अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।। ३० ।।

अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।। ३० ।।

भाष्यम्

न भवत्येव प्रायस्तद्भक्तः सुदुराचारः । तथाऽपि बहुपुण्येन यदि कथञ्चि-द्भवति तर्हि साधुरेव स मन्तव्यः ।। ३० ।।

भावप्रदीपिका

ननु यदि भगवद्भक्ता एव दुराचराः, तर्हि तेषां का गतिः ? इत्याशङ्कोत्तरम् अपि चेत् इति श्लोकद्वयं व्याचष्टे– नेति ।।

प्रमेयदीपिका

‘अपि चेत्’ इत्यादिना भक्तेः प्रशंसा क्रियते । तत्र विष्णुभक्तेस्सुदुराचारेणैकत्र समावेशप्रतीतौ यथावद्व्याचष्टे– न भवत्येवेति ।। बहुपुण्येन स्वयोग्याधिकेनार्जितेन ।। ३० ।।

भावरत्नकोशः

गीताक्षराप्थस्तु भक्तेः प्रशंसा क्रियते– अपि चेदित्या-दिना ।। सुदुराचारः अतीव कुत्सिताचारोऽपि अनन्यभाक् स्वातन्त्र्येणान्यदेवताभजनमकुर्वन् मां भजते चेत् तर्हि साधुरेव दुराचारकृतदोषहीन एव मन्तव्यः । हि यस्मात् सम्यग्व्यवसितः समीचीनव्यवसायवान् ।। ३० ।।

भावप्रकाशः

 ननु बहुपुण्यस्य शुभफलत्वात् कथं दुराचारहेतुत्वमित्यत आह– स्वयोग्याधिकेनेति ।। ‘स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत्’ इत्युक्तेरिति भावः ।।