परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। १२ ।।
अर्जुन उवाच–
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। १२ ।।
भाष्यम्
ब्रह्म परिपूर्णम् । ‘अथ कस्मादुच्यते परं ब्रह्म । इति। बृहत् बृहत्या बृहति बृंहयति’ इति च श्रुतिः । ‘बृह बृहि वृद्धौ’ इति । ‘परमं यो महद् ब्रह्म’ इति च । विविधमासीदिति विभुः । तथा हि वारुणशाखायाम् ‘विभु च प्रभु च प्रथमं मेहनावत इति स ह्येव प्राभवत् विविधोऽभवत्’ इति । ‘सोऽकामयत बहुः स्यां प्रजायेय’ इत्यादेश्च ।। १२ ।।
भावप्रदीपिका ब्रह्मविभुशब्दयोः सप्रमाणकमर्थभेदमाह– ब्रह्मेति ।। पृथिव्याख्यमेहनावतो हरे रूपं विभु प्रभु चेत्यर्थः ।।
प्रमेयदीपिका
ब्रह्मविभुशब्दावैक्यार्थपरिहाराय क्रमेण सप्रमाणकं व्याचष्टे– ब्रह्मेति ।। परं वस्तु ब्रह्म इति कस्मादुच्यते । बृहति पूर्णं भवति । बृंहयति पूरयति चान्यान् । बृहतेर्मन्प्रत्ययः, अमागमश्च । ईश्वरो ब्रह्मणोऽन्यः । स कथं परं ब्रह्मेत्युच्यते? इत्यत उक्तम्– परममिति ।। विविधम् अनेकरूपत्वेन अभवत् । मेहनावतः सेचकस्य भगवतः प्रथमं रूपं ‘विभु प्रभु च’ इत्येतदनूद्य व्याख्यायते । प्राभवत् समर्थोऽभवदिति प्रभुः । विविधोऽभवदिति विभुः । ‘सोऽकामयत’ इति विविधभवने श्रुत्यन्तरम् । ‘विप्रसम्भ्यो ड्वसञ्ज्ञायाम्’ इति च स्मृतिः ।। १२ ।।
भावबोधः
।। अमागमश्चेति ।। मिदचोऽन्त्यात्पर इति हकारात्पूर्वममागम इत्यर्थः । विप्रसम्भ्य इति ।। अनेन विप्रेत्युपसर्गाभ्यां परस्य भूधातोरसंज्ञायां यौगिकार्थ-विवक्षायां कर्तरि डुप्रत्यये डित्वसामर्थ्यादभस्याप्यूकाररूपटेर्लोपे प्रत्ययोकारसम्बन्धे विभु प्रभ्विति रूपनिष्पत्तिरिति भावः ।। १२ ।।
भावदीपः
।। मनिनिति ।। ‘अन्येभ्योऽपि दृश्यते’ इति सूत्रेण ‘आतो मनिन्क्वनिब्वनिपश्च’ इति पूर्वसूत्रादनुवृत्तमनिन्प्रत्यये दृशिग्रहणात्, अमागमे यणादेशे च रूपसिद्धेरिति भावः ।। विप्रसम्भ्य इति ।। वीत्याद्युपसर्गत्रयात् परतो विधातोः डप्रत्यय इत्यर्थः । डित्वात् टेर्लोपे ‘विभुः, प्रभुः, सम्भूतिः’ इति रूपमिति भावः ।। १२ ।।
वाक्यार्थप्रदीपः
।। बृहतेर्मन्प्रत्य इति ।। वृद्ध्यर्थाद् बृहतेः अन्येभ्योपि दृश्यते इति मन्प्रत्यय इत्यर्थः ।। यद्यप्यत्र ‘आतो मनिन्क्वनिब्वनिपश्च’ इत्यतो मनिनादेरनु-वृत्तेर्बृहतेर्मनिनिति वक्तुमुचितम् । तथापि मनिन्प्रत्यये इनोर्लोपाभिप्रायेण मन्इत्येवोक्तमिति ध्येयम् ।।
