अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानागती रुद्ध्वा प्राणायामपरायणाः ।। २९ ।।

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।

प्राणापानागती रुद्ध्वा प्राणायामपरायणाः ।। २९ ।।

भाष्यम्

अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति, अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ।। २९ ।।

भावप्रदीपिका

‘अपरे’ इत्युक्तं यज्ञं दर्शयति– अपर इति ।। २९ ।।

भावप्रकाशिका

‘अपाने’ इत्यादिश्लोकस्य पूरणरेचककुम्भकपरत्वेन यदप-व्याख्यानं तन्निराकुर्वन् यथार्थमाह– अपर इति ।। येऽपरे प्राणायामपरायणाः ते प्राणापान-गती रुद्ध्वा, रेचनपूरणे हित्वा, प्राणापानावितरेतरयोः जुह्वति । अस्यायं फलितार्थः ‘कुम्भकस्थाः’ इत्युत्तरार्धोक्तम् ।। २९ ।।

प्रमेयदीपिका

‘अपाने जुह्वति’ इत्येतत् पूरकरेचककुम्भकपरतया केचिद् व्याचक्षते । तदसत् । अध्याहारादिप्रसङ्गात् । पूरकरेचकयोः कुम्भकार्थत्वेन, पृथक् प्राणायामत्वाभावाच्चेति भावेन कुम्भकमात्रपरतया योजयति– अपर इति ।। परायणाः इत्यतः परं प्राणापानगती रुद्ध्वा इति द्रष्टव्यम् । अभिप्रायमाह– कुम्भकस्था एवेति ।। एवशब्देनापव्याख्यानं व्यावर्तयति ।।

भावबोधः

।। अध्याहारादिप्रसङ्ग इति ।। अपरे अपाने जुह्वति प्राणं, प्राणे अपानं जुह्वति प्राणापानगती रुद्ध्वा, प्राणायामपरायणाः भवन्तीति योजनायां भवन्तीत्यस्या-ध्याहारः । आदिपदेन जुह्वतीत्यस्यावृत्तिर्वाक्यभेदश्चेत्यर्थः ।।

भावदीपः

।। अध्याहारादीति ।। अपरे पूरकाः ‘अपाने प्राणं जुह्वति’, अपरे रेचकाः ‘प्राणेऽपानं जुह्वति’, अपरे कुम्भकस्थाः प्राणापानगतीः रुद्ध्वा प्राणायामपरायणाः भवन्तीत्यध्याहारवृत्त्योः वाक्यभेदस्य च प्रसङ्गादित्यर्थः ।। २९ ।।

भावरत्नकोशः

‘अपाने अपानवृत्तौ प्राणं प्राणवृत्तिं जुह्वति प्रक्षिपन्ति । पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणेऽपानं तथाऽपरे जुह्वति रेचकाख्यं प्राणायामं कुर्वन्ति । प्राणापानगती रुद्ध्वा । मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतिः । तद्विपर्ययेणाधो गमनमपानस्य गतिः । एवंविधे प्राणापानगती निरुध्य प्राणायामपरायणाः प्राणायामतत्परा भवन्ति कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः’ इति सङ्करभाष्यमर्थतोऽनुवदति– अपाने जुह्वतीत्येतदिति ।। ‘पद्यम्’ इति योज्यम् । अध्याहारादीति ।। ‘प्राणायामपरायणाः’ इत्यत्र वाक्यपरिसमाप्तये ‘भवन्ति’ इति पदाध्याहारः । आदिपदेन केचित्पूरकस्थाः, केचिद्रेचकस्थाः, केचित्तु कुम्भकस्था इति वाक्यभेदो गृह्यते ।।

स्वव्याख्याने एकवाक्यतां घटयितुमाह – इत्यतःपरमिति ।। ‘प्राणापानगती रुद्ध्वा रेचनपूरणे हि प्राणापानौ इतरेतरयोर्जुह्वति’ इति व्याख्यातं प्राचीनटीकायाम् । अभिप्रायमिति ।। अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणम् अपाने जुह्वति, अपानं च प्राण इत्यस्याभि-प्रायमित्यर्थः । परपक्षे स्वोक्तदूषणं भाष्यारूढमित्याह– एवशब्देनेति ।।

