आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रवहन्ति यद्वत् ।। तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।। ७० ।।

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रवहन्ति यद्वत् ।।

तद्वत् कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ।। ७० ।।

भाष्यम्

 तेन विषयानुभवप्रकारमाह– आपूर्यमाणमिति ।। यो विषयैरापूर्य-माणोऽप्यचलप्रतिष्ठो भवति नोत्सेकं प्राप्नोति नच प्रयत्नं करोति नच अभावे शुष्यति । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिं प्राप्नोतीत्यर्थः ।। ७० ।।

भावप्रदीपिका

ननु मत्तादिसदृशस्य ‘भूयात्, मा भूत्’ इत्यपेक्षाभावात् कथं विषयानुभवः ? इत्याशङ्कां परिहर्तुमुत्तरश्लोकद्वयमवतार्य व्याचष्टे– तेनेति ।। ‘अचल-प्रतिष्ठः’ इत्यनूद्य ‘नोत्सेकम्’ इत्यादि व्याख्यानम् ।। ७० ।।

भावप्रकाशिका

सुप्तवच्चेत्, कथं तेन विषया अनुभूयन्ते ? इत्यत्राह– तेनेति ।। ७० ।।

प्रमेयदीपिका

पृष्टस्य समस्तस्योत्तरमुक्तम् । तत् किम् ‘आपूर्यमाणम्’ इत्यनेन? इत्यत आह– तेनेति ।। ‘क्रियमाण’ इत्युपस्कर्तव्यम् । नित्यसापेक्षत्वाद-सामर्थ्याभावः । ‘बाह्यानुसन्धानरहितस्य युज्येतापि कथञ्चिद्गमनादिकम् । विषयानुभवस्तु दृश्यमानः कथं स्यात्? तस्य नियतसाधनसाध्यस्य अनुसन्धानेन विनाऽनुदयादित्याशङ्का-परिहारार्थम्’ इति शेषः । ‘तद्वत्कामा यं प्रविशन्ति’ इति सङ्क्षेपेणोक्तम् । तद्विवृणोति– य इति ।। कामशब्दस्यार्थः विषयैरिति। अन्यथा ‘विहाय कामान्’ इत्युत्तरविरोधात् । ‘अचलप्रतिष्ठम्’ इत्यस्यैव व्याख्यानं– नोत्सेकमित्यादि ।। कुत एषोऽर्थः? इत्यतः समुद्रदृष्टान्तोपादान-सामर्थ्यादिति भावेनाऽह– नहीति ।। ‘स शान्तिमाप्नोति’ इत्यस्य अर्थमाह– स इति ।। ज्ञानिप्रशंसार्थमेतत् । एतद् दृष्ट्वा केचित् ‘ज्ञानिन एव मुक्ति-रित्यनेनाह’ इत्याहुः । तदसत् । गतार्थत्वात् ।। ७० ।।

भावबोधः

ननु ‘तस्य’इति वक्तव्यम् । ‘तेन’इत्यनन्वितं कथमुक्तम्?इत्यतः तदन्वयार्थमध्याहरति– क्रियमाणेति ।। तर्हि ‘तेन’ इत्येतत्सापेक्षत्वेन क्रियमाणपदस्या-सामर्थ्यात् विषयानुभवपदेन समासो न स्यादित्यत आह– नित्यसापेक्षत्वादिति ।। अन्यथेति ।। कामप्राप्तावपीच्छाभावेन नोत्सेकादिकं प्राप्नोतीति विवरणाकरणे यं कामाः प्रविशन्ति, यः कामान् इत्यनयोः परस्परं विरोधादिति भावः । गतार्थत्वादिति ।। ‘न चाभावयतः शान्तिः’ इत्यादिना अस्यार्थस्योक्तत्वादिति भावः ।। ७० ।।