अमागमश्चेति ।। दृशिग्रहणसामर्थ्यादिति भावः ।। तथाच बृहतेर्मन्प्रत्यये अमागमे तस्य च मित्वेन मिदचोऽन्त्यात् पर इति हकारात् पूर्वम् अमागमे ‘इको यणचि ’ इति यणि ब्रह्मन् इति रूपं सिद्ध्यतीति द्रष्टव्यम् ।।
यद्यप्यत्र ‘बृंहेः नौच्च’ इत्यौणादिकसूत्रे मनिन्प्रत्ययो नकारस्य चाकर इत्यभिहितत्वात् तत्प्रकारेणैव ब्रह्मशब्दनिष्पत्तिसम्भवे दृशिग्रहणसामर्थ्येन अमागममुपपाद्य ब्रह्मशब्दनिष्पादन-मनुचितम् । नच बृंहेः नस्याकारो विधीयते । नत्वयं बृंहिः । किन्तु बृहिरेवेत्युक्त-प्रकाराश्रयणमावश्यकमेवेति वाच्यम् । ‘बृह बृहि(बृंह?) वृद्धौ’ इत्येव भाष्यकारैरभिधानेन अत्रापि बृंहेरेवाश्रयणे विरोधाभावादिति ।। तथापि ‘बृहजातिजीवकमलासनशब्दराशिषु’ इति धात्वन्तरादपि एतद्रूपनिष्पत्तिरिति सूचनायैवमुक्तमिति द्रष्टव्यम् ।। विप्रसम्भ्योड्वसञ्ज्ञाया-मिति ।। अत्र भुवः सञ्ज्ञान्तरयोः इति अनुवर्तनीयम् । तथाच वि,प्र, सम् ऊह इत्येतत्पूर्वात् भुवः असञ्ज्ञायां यौगिकार्थविवक्षायां कर्तरि डुप्रत्ययो भवतीति सूत्रार्थः । तथाच वि, प्रेत्युप-सर्गपूर्वात् भवतेः डुप्रत्यये डित्वसामर्थ्यात् अभस्यापि उकाररूपटिलोपे प्रत्ययउकारसम्बन्धे विभु प्रभु इति रूपसिद्धिरिति भावः ।।
भावरत्नकोशः
ब्रह्मविभुशब्दौ ‘परं ब्रह्म’ इत्यत्र ब्रह्मशब्दः ‘अजं विभुम्’ इत्यत्र विभुशब्दः ब्रह्मशब्दस्यापरिच्छेद्यवस्तुवाचित्वाद्, विभुशब्दस्य च व्यापिवस्तुवचनत्वाद् ऐकार्थ्यमिति भावः । श्रुतौ परपदम् उद्देश्यस्य, ब्रह्मपदं च विशेष्यस्य समर्पकमिति भावेना-ध्याहरन् योजयति– परं वस्त्विति ।। ‘बृहति’ इत्यनुवादः, ‘पूर्णं भवति’ इति व्याख्यानम् । यद्यपि बृहतिः शब्विकरण इति ‘बर्हति’ इति वक्तव्यम् । तथा च धातुवृत्तिः ‘बर्हति’ इति । तथापि छन्दस्त्वात्, सञ्ज्ञापूर्वकविधेरनित्यत्वाच्च गुणो न प्रवर्तत इति बोद्धव्यम् । पूरयति स्वयोग्यतानुसारेण अन्यान् मुक्तान् । मन्प्रत्यय इति ।। ‘मनिन्् सर्वधातुभ्यः’ इत्यौणादिको मनिन्प्रत्यय इत्यर्थः । इकारनकारयोर्लोपनीयत्वाशयेन ‘मन्प्रत्ययः’ इत्येवोक्तम्् । ‘बृंहेर्नलोपश्च’ इत्यौणादिकसूत्रे वृत्तिकारवचनमेवानुवदति– अमागमश्चेति ।। चशब्दाद् अमागमसमुच्चय इति भावः । बाहुलिकादमागम इत्यपि आहुः । तस्यान्त्यादचः परस्य यणादेशे ‘नेड्वशि कृति’ इति सूत्रकारमतेन ‘वरमनादौ कृति’ इति वार्तिककारमतेन च इडागमनिषेधे च ‘ब्रह्म’ इति रूपमिति भावः ।
