तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। ११ ।।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। ११ ।।

भावरत्नकोशः

अनाद्यज्ञानकृतसंसारबन्धसत्त्वात् कथं त्वत्प्राप्तिः ? इत्यत उक्तम्– तेषामेवेति ।। उक्तप्रकारकभजनवताम् अनुकम्पार्थम् अनुग्रहार्थमेव, न पुनः किमपि फलमुद्दिश्य, इत्येवकारः । अज्ञानजं तमः तम इव क्लेशरूपं संसारम् । आत्मभावस्थः स्वचित्तवृत्तौ विषयतया स्थितः सन् भास्वता विरोधिनाशनदक्षतया दीप्यमानेन, ज्ञानमेव दीपः तेन नाशयामि इति ।। ११ ।।