भावदीपः

ननु ‘क्रियमाण’ इत्युपस्कृतपदस्यानुभवविशेषणतया समासो न युक्तः । ‘साकाङ्क्षमसमर्थम्’ इति, ‘तेन’ इतिपदसाकाङ्क्षतया सामर्थ्याभावादित्यत आह– नित्येति ।। देवदत्तस्य गुरुकुलमिति यथेति भावः ।। कथञ्चिदिति ।। मत्तादिरिवेति भावः ।। अन्यथेति ।। कामपदस्येच्छार्थकत्वे सति, एतद्विवरणपरोत्तरश्लोके विषयार्थककामपदेन विरोधादित्यर्थः ।। तत्रापीच्छार्थत्वसत्वादिति भावः ।। निस्पृहपदेन पुनरुक्तेः, त्रिपाद्यैव विषयानुभवप्रकारस्योक्तत्वाद् व्यर्थोऽयं चतुर्थपाद इत्यत आह– ज्ञानिप्रशंसार्थमिति ।। गतार्थत्वादिति ।। न चाभावयतो ज्ञानं, न चाज्ञानिनः शान्तिरिति योजनया तत्रैव सिद्धत्वादिति भावः ।। ७० ।।

वाक्यार्थप्रदीपः

ननु किमाकाङ्क्षापूरकाभावेन ‘तेन’ इत्यनेन? । तथा च ‘तेन’ इत्येतदनन्वितमित्याशङ्काम् आकाङ्क्षापूरकतया परिहरति– क्रियमाणेत्युपस्कर्तव्य-मिति ।। ‘सोपस्कराणि वाक्यानि भवन्ति’ इति न्यायादिति भावः । ननु ‘क्रियमाण’ इत्यस्य ‘तेन’ इत्येतत्सापेक्षत्वात् सापेक्षस्य च ‘सापेक्षमसमर्थं भवति’ न्यायेन वृत्तौ उपसर्जनत्वात् उपसर्जनपदस्य प्रधानार्थाभिधायिना भाव्यत्वेन अप्रधानत्वस्य, स्वविशेषणापेक्षया च प्रधानत्व-स्यावश्यकत्वात् एकस्यैकदा प्रधानत्वाप्रधानत्वयोरसम्भवेनासमर्थत्वात् कथं ‘क्रियमाण’ इत्यस्य विषयभोगशब्देन समासः । ‘समर्थः पदविधिः’ इति समासविधौ समर्थाधिकारेण निरपेक्षस्यैव तद्विधानादित्यतः पूर्वकायोराभेः ‘देवदत्तस्य गुरुकुलम्’ इत्यादौ समासदर्शनेन नित्यसापेक्षस्य तत्सिद्ध्या पूर्वादिशब्दवत् सम्बन्धिशब्दत्वेन क्रियमाणशब्दस्यापि नित्यसापेक्षत्वात् विषयभोग-शब्देन समासो युक्त इत्याह– नित्यसापेक्षत्वादसामर्थ्याभाव इति ।।

भावरत्नकोशः

ननु ‘तस्य विषयानुभव’ इति वक्तव्यम् । यावता ‘कर्तृकर्मणोः कृति’ इति कृदन्तपदयोगे षष्ठी विहिता । ‘विषयानुभव’ इति च कृदन्तम् । अतः तेनेति तृतीयानुपपत्तिः । तेन ज्ञानिनो ‘विषयानुभवप्रकारम्’ इत्यनन्वितं चेत्यत आह– क्रियमाणे-तीति ।। ‘क्रियमाण’ इत्यत्र शानचः लादेशत्वेन तद्योगे ‘न लोकाव्यय’ इति षष्ठीप्रतिषेधात् तृतीयैव युक्ता । न षष्ठीति भावः । एतेन ‘अनन्वितम्’ इति चोद्यं च निरस्तम् ।