‘बृंहयति’ इति भाष्ये ‘बृहि वृद्धौ’ इति धातोः नुमागमे ण्यन्तस्य रूपम् । ‘बृहतेरनिटि’ इति वार्तिकं प्रत्याचक्षणेन भाष्यकृता ‘बृंहयति’ इत्युक्तत्वाद्् ‘बर्हयतीति नलोपः स्यात्’ इति चोद्यानवकाशः । ‘दृह, दृहि, बृह, बृहि वृद्वौ’ इति धातुपाठेऽपि भाष्ये ‘बृहि वृद्धौ’ इति पठन्तीत्युक्तिः ‘पामादिभ्यो नः’ इत्यादिवैयाकरणोक्तिरिव उपयुक्तमात्रग्रहणाभिप्राया । स्वामिनस्तु ‘अन्येभ्योऽपि दृश्यन्ते’ इति पाणिनिसूत्रे ‘आतो मनिन् क्वनिप् वनिपश्च’ इति सूत्राद् अनुवृत्तौ मनिन््प्रत्ययः क्वनिप्प्रत्ययो वनिप्प्रत्ययो विच्प्रत्ययश्च इत्येते अन्येभ्योऽपि धातुभ्यो भवन्तीति वृत्तावुक्तत्वाद् अत्र बृहेर्मनिन्प्रत्ययः । ‘दृशिग्रहणं प्रयोगानुसरणार्थम्’ इति वृत्तिवचनादमागमो यणादेश इडागमाभावश्च । सति चैवं ‘ब्रह्म’ इति रूपमिति व्याख्यातवन्तः ।
‘परमं यो महद् ब्रह्म’ इति भारतवचने यच्छब्दस्य ‘तस्य लोकप्रधानस्य विष्णोः’ इत्यनेनान्वयः । ‘पठन्ति’ इत्यनुवृत्त्यर्थश्चशब्दो भाष्ये । विविधत्वं न स्वरूपेण किन्तु बहुरूपत्वेनेति व्याचष्टे– विविधमनेकेति ।। ‘मिह सेचने’ इति धातोः निष्पन्नो मेहनाशब्दः सेचनार्थक इति भावेनाह– सेचकस्येति ।। श्रुतावन्वयं दर्शयन्नुत्तरवाक्यम् अवतारयति– प्रथममित्यादि ।। ‘प्राभवत्’ इत्यस्यार्थः– समर्थोऽभवदिति ।। ‘बहु स्याम्’ इति बहुभाव-श्रवणादाह– विविधभवने श्रुत्यन्तरमिति ।। भूधातोः कथं ह्रस्वत्वम् इत्यतः पाणिनिसूत्रेण तन्निष्पादयति– विप्रसम्भ्य इति ।। स्मृतिः पाणिनिस्मरणम् । ‘वि, प्र, सम् इत्येभ्य उपसर्गेभ्यः परस्य भूधातोः डुप्रत्ययः स्याद् असञ्ज्ञायाम्’ इति तदर्थः । न केवलं श्रौतनिर्देशो धातोः ह्रस्वत्वे प्रमाणम्, अपि तु पाणिनिसूत्रं चेति चकारः ।।
गीताक्षरार्थस्तु– सामान्येनोक्तौ विभूतियोगौ श्रुत्वा विशेषविवित्सया अर्जुनोऽपृच्छत् इत्युच्यते– अर्जुन उवाच इति ।। परम् उत्तमं ब्रह्म परिपूर्णं पूरयितृ च वस्तु । मुक्तगणोऽपि स्वयोग्यतापेक्षया पूर्णः स्वानुग्राह्यपूरयिता च । इत्यतः – परमिति ।। उत्तमत्वं चात्र स्वातन्त्र्यरूपं विवक्षितमिति ज्ञातव्यम् । परं धाम उत्तमं तेजः, उत्तमाश्रयो वा । परमं पवित्रं सकलपापपावनसमर्थं वस्तु भवान् एव ।। १२ ।।
