जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ।। ९ ।।

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ।। ९ ।।

भाष्यम्

पृथङ्मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम् । न तु तावन्मात्रेण मुक्ति-रित्युक्तम् ।

वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् ।

 तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित् ।।’

इत्युक्तेश्च महाकौर्मे । अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैति इति गतिः । इतरवाक्यानां नान्या गतिः । ‘नान्यस्य कस्यचित्’ इति विशेषणात् । ‘तत्त्वतः’ इति विशेषणाच्च सर्वं ज्ञानमापतति । यत्रैवं भवति तत्र तत्त्वत इति विशेषणेन विरोधः । उक्तं च–

एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः ।

 न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत् ।।’ इति स्कान्दे ।।९।।

भावप्रदीपिका

यद्यपि ‘जन्म कर्म’ इतीश्वरे जन्मादिज्ञानमात्रेण मुक्तिः श्रूयते । तथाऽपि सा न तावन्मात्रेणेत्याह– पृथगिति । एतावन्मात्रेणापि मोक्षः किं न स्यात् ? इत्यत आह– न त्विति । इतश्च नैकदेशज्ञानान्मोक्ष इत्याह– वेदेति । ननु वचनत्वाविशेषात् कुतोऽस्य जन्म कर्म चेत्यस्य बाधः ? इत्यत आह– अत्रेति । कौर्मवाक्यस्यापि केषाञ्चि-देवमिति गतिः किं न स्यात् ? इत्यत आह– नान्यस्येति । इतश्च सर्वज्ञानेनैव मोक्ष इत्याह– तत्त्वत इति । एतमेव न्यायमन्यत्रातिदिशति– यत्रेति ।। ‘तत्त्वतः’ इति विशेषणे कथं सर्वज्ञानापात इत्यत आह– उक्तं चेति ।। ९ ।।

भावप्रकाशिका

ननूक्तलक्षणजन्मकर्मज्ञानमात्रेण मुक्तिश्चेत् ‘नान्यः पन्था अयनाय विद्यते’ इत्यादिश्रुतिविरोध इत्यत आह – पृथगिति । एतदपि ज्ञात्वैव मुक्ति-रित्येवार्थो, नत्वेतदेव ज्ञात्वेत्युक्तं गताध्याये । इतोऽपि नैकदेशज्ञानमात्रेण मुक्तिः । किन्तु सर्ववेदाद्युक्तपरमात्मस्वरूपं ज्ञात्वा, उपास्य, दृष्ट्वैवेति भावेन प्रमाणमाह– वेदादिति । ननूभयोरपि प्रामाण्याविशेषात्, ‘जन्म कर्म च’ इत्यस्यानुसारेणान्येषां गतिः किं न स्यात् ? इत्यत आह– अत्रोक्तस्येति । इतोऽपि नैकदेशज्ञानमात्रेण मुच्यत इत्याह– तत्त्वत इति । यत्र यत्रैकदेशज्ञाने मुक्तिरुच्यते तत्रतत्र तत्त्वत इति विशेषणे सति न विरोध इत्याह– यत्रैव-मिति । तत्त्वत इति विशेषणे सर्वज्ञानं कथमापतति ? इत्यत आह– उक्तं चेति ।। ९ ।।

प्रमेयदीपिका

‘जन्म कर्म च’ इति ।। ‘भगवज्जन्मादिज्ञानमात्रेण मुक्ति-रुच्यते’ इति प्रतीतिनिरासायाऽह– पृथगिति ।। एकदेशज्ञानेनेत्यर्थः । दर्शनार्थम् उपलक्षणार्थम् । यथाप्रतीत एवार्थः किं न स्यात्? इत्यत आह– न त्विति ।। उक्तं तृतीये (गी.भा.३.४२,४३) । प्रमाणान्तरं चाह– वेदादीति ।। वाक्यत्वाविशेषादेतस्य गीता-बाधकत्वं कुतः? इत्यतः सावकाशत्वनिरवकाशत्वाभ्यामित्याह– अत्रेति ।। अयोगव्यवच्छेद-मात्रपरत्वमित्यर्थः । एतच्च पूर्वोक्तादर्थान्तरमिति ज्ञेयम् ।।