ननु क्रियमाणपदस्य ‘तेन’ इत्यनेन पदेन सापेक्षत्वात् सापेक्षस्य च ‘सापेक्षमसमर्थम्’ इत्यसमर्थत्वात् समर्थस्यैव ‘समर्थः पदविधिः’ इति परिभाषासूत्रे ‘पदान्तरेण समासः’ इति वैयाकरणैरभिधानाद् विषयानुभवपदेन कथं समास इत्यत आह– नित्यसापेक्षत्वादिति ।। ‘देवदत्तस्य गुरुकुलम्’ इत्यादाविवात्रापि समास उपपद्यत इति भावः । तथा च समर्थसूत्रे हरदत्तः ‘कथं तर्हि देवदत्तस्य गुरुकुलमिति सापेक्षस्य वृत्तिः?’ इत्याक्षिप्य ‘नात्र गुरुणा देवदत्तस्य सम्बन्धः । किं तर्हि ? समुदायेन गुरुकुलेन । गुरुद्वारकश्च कुलेन सम्बन्ध इति गुरुणाऽपि योगो भवति । उक्तं च–

समुदायेन सम्बन्धो येषां गुरुकुलादिना ।

 संस्पृष्टावयवास्तेऽपि युज्यन्ते तद्वता सह’ इति ।।

अथवा, परिपूर्णस्वार्थस्यान्येन सहैकार्थीभावः सामर्थ्यम् । स्वार्थपरिपूर्तिश्च सम्बन्धिशब्दस्य प्रतियोगिनेति तदपेक्षस्यापि वृत्तिः । उक्तं च

सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।

 स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ।। इति’

द्वेधा समाधानमभ्यधत्त ।। ‘क्रियमाणम्’ इत्युपस्कारे नैवं समाधानसम्पादनायास इति तु मन्दम् । नहि विषयानुभवप्रकारः पुरुषेण क्रियते । किन्त्वनुभव एवेति ‘क्रियमाण’ इत्युपस्कार एव युक्तः । युज्येतापीति ।। उत्स्वप्नवचनादेर्दर्शनादिति भावः । नियतेति ।। नियतं साधनम् इन्द्रियार्थसन्निकर्षादि । अन्यथा ‘तद्वत् कामाः’ इत्यत्र कामशब्दस्य काम्यन्त इति व्युत्पत्त्या विषयार्थत्वमनङ्गीकृत्य रूढ्येच्छावाचित्वे । उत्तरेति ।। एतद्विवरणपरोत्तरश्लोके विषयार्थक-कामपदेन विरोधादत्रापि तदर्थत्वमेवाभ्युपेयम् । तत्रापीच्छार्थत्वे निःस्पृहपदेन पुनरुक्तेरिति भावः । उक्तिविरोधादिति पाठेऽप्ययमेवार्थः । अचलप्रतिष्ठमित्यस्यैवेति ।। एतद्विवरणाभावे अचला प्रतिष्ठा यस्य सोऽचलप्रतिष्ठ इति प्रतिष्ठाशब्दितायाः स्थितेरचलत्वं किंरूपं विवक्षित-मिति न ज्ञायत इति शङ्का न परिहृता स्यात् । तत्परिहाराय उत्सेकशोषाभावरूपमचलत्वमत्र विवक्षितमिदमिति दर्शयितुं ‘नोत्सेकं प्राप्नोति, न च प्रयत्नं करोति’, उत्सेकायेति शेषः, ‘न चाभावे शुष्यति’ इति च अचलप्रतिष्ठत्वं व्याख्यातवानित्यर्थः ।।