अक्षरार्थस्तु अपरे प्राणायामपरायणाः प्राणायामतत्पराः प्राणापानगती रुद्ध्वा रेचनपूरणे हित्वा प्राणम् अपाने जुह्वति, अपानं च प्राणे, प्राणापाने इतरेतरयोर्जुह्वति कुम्भकस्था एव भवन्तीति तात्पर्यार्थः ।। २९ ।।

भावदीपिका

।। केचिद् व्याचक्षत इति ।। यथोक्तं तदीयभाष्ये ‘अपाने अधोवृत्तौ प्राणम् ऊर्ध्ववृत्तिं पूरकेण जुह्वति= पूरकस्थले प्राणम् अपानेनैकीकुर्वन्ति, तथा प्राणे ऊर्ध्ववृत्तौ अपानम् अधोवृत्तिं रेचकेन जुह्वति= रेचकस्थलेऽपानं प्राणेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोरूर्ध्वाधोगती रुन्ध्यात् । एवं प्राणापानगती रुद्ध्वा कुम्भकं सम्पाद्य कुम्भकरेचक-पूरकैस्त्रिभिः प्राणायामैः प्राणायामपरायणा भवन्तीत्यर्थ इति ।।

अध्याहारादीति ।। ‘पूरकेण’ ‘रेचकेन’ ‘कुम्भकेन’ ‘रुन्ध्याद्’ ‘भवन्ति’ इत्यध्याहारः स्पष्टः । आदिपदेन ‘जुह्वति’ इत्यस्यैकीकरणार्थकत्वम् अशाब्दत्वम् । अपानप्राणशब्दयोर्वृत्तौ लक्षणा च स्यादिति ग्राह्यम् ।। कुम्भकार्थत्वेनेति ।। त्रयाणामपि प्राणायामत्वं हि पराभिप्रेतम् । तदयुक्तम् । रेचकपूरकयोः कुम्भकार्थत्वेन पृथक् प्राणायामार्थत्वाभावात् । प्राणापानयोरुभयोरपि निरोधनं हि प्राणायामः । स च कुम्भक एव । यथोक्तं तन्त्रसारे

प्राणापानौ रेचयित्वा पूरयित्वा च कुम्भके । स्थितिः प्राणायाम उक्तः ।।’ इति ।

।। परायणा इत्यतः परमिति ।। तथा च अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणमपाने जुह्वति, अपानं च प्राण इति योज्यम् ।। अभिप्रायमिति ।। प्राणमपाने जुह्वति, अपानं च प्राणे इत्यनयोः रेचकपूरकस्वरूपनिरूपणपरत्वप्रतीतिनिरासायाभिप्रायमाहेत्यर्थः । तथा चैवं समग्रश्लोकेन कुम्भकमात्रविवरणेन कुम्भकस्थितिरूपप्राणायामो विवृत इति ध्येयम् ।। एवशब्दे-नेति ।। तथा च कुम्भकस्था भवन्तीत्येवार्थ इत्येवशब्दान्वयो द्रष्टव्यः ।। २९ ।।

भावप्रकाशः

।। केचिद्व्याचक्षत इति ।। अपाने अपानवृत्तौ प्राणं प्राणवृत्तिं जुह्वति प्रतिक्षिपन्ति । पूरकप्राणायामं कुर्वन्तीत्यर्थः । तथाऽपरे प्राणेऽपानं जुह्वति रेचकप्राणायामं कुर्वन्ति । मुखनासिकाभ्यां वायोः निर्गमनं प्राणगतिः तद्विपर्येणाधोगमनमपानगतिः । एवंविधे प्राणापानगती रुध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्परा भवन्ति । कुम्भकाख्यप्राणायामं कुर्वन्तीत्येवं केचिद्व्याचक्षत इत्यर्थः । अध्याहारादीति ।। भवन्तीत्यध्याहारः । आदिपदेन वाक्यभेदो ग्राह्यः ।। २९ ।।