सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायाम् अष्टादशोऽध्यायः ।।
अर्जुन उवाच–
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ।। १ ।।
भाष्यम्
पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरत्यनेनाध्यायेन ।। १ ।।
भावप्रदीपिका
एतदध्यायप्रतिपाद्यमाह– पूर्वोक्तेति ।
प्रमेयदीपिका
अध्यायप्रतिपाद्यमाह– पूर्वोक्तमिति ।। साधनं ज्ञान-साधनम् । उक्तस्योक्तिर्व्यर्थेत्याशङ्कानिरासाय सङ्क्षिप्योपसंहरति इत्युक्तम् । अनुक्तं त्रैगुण्यं च वक्तीत्यपि द्रष्टव्यम् ।। १ ।।
भावबोधः
ननु ‘ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः’ इत्यादिना त्रैगुण्यस्यापि वचनात्कथमध्यायप्रतिपाद्यत्वेन साधनमेवोक्तमित्यतः अनुक्तत्रैगुण्यवादी चायमिति तात्पर्यं हृदि कृत्वाऽह– अनुक्तमिति ।। चतुर्दशाध्यायानुक्तमित्यर्थः ।
भावदीपः
।। पूर्वोक्तमिति ।। पूर्वतनेष्वध्यायेषु विप्रकीर्णतयोक्तमित्यर्थः ।। अनुक्तं त्रैगुण्यं चेति ।। ‘कारणं गुणसङ्गोऽस्य’ (१३.२१) इत्यादिना त्रयोदशे, ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ (१४.५) इत्यादिना चतुर्दशादावुक्तादन्यदेव त्रैगुण्यमित्यर्थः ।। वक्तीति ।। ‘ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः’ इत्यादिना वक्तीत्यर्थः ।। १ ।।
भावरत्नकोशः
।। अध्यायप्रतिपाद्यम् एतदध्यायप्रतिपाद्यम् । पूर्वोक्तं पूर्वेषु अध्यायेषु विप्रकीर्णतयोक्तम् । ‘सङ्क्षिप्य’ इति भाष्ये ‘मन्दानां बुद्ध्यारोहाय’ इति योज्यम् । ‘उपसंहरति’ इत्यनुवदन् उपसंहाररूपत्वात् न पुनरुक्तिशङ्का इत्यभिप्रैति । ननु ‘त्यागो हि पुरुषव्याघ्र त्रिविधः’ इति ‘ज्ञानं कर्म च कर्ता च त्रिविधो गुणभेदतः’ इत्यादिना च गुणनिमित्तकत्यागादिभेदस्यापि अत्राध्याये वचनात् कथं ‘साधनम् ’इत्येवोक्तम् इत्यतो ‘अनुक्तत्रैगुण्यवादी चायम्’ इति तात्पर्यनिर्णयरीत्या गुणभेदवचनमपि ग्राह्यमित्याह– अनुक्त-मिति ।। ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ इति चतुर्दशाध्याये, ‘कारणं गुणसङ्गोऽस्य’ इति त्रयोदशाध्याये चोक्तात् त्रैगुण्यादन्यदेव त्रैगुण्यमित्यर्थः ।। १ ।।
गीताक्षरार्थस्तु– पूर्वाध्यायेषु तत्र तत्र यद् विप्रकीर्णतयोक्तं पुरुषार्थसाधनज्ञानसाधनं तन्मन्दानां बुद्ध्यारोहार्थं सङ्क्षेपेणास्मिन्नष्टादशाध्याये निरूप्यते । चतुर्दशाद्यनुक्तं त्रैगुण्यं चोच्यते । पूर्वं ‘सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’, ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी’ इत्यादौ सन्न्यास उपदिष्टः । ‘त्यागाच्छान्तिरनन्तरम्,’ ‘त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः’, ‘सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्’ इत्यादौ त्यागश्च । तयोः स्वरूप-निर्धारणाय अर्जुनोऽपृच्छदित्युच्यते– अर्जुन उवाच सन्न्यासस्येति ।।
सन्न्यासस्य च त्यागस्य च पृथग् इतरेतरविभागः तत्त्वम् अनारोपितं रूपं वेदितुं ज्ञातुम् इच्छामि । हे महाबाहो हृषीकेश इन्द्रियप्रेरक केशिनिषूदन हयासुरनिबर्हण इति श्रीकृष्णस्य सम्बुद्धिः ।। १ ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे
क्रियतेऽष्टादशाध्यायटीका भावप्रदीपिका
।। १ ।।
।। व्यर्थेति ।। तथा च पुनरुक्तिरिति भावः । सङ्क्षिप्योपसंहरतीति ।। तथा चोप-संहारार्थत्वात् न पुनरुक्तिरिति भावः । ननु ‘ज्ञानं कर्म च कर्ता च’ इत्यादिना त्रैगुण्यस्यापि वचनात् कथमन्याप्रतिपाद्यत्वेन साधनमेवोक्तम् इत्यतः ‘अनुक्तत्रैगुण्यवादी चायम्’ इति तात्पर्यं मनसि निधायाह– अनुक्तमिति ।। चतुर्दशाध्यायादावनुक्तमित्यर्थः ।।
भावप्रकाशः
ननु ‘त्यागो हि पुरुषव्याघ्र त्रिविधः’ इत्यादिना त्यागादीनां गुणनिमित्तकभेदोऽप्युच्यते । तत्कथं साधनमित्येवोक्तमित्यत आह– अनुक्तं त्रैगुण्यमिति ।। गुणनिमित्तकभेदमित्यर्थः । ननु चतुर्दशादौ त्रैगुण्यस्योक्तत्वात् पुनरुक्तिरित्यत उक्तम्– अनुक्त-मिति ।। चतुर्दशाद्यनुक्तमित्यर्थः ।। १ ।।