तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।। ६१ ।।

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।। ६१ ।।

भाष्यम्

तर्ह्यशक्यान्येवेत्यत आह– तानीति ।। बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः ।।

भावप्रदीपिका

यदि श्रुतादिसम्पन्नस्य प्रत्याहारादिनाऽवश्यानीन्द्रियाणि तर्हि तज्जयोऽसम्भावित एवेत्याशङ्कां परिहर्तुं तृतीयश्लोकमवतार्य व्याचष्टे– तर्हीति ।।

भावप्रकाशिका

ननु यदि श्रुतिसम्पन्नस्यापीन्द्रियाणि नियन्तुमशक्यानि प्रत्याहारादिना, तर्हि न केनापि शक्यानीत्याशङ्क्य, तत्परिहारत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– तर्हीति ।। ‘सं’शब्दार्थमाह– बह्विति ।। अतः उक्तनिराहारत्वविविक्त-सेवादिबहुयत्नं कुर्यात् इत्यर्थः ।।

प्रमेयदीपिका

उपोद्घातस्य साध्ये वक्तव्ये ‘तानि सर्वाणि’ इति किमुच्यते? इत्यतो अन्तरापतितां शङ्कां निवर्तयितुमेतदिति भावेनाऽह– तर्हीति ।। यदि साधारणयत्न विवेकज्ञानाभ्यां न जीयन्त इत्यर्थः । ‘अशक्यान्येव जेतुम्’ इति शेषः । निराहारस्य देहावस्थानासम्भवाद् ब्रह्मापरोक्षज्ञानस्य चेन्द्रियजयसाध्यतयाऽभिप्रेतत्वेनेतरेतराश्रयप्रसङ्गा-दिति भावः । तथाच ‘तज्जयस्य ज्ञानसाधनत्वं यद्विवक्षितं तन्न सम्भवति’ इति शङ्काशेषः । इन्द्रियसंयमोऽशक्य एवेति शङ्कायां ‘तानि सर्वाणि संयम्यासीत’ इति किमेतदुच्यते? इत्यत आह– बहुयत्नवत इति ।। यत्नं ‘बहुम्’ इति शेषः ।। यद्यपि तज्जये परोक्तं साधनमस्मदुक्तं चाशक्यम् । तथाऽपि तत्प्रतिनिधिना महाप्रयत्नेन जय्यानीत्यर्थः । एतदप्युपोद्घातत्वेनैवोक्तमिति ज्ञातव्यम् ।।

भावबोधः

।। एतदपीति ।। इन्द्रियजयस्य निराहारत्वब्रह्मसाक्षात्कार-प्रतिनिधिमहाप्रयत्नसाध्यत्वमपि ज्ञानस्याल्पप्रयत्नासाध्यत्वे हेतुत्वेनोच्यत इत्यर्थः ।।

भावदीपः

।। उपोद्घातस्येति ।। इन्द्रियजयस्य महाप्रयत्नसाध्यत्वरूपोप-युक्तप्रमेयस्य ज्ञानम् अल्पप्रयत्नसाध्यम् इत्येवंरूपे साध्ये वक्तव्य इत्यर्थः । न परोक्तमिति ।। प्रत्याहारादिसाधारणप्रयत्नरूपम् अस्मदुक्तं चेति ।। निराहारत्वरूपं देहावस्थानायोगेन अशक्यम् ।। ‘यद्यपि’ इत्यनुषङ्गः ।। तत्प्रतिनिधिनेति ।। अस्मदुक्तप्रतिनिधिना तत्कार्य-कारिणा महाप्रयत्नेनेत्यर्थः ।। एतेनान्योन्याश्रयोऽपि प्रत्युक्तः । ज्ञानस्येन्द्रियजयसाध्यत्वेऽपि तस्य महाप्रयत्नसाध्यत्वेन ज्ञानासाध्यत्वात् एतदपीति।। ‘तानि’ इति श्लोके इन्द्रियजयस्य महाप्रयत्नसाध्यत्वकथनमपि ज्ञानस्याल्पप्रयत्नासाध्यत्वप्रमेयोपयोगित्वेनोक्तमित्यर्थः ।।