इतरवाक्यान्यधिकारिविशेषापेक्षया सावकाशानीति कुतो नान्या गतिः? इत्यत आह– नेति ।। विशेषणात् पक्षान्तरव्यवच्छेदात् । इतोऽप्यत्र सर्वज्ञानमङ्गीकार्यमित्याह– तत्त्वत इति ।। आपतति इत्यनेनाऽर्थापत्तिमभिप्रैति ।। एतमेव न्यायमन्यत्राप्यतिदिशति– यत्रेति ।। एवं भवति सर्वज्ञाने प्रमितेऽप्येकदेशज्ञानोक्तिर्भवति । तत्त्वतो ज्ञानं कुतस्सार्वज्ञमाक्षिपति? इत्यत आह– उक्तं चेति ।। जिज्ञसेत् जिज्ञासेत । अन्यत्रापि ‘एको भावः तत्त्वतो येन दृष्टः सर्वे भावाः तत्त्वतस्तेन दृष्टाः’ इति । सर्वत्र सार्वज्ञं यथाशक्ति विवक्षितमित्यवधेयम् ।। ९ ।।

भावबोधः

पृथगित्यस्यार्थाप्रतीतेराह – एकदेशज्ञानेनेति ।। तथाऽपि एकदेश-ज्ञानेन मुक्त्युक्तेः सर्वज्ञाननियमे दर्शनार्थत्वाभावेन विरोधः स्यादित्यत आह– दर्शनार्थ-मुपलक्षणार्थमिति ।। एतच्चेति ।। सर्वज्ञान-नियमदर्शनार्थमिति पूर्वोक्तादर्थाज्जन्मकर्मादिकं सर्वथा ज्ञातव्यमेवेत्येतदर्थान्तरमित्यर्थः ।।

भावदीपः

।। तृतीय इति ।। तृतीयाध्यायान्त्यभागे ‘नच तत्र तत्रोक्तैक-देशज्ञानमात्रेण भवति मुक्तिः’ इत्यादिनेति भावः ।। पूर्वोक्तादिति ।। उपलक्षणार्थमित्युक्ता-दित्यर्थः । ‘ज्ञा–श्रु–स्मृ–दृशां सनः’ (पा.सू.१.३.५७) इत्यात्मनेपदोक्तेः ‘जिज्ञासेत’ इति छान्दसप्रयोग इति भावेनाऽह – जिज्ञसेत् जिज्ञासेत इति ।। अन्यत्रापीति ।। एकस्य तत्त्वतो ज्ञानेन सर्वज्ञानं भवतीत्येतदुक्तमित्यर्थः ।। ९ ।।

भावरत्नकोशः

।। प्रतीतीति ।। सार्वत्रिकगुणोपसंहारस्य स्थितत्वात् सा निरसनीयेति भावः । पृथक्छब्दस्य नात्र ‘वैलक्षण्यम्’ अर्थः । मुक्तेस्तदधिकारिणामप्यत्र वैलक्षण्यानभिधानादित्यत आह – एकदेशेति ।। पूर्वाध्याये तत्र तत्रैकदेशज्ञानमात्रेण भवति मुक्तिरिति भाषणात् पृथक्शब्द एकदेशार्थो व्याख्यातव्य इति भावः । एकदेशज्ञानेन मुक्त्युक्तेः सर्वज्ञाननियमदर्शनार्थत्वायोगादाह दर्शनार्थमुपलक्षणार्थमिति ।। एकदेशग्रहणम् इतरगुणोप-लक्षणार्थमित्यर्थः ।

तृतीये ‘अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि । सर्वत्र ये गुणाः प्रोक्ताः’ इति तृतीयाध्यायान्ते । ‘दर्शनपथम्’ इत्यत्र भाष्ये ‘ऋक्पूरब्धूःपथामानक्षे’ इति समासान्तप्रत्यय इत्यकारान्तत्वं युक्तम् । सावकाशत्वनिरवकाशत्वाभ्यामिति ।। निरवकाशेन सावकाशबाधः ‘यावत्या वाचा कामयीत तावत्या वाचा दीक्षणीयायामनुब्रूयाद्’ इत्यत्र पूर्वतन्त्रे व्यवस्थापित इति भावः । ‘ज्ञात्वैव जन्म नैति’ इत्युक्तेऽपि जन्मादिज्ञानमेव मोक्षसाधनमित्युक्तं स्यात् । तच्चायुक्तम् । गुणपूर्णत्व-ज्ञानापादितप्रसादस्यैव तत्साधनत्वस्थितेरित्यत आह – अयोगेति ।। एवकारो ह्ययोगव्यवच्छेदे, अन्ययोगव्यवच्छेदे, अत्यन्तायोगव्यवच्छेदे च वर्तते । अयं च भाष्यस्थैवकारः मोक्षे जनयितव्ये जन्मादिज्ञानायोगो नास्तीत्ययोगव्यवच्छेदार्थः, न त्वन्ययोगव्यवच्छेदार्थ इत्यर्थः ।

