अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ।। १० ।।

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ।। १० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- तदेव रूपमुच्यते– अनेकेति ।। अनेकशब्दोऽनन्तवाची । अनेकानि अनन्तानि वक्त्राणि नयनानि च यस्य तत् तथा । ‘दृश्यन्तेऽत्र’ इत्यधिकरणे ल्युट्, अनेकेषाम् अद्भुतानां दर्शनम् । अनेकम् अद्भुतानां दर्शनं यस्मिन्निति वा । अनेकानि दिव्यानि अलौकिकानि आभरणानि यस्य तत् तथा । दिव्यानि अनेकानि उद्यतानि वैरिवधे उन्नमनवन्ति आयुधानि यस्य तत् तथा ।। १० ।।