मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७ ।।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७ ।।
भाष्यम्
अहमेव परतरः । मत्तोऽन्यत् परतरं न किञ्चिदपि ।। ७ ।।
भावप्रदीपिका
ननु न केवलं पूर्वकाले, सदाऽपि मत्तः परतरं नान्यदित्य-न्यथाप्रतीतिनिरासाय यथावद्व्याचष्टे अहमिति ।।
भावप्रकाशिका
एवं जडाजडप्रकृत्योरपरत्वपरत्वोक्तौ परतरः कः ? इत्या-काङ्क्षायां स एव निरूपणीयः, न तु सर्वाभेद इति भावेन ‘मत्तः’ इति श्लोकार्धं व्याचष्टे– अहमेवेति । भगवतोऽन्यस्य परतरत्वनिषेधात् स एव परतरः । अन्यत्वमात्रनिषेधे ‘परतर’ शब्दः ‘अन्यत्’ शब्दो वा व्यर्थ इति भावः । परापरयोश्चिदचित्प्रकृत्योस्तद्योनिकस्य च महदहङ्कारादिलक्षणस्य ब्रह्मेशानादेः कृत्स्नस्य जगतः प्रभवादिशब्दोक्तसत्ताप्रतीतिप्रवृत्त्यादि-प्रदत्वात् परतमोऽपि स एव ।।
प्रमेयदीपिका
नन्वपरं परं च तत्त्वमुक्त्वा परतरोऽहमिति वक्तव्यम् । मत्तः इति किमुच्यते? इत्यतः तात्पर्यमाह – अहमेवेति ।। परापरप्रकृत्योः स्वाधीनत्वोक्त्यैव स्वस्य परतरत्वम् उक्तप्रायम् । किन्त्वपरतत्वं यथाऽनेकं भूम्यादिभेदेन, यथा च परतत्वं ‘मुक्तस्तु स्यात् पराभासः’ (गी.ता.७.७) इति वचनात् तथा परतरमपि किमनेकमुत त्वेकमेव? इति जिज्ञासायाम् ‘अहमेव परतरः’ इत्यनेनोच्यत इत्यर्थः । कथमनेनेदं लभ्यते? भगवत्प्रति-योगिकाधिक्यवन्निषेधस्यात्र प्रतीतेः, इत्यतो योजयति– मत्त इति ।। अन्यथा तरपोऽन्य-शब्दस्य च वैयर्थ्यादिति भावः ।। ७ ।।
भावबोधः
।। आधिक्यवन्निषेधस्येति । विवक्षितभगवत्समनिषेधस्याप्रतीतेरिति भावः । तरपो अन्यशब्दस्य चेति । मत्तः परो नास्तीत्येतावतैवाधिकनिषेधसिद्धेरिति भावः ।।७।।
भावदीपः
यदि उक्तप्रायं तर्हि ‘मत्तः’ इत्यनाकाङ्क्षितं किमित्युच्यते? इति पृच्छति– किन्त्विति ।। परतत्वमिति ।।‘अनेकम्’ मित्यनुषङ्गः । कथमित्यतः, चित्प्रकृतित्वेनैकं तु व्यक्तम्, अन्यत्तु मुक्तजातमिति भावेन गीतातात्पर्योक्तं वचनमाह– मुक्तस्तु स्यादिति ।। ‘पराभासः सुनित्यसुखभोजनात्’ इति वाक्यशेषः । नित्यनिर्दुःखचित्प्रकृतिवत् नित्यनिर्दुःखत्वं तेषां नास्ति । किन्तु मुक्तावेवेति भावेन चित्प्रकृतिः परा, मुक्तः पर इत्यनुक्त्वा, ‘पराभासः’ इत्युक्तम् ।। आधिक्यवन्निषेधस्येति ।। आधिक्यवद्विषयकनिषेधस्येत्यर्थः ।। अन्यथेति । हरेः परतरत्त्वार्थ-कत्वाभिप्रायाभाव इत्यर्थः ।। ७ ।।
भावरत्नकोशः
‘परतरोऽहम्’ इति वक्तव्यमित्यस्योत्तरमाह– परापर-प्रकृत्योरिति ।। स्वाधीनत्वोक्त्या ‘इयं मे प्रकृतिरष्टधा भिन्ना अपरा इति, ‘प्रकृतिं विद्धि मे पराम्’ इति च स्वाधीनत्वोक्त्या । भावलब्धत्वेऽपि साक्षाद्वचनाभावाद् ‘उक्तप्रायम्’ इत्युक्तम् । तर्हि ‘मत्तः’ इत्यनाकाङ्क्षितं किमित्यभिधीयत इति पृच्छति– किन्त्विति ।। उत्तरमाह– अपरतत्त्वमिति ।। परतत्त्वम् ‘अनेकम्’ इत्यनुषङ्गः । तत्कुत इत्यतः श्रीतत्त्वं तावदेकं परं तत्त्वम्, अन्यत्तु मुक्तजीवजातम् इति भावेन तत्र गीतातात्पर्यमुदाहरति– मुक्त इति ।। ‘सुनित्यसुखभोजनत्वादवरत्वाभावेऽपि प्राग् दुःखसम्बन्धात् पराभास एव मुक्तः, न तु पर एव’ इति तट्टीकायां ‘मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात्’ इति वचनं व्याख्यातम् । हेतुहेत्वाभासयोः हेतुशब्द इव, श्रीजीवयोः परशब्द इति परानेकत्वमपि प्रामाणिकमिति भावः । गीतागतास्मच्छब्दार्थः