किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।। ३३ ।।

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्  ।। ३३ ।।

भावरत्नकोशः

गीताक्षराप्थस्तु किं पुनः पुण्याः स्वाभाविका एते स्त्री-वैश्यादयः । अत्र ‘पापयोनयः स्त्रियः’ इतिवत् ‘पुमांसः’ इत्यनुक्तिः पापादिकारितपुंसामभावादिति न्यायदीपिका । यतो भक्तेरेवंविधो महामहिमा अतः अनित्यं नश्वरमसुखं दुःखासम्भिन्न-सुखरहितम् इमं दैवोपनतं भक्त्यादिसाधनानुकूलं वा लोकं देहं प्राप्य मां भजस्व मयि भक्तिमापादय ।। ३३ ।।