एषोऽर्थः विषयैरापूर्यमाणोऽपीत्यादिनोक्तोेऽर्थः । न हि समुद्रः सरित्प्रवेशनिमित्तां वृद्धिं न प्राप्नोतीत्युक्ते ‘अस्ति चेषत् समुद्रेऽपि द्वारि’ इति वृद्धेः प्राग् भाष्य एवोक्तत्वात् तद्विरोध इत्यत उक्तं– भाष्ये बहुतराविति ।। ईषद्वृद्धिः प्रागभ्युपगतेति न तद्विरोध इति भाष्यार्थः स्फुट-त्वान्नोक्तः । प्रयत्नम् उत्सेकाय करोति समुद्रः । ‘स मुक्तिम्’ इति भाष्यस्य यो विषयैरापूर्य-माणोऽपीत्यन्वयः । त्रिपाद्यैव विषयानुभवप्रकारस्योक्तत्वात् ‘स शान्तिमाप्नोति’ इति वचनं व्यर्थमित्यत आह– ज्ञानीति ।। ‘यं कामाः प्रविशन्ति स शान्तिमाप्नोति । न पुनः कुत्सित-विषयासक्तः’ इति वाक्येन ज्ञानिनो हि प्रशंसाऽवगम्यते । ‘प्रसादे सर्वदुःखानां हानिरस्य’ इति प्रागेव ज्ञानिनो मुक्तेरुक्तत्वेन पुनस्तदुक्तेर्नातीव प्रयोजनम् । अतो ज्ञानिस्तवनमित्येव वक्तव्य-मिति भावः । एतद्दृष्ट्वेति ।। प्रयोजनशून्यं ‘स शान्तिम्’ इति वाक्यं दृष्ट्वेत्यर्थः । ज्ञानिन एवेति ।। तथा च शङ्करः ‘विदुषस्त्यक्तेषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः’ इति ।। गतार्थत्वादिति ।। ‘न चाभावयतः’ इत्यत्र ‘न चाभावयतो ज्ञानं न चाज्ञानिनः शान्तिः’ इति विवक्षितत्वात् तेन गतार्थत्वादित्यर्थः ।। ७० ।।

गीताक्षरार्थस्तु– ज्ञानिनो बाह्यार्थानुसन्धानहीनस्य मत्तस्येव युज्येतापि कथञ्चिद् गमनादिकम् । विषयानुभवस्तु दृश्यमानः कथं स्यात् । तस्य नियतसाधनसाध्यस्यानुसन्धानेन विनाऽनुदयादित्याशङ्क्य ज्ञानिना क्रियमाणविषयानुभवप्रकारकथनपूर्वकं ज्ञानी प्रशस्यते – आपूर्यमाणमिति ।। नानानदीजलैरापूर्यमाणम्, अचला सरित्प्रवेशाद् वृद्धिविशेषहीना प्रतिष्ठा स्थितिः यस्य तं तथा सरितामप्रवेशनिमित्तशोषहीनं च अत एव सरित्प्रवेशार्थं यत्नहीनं च समुद्रम् आपः यद्वत् यथा प्रविशन्ति तद्वत् तथा यं ज्ञानिनं विषयैरापूर्यमाणमपि उत्सेकानु-त्सेकहीनं काम्यन्त इति कामा विषयाः प्रविशन्ति, यो विषयैरापूर्यमाणोऽप्यचलप्रतिष्ठो भवति नोत्सेकं प्राप्नोति न चाभावे शुष्यति न च प्रयत्नं करोति, कुत एषोऽर्थो लभ्यत इति चेत् समुद्रदृष्टान्तोपादानसामर्थ्यादिति ब्रूमः । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तौ वृद्धिशोषौ बहुतरौ प्राप्नोति प्रयत्नं वा करोति, स शान्तिं मुक्तिमाप्नोति । न तु कामान् कामयितुं शीलमस्येति कामकामी कुत्सितविषयेच्छाशीलः शान्तिमाप्नोतीति ।। विषयभोक्ता कामी कथं शान्तिमाप्नुयादित्यत उक्तं– नेति ।। एवं विषयाननुभवन्नपि स ज्ञानी न कामकामी स्यादिति वेति स्वामिनः ।। ७० ।।