भगवदिति । भगवत्प्रतियोगिकं यदाधिक्यम्, तच्छालि यद्वस्तु, तन्निषेधस्य भगवदपेक्षया चाधिकवस्तुनिषेधस्यात्र ‘मत्तः’ इति गीतायां प्रतीतेः, ‘अहमेव परतरं तत्त्वम्’ इत्येतत् कथं लभ्यत इत्यर्थः । अन्यथेति । ‘मत्तोऽन्यत् परतरं न किञ्चिदपि’ इति भाष्योक्तयोजनामनभ्युपगम्य ‘मत्तः परं नास्ति’ इत्यर्थाङ्गीकारे तरपः ‘द्विवचनविभज्योपपदे तरवीयसुनौ’ इति विहितस्य परशब्दात् परस्य तरप्प्रत्ययस्य, ‘मत्तः परं नास्ति’ इत्येतावतैव परोत्प्रेक्षितार्थलाभसम्भवादन्यशब्दस्य च वैयर्थ्यादित्यर्थः ।।
गीताक्षरार्थस्तु– परापरप्रकृत्योः स्वाधीनत्वोक्त्यैैव स्वस्य परतरत्वमुक्तप्रायम् । किन्तु, अपरं तत्त्वं यथाऽनेकं भूम्यादिभेदेन, यथा च परं तत्त्वं श्रीतत्त्वमुक्तजातभेदेन, तथा परतरमपि किमनेकम् उत त्वेकमेवेति जिज्ञासायाम् ‘अहमेव परतरं तत्त्वम्’ इत्यनेनोच्यते । त्वमि-वान्योऽप्यस्ति चेत् परतरः, तदा जगद्धर्मरूपप्रभवप्रलयादिकारणत्वतद्भोक्तृत्वलक्षणधर्मस्यान्यत्र सम्भवे भगवत एव महिमातिशयो न वर्णितः स्यादिति चोद्यं परिहर्तुम् ‘मत्तोऽन्यत् परतरं न किञ्चिदपि’ इति विभाव्यत इति तात्पर्यम् । ‘मत्तः परतरं नान्यत्’ इत्यत्र ‘मत्तः’ इति अस्मच्छब्दाद् आद्यादित्वात्तसिः । ‘प्रत्ययोत्तरपदयोश्च’ इति मपर्यन्तस्य मादेशः । ‘तसेश्च’ इति तसिलादेशो न भवति, ‘अद्व्यादिभ्यः’ इति पर्युदासात्, तेन विभक्तिसंज्ञाप्रयुक्तत्वादिकार्यं न । एवमेव ‘त्वत्तः कमलपत्राक्ष’ इत्येतदपि निर्वोढव्यम् । न केवलं जगतः प्रभवप्रलयौ मदधीनौ, अपि तु स्थितिरपि मदायत्तेत्युच्यते मयीति । इदं प्रकृत्यादिरूपं जगदिति ।। ७ ।।
भावदीपिका
।। अपरं परं चेति ।। जडाजडप्रकृत्याख्याम् । ननु श्रीरूप-तत्त्वस्यैकत्वात् कथं परतत्त्वमनेकविधमित्युच्यत इत्यत आह– मुक्तस्त्विति ।। इति वचना-दिति ।। ‘मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात्’ इति गीतातात्पर्यवचनादित्यर्थः । सुनित्यसुखभोजनाद् अवरत्वाभावेऽपि प्राग्दुःखसम्बन्धात् पराभास एव, न मुख्यतः पर इति वचनादित्यर्थः । भगवत्प्रतियोगिकेति ।। यथा ‘परतत्त्वमनेकविधम्’ इत्युक्ते अपरतत्त्वत्वेन ब्रह्मादिजीवसमाना जीवाः सन्तीति लभ्यते । यथा हि ‘परतत्त्वम् अनेकविधम्’ इत्युक्ते ‘परतत्त्व-त्वेन श्रीसमानाः मुक्ताः सन्ति’ इति लभ्यते, एवं परतरमनेकविधम् उतैकविधमिति शङ्कायाम्, अनेकविधत्वे भगवानेकः परतरः, तत्सदृशोऽन्यः परतरो नास्तीति प्राप्तेः, अतः परतरोऽहमेक एव, मत्सदृशोऽन्यः परतरो नास्तीति समनिषेधप्रतिपादनमेवोक्तशङ्कानिरासकम्, न तु भगवत्सकाशा-दधिकनिषेधः । स एव चात्र प्रतीयते । अतः कथं समनिषेधोऽनेन लभ्यत इत्यर्थः । भाष्ये ‘मत्तोऽन्यत् परतरम्’ इत्युक्त्या ‘मत्सदृशम्’ इति सूचितं भवति । अन्यथेति ।। समनिषेधमनङ्गी-कृत्य भगवत्प्रतियोगिकाधिक्यवन्निषेधार्थकताऽङ्गीकारे ‘मत्तः परो नास्ति’ इत्येतावतैवाधिक-विषेधसिद्धेः, तरप्-अन्यशब्दवैयर्थ्यं स्यादिति भावः ।। ७ ।।
भावप्रकाशः
ननु परतरत्वस्य प्रागनुक्तत्वात् तदेव विधातव्यम्, अवधारणं तु व्यर्थम् । किञ्च अस्त्विदं तात्पर्यम् । तथाऽप्यहमेव परतर इत्युक्तेः का पूर्वसङ्गतिरित्यत आह– परापरप्रकृत्योरिति ।। आधिक्यवन्निषधस्येति ।। मत्तः परतरमित्यव्यवहितान्वयाभिप्रायेणेदम् । तस्य इति ।। ‘मत्तः परो नास्ती’त्येतावतैव अधिकनिषेधसिद्धेरिति भावः ।। ७ ।।