तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।। १२ ।।

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।। १२ ।।

भाष्यम्

योगं समाधियोगं युञ्ज्यात् ।। १२ ।।

भावप्रदीपिका

उपविश्यासने युञ्ज्याद्योगम् इत्यत्र योगशब्दार्थमाह– योग-मिति ।। १२ ।।

प्रमेयदीपिका

‘उपविश्यासने’ इत्यत्रापि योगशब्द एवमेव व्याख्येय इत्याह– योगमिति ।। स्थानविवेकार्थं युञ्ज्यात् इत्युक्तम् । कुर्यादिति यावत् ।। १२ ।।

भावबोधः

।। स्थानविवेकार्थमिति । योगमिति पदस्यानन्तरं युञ्ज्यादिति पदस्य प्रयोगः कर्तव्य इति स्थानविवेकार्थमित्यर्थः । ननु तर्हि युञ्ज्यादित्यनेनैव योगं कुर्यादित्यर्थलाभात् योगमिति व्यर्थमित्यत आह– कुर्यादिति यावदिति ।। १२ ।।

भावदीपः

योगशब्दार्थोक्तिपरं चेद्भाष्ये युञ्ज्यात् इत्यंशो न वाच्य इत्यत आह– स्थानविवेकार्थमिति ।।‘उपविश्यासने युञ्ज्याद्योगम्’ इत्यत्रत्ययोगशब्दार्थ इति ज्ञापयितुम् इत्यर्थः ।। ‘युञ्ज्यात्’ इत्यत्र प्रत्ययमात्रं विवक्षितम् । अन्यथा पौनरुक्त्यापत्तेरिति भावेनाऽह– कुर्यादिति यावदिति ।। १२ ।।

भावरत्नकोशः

।। एवमेव समाधियोगार्थत्वेनैव । योगशब्दार्थवर्णनमात्रेणार्थ-सिद्धेः ‘युञ्ज्याद्’ इत्यनुवादस्य किं प्रयोजनमित्यत आह– स्थानविवेकार्थमिति । ‘योगमात्म-विशुद्धये’ इत्यत्र विद्यमानं योगपदमिह व्याख्येयमिति ज्ञापनार्थमित्यर्थः । निर्वाणादिपदार्थकथनेन स्थानविवेकसम्भवेऽपि अन्तरङ्गज्ञापकप्रदर्शनाय ‘युञ्ज्यात्’, ‘युञ्जीत’ इत्यन्वयः प्रादर्शीति भावः । ननु ‘युञ्ज्यात्’ इत्यनेनैव ‘योगं कुर्यात्’ इत्यर्थलाभात् ‘योगम्’ इति व्यर्थमित्याशङ्क्य ‘तपस्तप्यते’ इत्यादाविव प्रत्ययार्थमात्रं विवक्षितमिति भावेनाह कुर्यादिति यावदिति ।। १२ ।।

तत्र तस्मिन्नासने उपविश्य यतचित्तेन्द्रियक्रियः उपरतान्तःकरणबाह्येन्द्रियव्यापारः सन् । क्षिप्तम्, मूढम्, विक्षिप्तम्, निरुद्धमेकाग्रम् इति चतस्रो वृत्तयः । तत्र समाध्यन्तरङ्गभूता चतुर्थी मनोवृत्तिर्निर्दिश्यते एकाग्रमितीति प्राञ्चः । एकाग्रं मनः कृत्वा आत्मविशुद्धये मनोमलशोधनाय योगं युञ्ज्यात् । सर्वात्मना चित्तनिरोधलक्षणं समाधियोगं कुर्यादिति यावत् ।। १२ ।।

भावदीपिका

।। स्थानेति ।। ‘योगं समाधियोगम्’ इत्येवोक्तौ ‘युञ्जतो योगमात्मनः’ इत्युत्तरत्रापि योगशब्दश्रवणाद् व्याख्यानमिदमिति प्रतीतिः स्यात्, तथा चोत्तरत्र पुनस्तद्व्याख्यानं व्यर्थं स्यात् । अतस्तां निवारयितुम् ‘उपविश्यासने युञ्ज्यात्’ इत्यत्रत्ययोग-शब्दव्याख्यानमिदम् इति सूचनाय ‘युञ्ज्यात्’ इत्युक्तमित्यर्थः ।। ननु तर्हि ‘युञ्ज्यात्’ इत्यनेनैव ‘योगं कुर्यात्’ इत्यर्थस्य लब्धत्वाद् ‘योगम्’ इति व्यर्थम्? इत्यतो ‘युञ्ज्यात्’ इत्यस्यार्थमाह– कुर्यादितीति ।।

भावप्रकाशः

।। स्थानविवेकार्थमिति ।। ‘योगमात्मविशुद्धये’ इति योगपद-मेवात्र व्याख्येयम् । न तु युञ्जतो योगमात्मन इति योगपदमिति ज्ञापनार्थमित्यर्थः । नच योगपद-व्याख्यानान्तरं शान्त्यादिपदव्याख्यानादेव तद्व्यावृत्तिर्ज्ञास्यत इति वाच्यम् । अन्तरङ्गज्ञापकाभावे सत्येव बहिरङ्गस्यानुसर्तव्यत्वादिति भावः । ननु ‘युञ्ज्यात्’ इत्यनेनैव योगं कुर्यादित्यर्थलाभाद् योगमिति व्यर्थमित्यत आह ।। कुर्यादिति यावदिति ।। १२ ।।