भावदीपिका

ननु ‘तस्य’ इति वक्तव्यम् । ‘तेन ज्ञानिना विषयानुभव-प्रकारमाह’ इत्यनन्वितमित्यत आह– क्रियमाणेति ।। तथाच तेन ज्ञानिना क्रियमाणो यो विषयानुभवस्तत्प्रकारमाहेत्यर्थः । ननु तर्हि क्रियमाणपदस्य तेनेत्यनेन सापेक्षत्वेनासमर्थत्वाद् विषयानुभवपदेन समासोऽयुक्तः । ‘सापेक्षमसमर्थवद् भवति’ इति वचनात् । ‘समर्थः पदविधिः’ इति समर्थस्य सुबन्तस्य समर्थेनैव सुबन्तेन समासविधानात् । अतस्तत्क्रियमाणेति वक्तव्य-मित्यत आह– नित्यसापेक्षत्वादिति ।। क्रियमाणपदस्य विषयानुभवपदेन समासेऽपि पूर्वेण ज्ञानिवाचितच्छब्देनाऽकाङ्क्षा न विहन्यते । ‘देवदत्तस्य गुरुकुलम्’ इत्यादौ दर्शनात् । ‘सापेक्षमसमर्थवद् भवति’ इति वचनमुत्थाप्याकाङ्क्षारूपानित्यसापेक्षविषयम् । प्रकृते तूत्थिता-काङ्क्षारूपनित्यसापेक्षत्वाङ्गीकाराददोष इत्याशयः । प्रवृत्तेरपि विषयानुसन्धानाभावेऽयोगात् ‘कथञ्चित्’ इत्युक्तम् ।। नियतसाधनेति ।। इन्द्रियार्थसन्निकर्षरूपनियतसाधनेत्यर्थः ।

।। कामशब्दस्येति ।। काम्यन्त इति कर्मव्युत्पत्त्येत्यर्थः ।। अन्यथेति ।। ‘कामनं कामः’ इति भावव्युत्पत्त्या इच्छां गृहीत्वा विषयाणां कामशब्देनाग्रहणे ‘विहाय’ इत्युत्तरश्लोके कामशब्देन विषयाणां गृहीतत्वात् तद्विरोधः स्यादित्यर्थ इत्याहुः । वस्तुतस्तु, अन्यथा ‘तद्वत् कामाः’ इति शब्दोक्तविषयप्राप्तावपीच्छाभावेन नोत्सेकादिकं प्राप्नोतीति विवरणाकरणे ‘तद्वत् कामा यं प्रविशन्ति’ ‘विहाय कामान्’ इत्यनयोः परस्परं विरोधः स्यादिति भावः ।। प्रशंसार्थ-मेतदिति ।। ‘प्रसादे सर्वदुःखानाम्’ इत्यादिना ज्ञानिनो मुक्तेः प्रतिपादितत्वेन पुनस्तदुक्तौ प्रयोजनाभावादिति भावः ।। एतद् दृष्ट्वेति ।। प्रयोजनशून्यं ‘स शान्तिमाप्नोति’ इति वचनं दृष्ट्वेत्यर्थः ।। ज्ञानिन एवेति ।। नचाज्ञानिन इत्यर्थः ।। गतार्थत्वादिति ।। ‘नचाभावयतः शान्तिः’ इत्यभिप्रेतत्वेन गतार्थत्वादित्यर्थः ।। ७० ।।

भावप्रकाशः

 ।। अन्यथेति ।। अत्रत्यकामशब्दस्य विषयार्थत्वाभाव इत्यर्थः । उत्तरविरोधादिति ।। तत्र ‘निःस्पृहः’ इति पृथगुक्तेः कामशब्दस्य विषयवाचित्वावश्यम्भावादिति भावः । वैयर्थ्यमाशङ्क्याह– ज्ञानिप्रशंसार्थमिति ।। गतार्थत्वादिति ।। ‘नचाभावयतः शान्तिः’ इत्यादिनेति शेषः ।। ७० ।।