कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ।। ७२ ।।

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ।। ७२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- एतावन्तं कालं मदुपदेशो न हि ननु भवति भवत्यरण्यरुदितायितमिति भगवता अर्जुनः सम्बोध्यते– कच्चिदिति ।। कामप्रवेदने ‘कच्चित्’ इत्यव्ययम् । हे पार्थ एतत् मयोक्तं त्वयैकाग्रेण चेतसा अनन्यविषयेण चित्तेन, सच्चित्ताभि-निवेशमिति यावत्, श्रुतं कच्चित् श्रवणेनावधारितं ननु इति इष्टपरिप्रश्नः । अज्ञानसम्मोहः अज्ञाननिमित्तः सम्मोहः प्रणष्टः कच्चित् । कियदर्थोऽयं शास्त्रश्रवणाय आयासस्तव, मम चोपदेष्ट्रृत्वायासः प्रवृत्तः ।। ७२ ।।