ननु मोक्षे जन्मादिज्ञानायोगव्यवच्छेदे कृतेऽपि तन्नियम एवोक्तः स्यात् । तथा च ‘नियम-दर्शनार्थम्’ इति ग्रन्थेन पुनरुक्तिरित्यत आह – एतच्चेति ।। पूर्वत्रोपलक्षणतया सर्वज्ञाननियम उक्तः । अत्र तु जन्मादिज्ञानं मोक्षहेतुरेवेति नियम उच्यत इत्यर्थभेदो ज्ञातव्य इति न पुनरुक्तिरिति भावः ।

इतरवाक्यानि ‘वेदाद्युक्तं तु सर्वं यः’ इत्यादीनि । अधिकारिविशेषः ब्रह्मादिः । नीलोत्पल-मित्यत्र नैल्यस्येव ‘नान्यस्य कस्यचिद्’ इत्यस्य व्यावर्तकत्वाभावाद् विवक्षितार्थमाह– पक्षान्तरेति ।। अधिकारिविशेषविषयत्वेन सावकाशत्वसम्पादनं पक्षान्तरम् । अत्र ‘जन्म कर्म च’ इत्यत्र । अर्थापत्तिं ‘तत्त्वतः’ इति विशेषणान्यथाऽनुपपत्त्या तदुपपादकसर्वज्ञानबुद्धिम् । एतम् ‘तत्त्वतः’ इति विशेषणे सर्वज्ञानमङ्गीकार्यमिति न्यायम् । ‘तत्त्वतः’ इति विशेषणमात्रेण कुतः सर्वज्ञानापात इत्यर्थः । ‘सर्वज्ञानम्’ इति भाष्यस्य एकस्मिन् वस्तुनि तत्तद्गुणकर्मेतरवैलक्षण्यवत्तया ज्ञातव्ये तत्तद्गुणकर्मादिज्ञानं वैलक्षण्यबोधस्य विचित्रप्रतियोगिज्ञानप्रयोज्यत्वेन तथा तथा तत्तज्ज्ञानं चाभ्युपगन्तव्यमिति सार्वज्ञ्यमित्यर्थ इत्याहुः ।।

ननु ‘ज्ञाश्रुस्मृदृशां सनः’ इति सन्नन्तधातोरात्मनेपदमनुष्ठितम् । तत्कथमत्र परस्मैपदमित्या-शङ्क्य छन्दस्त्वादुपपद्यत इति भावेनाह– जिज्ञसेेत् जिज्ञासेतेति ।। धातोराकारस्य ह्रस्वता च छन्दस्त्वेनैव निर्वोढव्येति भावः । भाष्ये ‘सार्वज्ञाभावे तत्त्वतो ज्ञानाभावः’ इति व्यतिरेक-प्रमाणमुक्तम् । ‘तत्त्वज्ञाने सति सार्वज्ञ्यम्’ इत्यन्वयेऽपि स्वयं प्रमाणं दर्शयति– अन्यत्रापीति ।। भावः पदार्थः । नन्वेवं सार्वज्ञस्यावश्यकत्वे मनुष्याणामुपासनाऽभावप्रसङ्गः । तेषां सर्वगुणोप-संहारादावसमर्थत्वाद् इत्यत आह– सर्वत्रेति ।। सर्वाधिकारिष्वित्यर्थः । यथाशक्तीति ।। मानुषेणापि स्वयोग्यं सर्वं सम्यगुपसंहृत्यैव ज्ञानमापाद्यमिति भावः ।। ९ ।।

