न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ।। ४८ ।।

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।

एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ।। ४८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अर्जुनावराणां स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वत् न द्रष्टुं शक्यत इत्युच्यते– न वेदयज्ञाध्ययनैरिति ।। वेदैः यज्ञैः अग्निहोत्रादिभिः अध्ययनैः स्वाध्यायैः । क्रियाभिः नित्यनैमित्तिककर्मभिः । उग्रैः क्रूरैः तपोभिः कृच्छ्रादिभिः एवंरूपः एवंविधम् अत्यद्भुतं रूपमस्येति स तथा नृलोके मनुष्यलोके । त्वदन्येन त्वत्तोऽवरेण त्वद्वद् द्रष्टुम् अशक्यः । भगवतः सर्ववैलक्षण्यद्योतनाय ‘शक्योऽहम्’ इति सन्धिर्न कृतः ।। ४८ ।।