भावदीपिका
।। ऐकार्थ्येति ।। वृद्ध्यर्थकब्रह्मशब्दस्य देशतो वृद्ध्यर्थ-कत्वाद् , विभुशब्दस्यापि तदर्थकत्वाद् ऐकार्थ्यमित्यर्थः । बृहतेरिति ।। तथा च ‘बृह वृद्धौ’ इत्यस्माद्धातोर्मन्प्रत्ययेऽमागमे, मित्त्वात् हकारात्पूर्वं जाते ‘बृ अह् मन्’ इति जाते, इको यणादेशे, ‘ब्रह् मन् ब्रह्मन्’ इति प्रातिपदिकसिद्धिः । पश्चात् स्वाद्युत्पत्तौ ‘ब्रह्म’ इति भवति । एवमुत्तरत्रापि द्रष्टव्यम् । ब्रह्मणः शुद्धात् । परममिति ।। ‘अनादिनिधनं विष्णुं सर्वलोक-महेश्वरम्’ इत्याद्युक्तविशेषणविशिष्टस्यैव विष्णोः ‘परमं यो महद् ब्रह्म’ इत्यत्र यच्छब्देन परामर्शादिति भावः । ‘मिह सेचने’ इति धातोः ‘सेचकस्य’ इत्युक्तम् । भक्ताभिलषितसेचक-स्येत्यर्थः । विप्रसम्भ्य इति ।। एभ्यः परस्य भूधातोरसञ्ज्ञायां यौगिकार्थविवक्षायां डुप्रत्ययो भवतीति पाणिनिसूत्रार्थः । ‘विभुः’, ‘स प्रभु’ इत्युदाहरणम् । तथा च विप्र इत्युपसर्गाभ्यां परस्य ‘भू सत्तायाम्’ इति धातोः कर्तरि डुप्रत्यये डित्त्वात् टीभूतस्य ऊकारस्य लोपे प्रत्ययोकारे च मिलिते सति ‘विभु’ ‘प्रभु’ इति प्रातिपदिकनिष्पत्तिर्द्रष्टव्या ।। १२-१५ ।।
भावप्रकाशः
।। बृहतीति ।। बृहेः शब्विकरणत्वेऽपि सञ्ज्ञापूर्वकविधेर-नित्यत्वाद्गुणाभाव इति बोध्यम् । मन्प्रत्यय इति ।। सर्वधातुभ्यो मनिन्नित्युणादिसूत्रेण मनिन्प्रत्यय इत्यर्थः । नकारेकारयोः लोपाभिप्रायेण मन्नित्युक्तम् । अमागमश्च बाहुलकादिति बोध्यम् । इदं च बृहे रूपसाधनार्थमुक्तम् । यदा बृंहे रूपं तदा बृंहेरन्तर्णीतण्यर्थान्मनिन्प्रत्यये बृंहेर्न्नाेच्चेत्युणादिसूत्रेण नकारस्याकारादेश इति बोध्यम् । बृंह वृद्धाविति ।। बृहीत्येव धातुपाठेपि इदितो नुम्धातोरिति नुमि सति फलितमभिप्रेत्य बृंहेत्युक्तम् । सेचकस्येति ।। मिह सेचन इति स्मृतेर्मेहनाशब्दस्य सेचनार्थत्वादिति भावः । विप्रसंभ्य इति ।। वि प्र सं एभ्यः उपसर्गेभ्यः पराद्भुवो डुः स्याद् असञ्ज्ञायामिति सूत्रार्थः । तथा च कर्तारि डुप्रत्यये डित्वाट्टिलोपे विभु प्रभुशब्दनिष्पत्तिरिति भावः ।। १२ ।।