गीताक्षरार्थस्तु- एवं स्वभावादेवावतारादिस्वव्यापारमुक्त्वा तज्ज्ञाने फलमुच्यते– जन्मेति ।। एवम् उक्तप्रकारेण दिव्यं लोकविलक्षणं मे जन्म प्रादुर्भावरूपं कर्म साधुपरित्राणादि । उपलक्षणमेतत् । स्वस्वयोग्यान् गुणान् । यो वेत्ति सः देहं त्यक्त्वा पुनर्जन्म नैति पुनरुद्भवं न गच्छति, किन्तु मामेति । यद्वा जन्म कर्म च ज्ञात्वैव जन्म नैतीत्ययोगव्यवच्छेदपरत्वेन व्याख्येयमिति ।। ९ ।।

भावदीपिका

‘पृथग्’ इत्यस्यार्थमाह– एकदेशज्ञानेनेति ।। भगवज्जन्म-कर्माख्यैकदेशज्ञानमात्रेणेत्यर्थः । सर्वज्ञाननियमस्य श्लोकेऽप्रदर्शनाद् ‘दर्शनार्थम्’ इति कथमुक्त-मित्यत आह– उपलक्षणार्थमिति ।। तृतीय इति ।। तृतीयाध्यायान्ते ।। अयोगेति ।। ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात् ‘यो जन्म कर्म च वेत्त्येव स जन्म नैति’ जन्म कर्म ज्ञात्वैव मुक्तिः, नाज्ञात्वा इत्ययोगव्यवच्छेद एवाभिमतः, नतु जन्मकर्मज्ञानेनैव मुक्तिः, नान्यज्ञानेनेत्यन्ययोग-व्यवच्छेदः, येनैतदेव गीतावाक्यं महाकौर्मवाक्यबाधकं स्यादिति भावः । भाष्ये सावकाशत्वं गतिशब्दार्थः । ननु ‘पृथङ्मुक्त्युक्ति’ इत्यनेनैव गीतावाक्यस्य सावकाशत्वं लब्धमेव, पुनः सावकाशत्वं किमर्थमुच्यत इत्यत आह– एतच्चेति ।। पृथङ्मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थमिति पूर्वोक्तादर्थाद् जन्मादिकं सर्वथा ज्ञातव्यमेवेत्यर्थान्तरम् ‘अत्रोक्तस्य’ इत्यनेनोच्यत इत्यर्थः । तथा च प्रकारान्तरेणोपलक्षणं विना सावकाशत्वस्योच्यमानत्वाददोष इति भावः ।

इतरवाक्यानि ‘वेदाद्युक्तं तु’ इत्यादीनि ।। कुतो नान्येति ।। अधिकारिविशेषो ब्रह्मा, तस्यैव वेदाद्युक्तसर्वज्ञानपूर्वकोपास्त्या ज्ञानम् । इतरेषां तु यत्किञ्चिज्ज्ञानमेवापेक्षितमिति सावकाशा-नीत्यन्या गतिरस्तीत्यर्थः ।। पक्षान्तरेति ।। अधिकारिविशेषस्यैव सर्वज्ञानम्, इतरेषां तु यत्किञ्चि-ज्ज्ञानमेवापेक्षितमिति पक्षान्तरव्यवच्छेदादित्यर्थः । तथा च वेदाद्युक्तसर्वज्ञानमेवापेक्षितमिति सावकाशत्वाभावान्नान्या गतिरिति भावः । अर्थापत्तिरिति ।। आपतति इत्यस्याक्षिपत्यर्थकत्वात् ‘तत्वत’ इति विशेषणेन सर्वज्ञानमाक्षिप्यत इत्यर्थः ।

ननु ‘ज्ञाश्रुस्मृदृशां सन’ इति सूत्रेण सन्नन्तेभ्यः ‘ज्ञा अवबोधने’ इत्येतेभ्यो धातुभ्य आत्मनेपदविधानात् कथं ‘जिज्ञसेत्’ इति विधिलिङ्-परस्मैपदप्रयोग इत्यत आह– जिज्ञासेतेति ।। ‘चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्’ इति वचनादिति भावः ।। अन्यत्रापीति ।। ‘एकं च तत्त्वतो ज्ञातुम्’ इत्यत्रोक्तमेव प्रमेयमुक्तमित्यर्थः । तदुदाहरति– एको भाव इति ।। एको भावः पदार्थः येन पुंसा तत्त्वतः पलपरिमाणेयत्ताविशेषवत्त्वेन कालदिगदृष्टरूपनिमित्तवत्त्वेनादृष्टा-श्रयैतादृशपुरुषविशेषप्रयोजनाय निर्मितत्वादिना रूपेण दृष्टः तेन सर्वे भावास्तत्त्वतो दृष्टा इत्यर्थः ।

