रतीतिनिरासायाह– आत्मन इति ।। सन्निधानादिति भावः ।। २६ ।।

भावप्रकाशः

 ननु कथमियं शङ्का, पूर्वोक्तानाक्षेपादित्यत उक्तम्– प्रासङ्गिकेति ।। साधनादरस्येति ।। इदं पत्रमित्यादि विशेषरूपेणाऽनुक्तेरित्यर्थः । भक्त्यादेः स्वतः फलत्वाभावादाह– स्वार्थः साधनोपाय इति ।। स्वः स्वरूपभूत आनन्दादिरर्थो येनेति व्युत्पत्तेः लक्षणाद्वेति भावः ।। २६ ।।