भावरत्नकोशः

।। उपोद्घातस्य इन्द्रियजयस्य महाप्रयत्नसाध्यत्वरूपोपयुक्त-प्रमेयस्य । साध्ये ज्ञानमल्पप्रयत्नासाध्यमित्येवंरूपे । तर्हीत्यस्य प्रतियोग्याह– यदीति ।। अशक्यान्येव इन्द्रियाणि ।। ननु निराहारत्वस्य ब्रह्मापरोक्षज्ञानस्य च तज्जयहेतुत्वात् कथं जेतुमशक्यान्येवेत्युच्यत इत्यतः शङ्कितुर्भावमाह– निराहारस्येति ।। देहेति । यदधिष्ठाना-नीन्द्रियाणि जय्यानि स्युरित्याशयः । इतरेतराश्रयेति । ‘वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता’ इतीन्द्रियजयस्य ब्रह्मापरोक्षज्ञानसाधनत्वं ब्रह्मापरोक्षज्ञानस्य चेन्द्रियजयहेतुत्वमिति परस्पराश्रयदोषापातादित्यर्थः । इन्द्रियाणामजय्यत्वोक्तेः फलं वक्तव्यम् । तच्च भाष्ये न दृश्यत इत्यतस्तद्दर्शयितुमाह– तथा चेति ।।

इन्द्रियसंयमः’ इत्यादिना कृतचोद्यस्य परिहाराय भाष्यभावमाह– यद्यपीति ।। परोक्तं प्रत्याहारादिसाधारणप्रयत्नरूपं साधनम् । सत्यपि तस्मिन् मनो हृतवन्ति पुरुषस्य क्षोभण-शीलानीति न तेन विजितानीत्यन्वयव्यभिचारादिति भावः । अस्मदुक्तं निराहारत्वं ब्रह्मज्ञानं चाशक्यम् । देहावस्थानासम्भवादन्योन्याश्रयदोषाच्चेति भावः । तत्प्रतिनिधिना अस्मदुक्त-साधनप्रतिनिधिना तत्कार्यकारिणा । एतेनान्योन्याश्रयदोषः परिहृतः । ज्ञानस्येन्द्रियजय-साध्यत्वेऽपि इन्द्रियजयस्य महाप्रयत्नसाध्यत्वेन ज्ञानासाध्यत्वादिति स्वामिनः ।।

नन्विन्द्रियजयस्यास्मदुक्तनिराहारत्वब्रह्मसाक्षात्काररूपसाधनप्रतिनिधिभूतमहाप्रयत्नसाध्यत्वोक्ति-रसङ्गतेत्यत आह– एतदपीति ।। इन्द्रियजयस्य महाप्रयत्नसाध्यत्वमपि ज्ञानस्याल्पयत्नासाध्यत्वे हेतुत्वेनैवोक्तमिति नासङ्गतिरिति भावः ।।

भावदीपिका

ननु निराहारत्वेनेन्द्रियजयस्य साधयितुं शक्यत्वे कथ-मशक्यत्वमित्यत आह– निराहारस्येति ।। अस्तु तर्हि ब्रह्मसाक्षात्कारेण तज्जय इति चेत्, तत्राऽह– ब्रह्मापरोक्षज्ञानस्य चेति ।। इतरेतराश्रय इति ।। इन्द्रियजयसाध्यस्य ब्रह्मा-परोक्षज्ञानस्येन्द्रियजयं प्रति साधनत्वाङ्गीकारे इन्द्रियजये सत्यपरोक्षज्ञानं, तस्मिन् सतीन्द्रियजय इत्यन्योन्याश्रयः स्यादित्यर्थः ।। तथा चेति ।। इन्द्रियाणां जेतुमशक्यत्वे सतीत्यर्थः । तज्जये इन्द्रियजये । परोक्तम् प्रत्याहारविवेकज्ञानरूपम् । अस्मदुक्तम् निराहारत्वब्रह्मसाक्षात्कार-रूपम् । देहावस्थानासम्भवान्योन्याश्रयाभ्यामशक्यमित्यर्थः । तत्प्रतिनिधिना निराहारत्वादि-प्रतिनिधिना । निरन्तरं भगवत्येव मनोयोजनरूपेण महता प्रयत्नेनेत्यर्थः ।। जय्यानीति ।। ‘क्षय्यजय्यौ शक्यार्थे’ इत्युक्तत्वाद् जेतुं शक्यानीत्यर्थः ।। एतदपीति ।। इन्द्रियजयस्य निराहारत्वब्रह्मसाक्षात्कारप्रतिनिधिरूपमहाप्रयत्नसाध्यत्वमपि ज्ञानस्याल्पप्रयत्नासाध्यत्वे हेतुत्वे-नोच्यत इत्यर्थः ।

भावप्रकाशः

 नन्वस्मदुक्तसाधनप्रतिनिधिभूतमहाप्रयत्नसाध्यत्वोक्तिरसङ्गतेत्यत आह– एतदपीति ।। उक्तं महाप्रयत्नसाध्यत्वं ज्ञानस्याल्पप्रयत्नासाध्यत्वेनोक्तमित्यर्थः ।।

Load More