ननु सर्ववेदाद्युक्तज्ञानपूर्वकोपास्तौ सर्वेषामधिकाराभावाद् अपरोक्षज्ञानाभाव एव प्रसज्यते इत्यतः–

यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् ।

 तत्राखिलस्य विज्ञप्तिः सम्यग् ब्रह्मण एव हि ।

 तदन्येषां यथायोगम् अखिलज्ञप्तिरिष्यते ।।’

इत्यनुव्याख्यानं मनसि निधायाह– सर्वत्रेति ।। ९ ।।

भावप्रकाशः

ननु पृथक्शब्दो न वैलक्षण्यार्थः । मुक्तेः तदुक्तेर्वा वैलक्षण्यानुप-लम्भात् । नापि पुनरर्थः । जन्मादिज्ञानेन मुक्तेरधुनेवोच्यमानत्वेन पुनर्मुक्त्युक्तेरभावादित्यत आह– एकदेशज्ञानेनेत्यर्थ इति ।। तथाऽप्येकदेशज्ञानेन मुक्त्युक्ते सर्वज्ञाननियमदर्शनार्थत्वाभावादाह– उपलक्षणार्थमिति तृतीय इति ।। तृतीयाध्यायान्त इत्यर्थः । तत्र ‘अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि’ इत्यादिप्रमाणानामुक्तत्वादिति भावः । नन्वेतज्ज्ञात्वैव जन्म नैतीत्यस्य जन्मादिज्ञानेनैव मोक्ष इति फलितार्थः । न चासौ युक्तः । जन्मादिज्ञानान्येन गुणपूर्णत्वज्ञानेन वा भगवत्प्रसादेन वा मोक्षोक्तेरित्यत आह– अयोगव्यवच्छेदमात्रेति ।। मोक्षे जनयितव्ये जन्मादिज्ञानायोगो नास्तीत्य-योगव्यवच्छेद एवैवकारार्थो न त्वन्ययोगव्यवच्छेद इत्यर्थः ।। ननु मोक्षं प्रति जन्मादिज्ञानायोग-व्यवच्छेदे कृते तन्नियम एवोक्तः स्यात् । तथा च नियमदर्शनार्थमिति ग्रन्थेन पुनरुक्तित्यत आह– एतच्चेति ।। पूर्वमुपलक्षणतया सर्वज्ञाननियम उक्तः । अत्र तु जन्मादिज्ञानमात्रनियम इति भेद इत्यर्थः ।।

इतरवाक्यानीति ।। ‘वेदाद्युक्तं तु सर्वं यः’ इत्यादीनीत्यर्थः । अधिकारिविशेषेति ।। चतुर्मुखादीत्यर्थः । नीलोत्पलमित्यादौ नैल्यादेरिव नान्यस्य कस्यचिदित्यस्य व्यावर्तकत्वा-भावादाह– पक्षान्तरव्यवच्छेदादिति ।। ननु ज्ञाश्रुस्मृदृशां सन इति सन्नन्ताज्ज्ञाधातोरात्मने-पदविधानाज्जिज्ञासेदिति कथमित्यत आह– जिज्ञासेतेति ।। भाष्ये सार्वज्ञ्याभावे तत्त्वतो ज्ञानाभाव इति व्यतिरेके प्रमाणमुक्तम् । तत्त्वज्ञाने सति सार्वज्ञ्यमित्यन्वयेऽपि स्वयं प्रमाणमाह– अन्यत्रापीति ।। ननु सार्वज्ञ्यास्यावश्यकत्वे मनुष्याणामुपासनाभावप्रसङ्गः । तेषां सार्वत्रिक-गुणोपसंहाराभावादित्यत आह– सर्वत्र सार्वज्ञ्यमिति ।। ९ ।।