व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ।। २ ।।लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ।। ३ ।।

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ।। २ ।।

श्रीभगवानुवाच-

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ।। ३ ।।

भाष्यम्

ज्यायस्त्वेऽपि बुद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह– लोक इति ।।

भावप्रदीपिका

 साभिप्रायं परिहारवाक्यमवतारयति– ज्यायस्त्वेऽपीति ।। सत्यम्, प्रवृत्तकर्मणो बुद्धिर्ज्यायसीति । तथाऽपि तत्र त्वां नियोक्ष्यामि । यत आधिकारिकत्वात् त्वं कर्मण्यधिकृतः । प्रवृत्तिकर्मणैव स्वर्गो ज्ञानं च भवति तवेत्यर्थः ।।

भावप्रकाशिका

सत्यम्, बुद्धिरभ्यधिका स्वर्गादिफलकर्मणः । तथाऽप्यधि-कारिभेदाद्युद्धादेरपि बुद्धिहेतुत्वं बुद्धिमद्युद्धादेर्मुक्तावानन्दवृद्धिहेतुत्वं चाविरुद्धमिति परिहाराभिप्रायं प्रकटयन् तद्वाक्यमवतारयति– ज्यायस्त्वेऽपीति ।। न च ‘हतो वा’ इत्यादिनाऽन्यार्थतो मुक्तिविरोधत्वं युद्धादेः, उत्तमाधिकारिज्ञानिकर्मणः स्वर्गाद्यतिशयजनकत्वेऽपि मुक्तावानन्द-वृद्धिकरत्वाविरोधात् । अधिकारिणां च यावदधिकारमवस्थितेरपेक्षितत्वात् स्वर्गादाविति भावः । अधिकारिशब्दो न ज्ञानाधिकारिमात्रमाचष्टे किन्तु कांश्चिदेव । तथा ह्युक्तम्—

प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः ।

 ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् ।

 गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु ।

 अल्पाधिकारिणः प्रोक्ताः अनधीकारिणः परे ।।’ इति ब्रह्माण्डे ।

प्रमेयदीपिका

 एवं चेत् प्रश्नः, तर्हि कथं परिहारवाक्यं सङ्गच्छते? तत्र निष्ठाद्वैविध्यकथनादित्यतस्तदभिप्रायं वदन्नवतारयति– ज्यायस्त्वेऽपीति ।। ‘बुद्धिः काम्यकर्मभ्यो ज्यायसी’ इति यदुक्तं तत्तथैव इत्यर्थः । तथाऽपि त्वां तत्र वैकल्पिके युद्धादिकर्मणि प्रेरयामि । कुतः? आधिकारिकत्वात् । त्वं कर्मण्यपि विक्षेपकारिण्यपि वैकल्पिकेऽधिकृत इति कृत्वा ।।

अयमत्रोत्तरक्रमः । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च न शुद्धकाम्यानि। किन्तु कर्तुरिच्छया स्वर्गाद्यर्थानि ज्ञानाद्यर्थानि च भवन्ति । अतो बुद्धेः काम्यकर्मणो ज्यायस्त्वेऽपि युद्धस्य बुद्ध्यर्थत्वसम्भवात् तत्र नियोगो नानुपपन्नः । यतिधर्मान् विना किमेतेन नियोगेन? इति चेद् अनधिकारिकाणामेव यत्याश्रमस्वीकारो नाधिकारिकाणाम् । तैर्गृहस्थाद्याश्रम-मपरित्यज्यैव तद्विहितानि कर्माणि निष्कामतयाऽनुष्ठेयानि इति ईश्वरनियमात् तव चाधिकारिकत्वादिति ।।

स्वराद्यन्तोपसृष्टाच्च’ इति कात्यायनवचनमनित्यम् । अत एव न पाणिनिरभाणीत् ।।

भावबोधः

।। वाक्यं सङ्गच्छत इति ।। स्वविधेययुद्धादिकर्मणः निष्कामतया ज्ञानद्वारा मोक्षहेतुत्वादेरकथनादिति भावः । ननु ‘प्रोपाभ्यां युजेः’ इत्यात्मनेपदविधायकसूत्रे वार्तिककृता ‘स्वराद्यन्त’ इति स्वराद्यन्तोपसर्गाणामुपसङ्ख्यानात् ‘नि’ इत्युपसर्गस्य स्वरान्त-त्वात् ‘नियोक्ष्ये’ इत्यात्मनेपदं भवेत् । कथं परस्मैपदप्रयोगः? इत्यत आह– स्वरेति ।। अत एवेति ।। अनित्यत्वादेवेत्यर्थः । अन्यथा ‘प्रोपाभ्याम्’ इत्यनुक्त्वा । ‘स्वराद्यन्ताभ्याम्’ इत्येवावक्ष्यदिति भावः ।

भावदीपः

ननु ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु’ (पा.सू.१.३.६४) इत्यात्मनेपद-विधिसूत्रे ‘स्वराद्यन्तोपसृष्टाच्च इति वक्तव्यम् इति वार्त्तिके स्वरशब्दिताजन्तोपसर्गयुक्ताद् ‘युजिर् योगे’ (पा.धा.१४४४) इति धातोरात्मनेपदोक्तेः ‘नियोक्ष्ये’ इति प्रयोक्तव्यम्् । कथं ‘नियोक्ष्यामि’ इति प्रयुक्तम्? इत्यत आह– स्वराद्यन्तेति ।। स्वरः अच् आदिरन्तो वा यस्य तादृशेेनोपसर्गेण सम्बद्धस्य युजेः अस्माद्धातोरात्मनेपदं वक्तव्यमिति वार्तिकार्थः ।। कात्यायनवाक्यस्य अनित्यत्वे ज्ञापकमाह– अत एवेति ।। अनित्यत्वादेवेत्यर्थः । अन्यथा ‘प्रोपाभ्याम्’ इत्यनुक्त्वा ‘स्वराद्यन्तोपसृष्टाद्युजेः’ इत्यवक्ष्यत् । अतो वार्त्तिककृन्मते तथात्वेऽपि पाणिनिमते परस्मैपदमेवेति भावः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ननु चात्र ‘नियोक्ष्ये’ इत्यात्मनेपदप्रयोगो युक्तः । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इति स्वरितेभ्यो धातुभ्यः आत्मनेपदविधानात् युजिरश्च स्वरितेत्वात् तस्मादात्मनेपदस्यैव प्राप्तेः । अथ यदर्थमसौ क्रियते तस्य फलस्य कर्तृगामिताया-मेव ‘स्वरितञित’ इति आत्मनेपदविधानम् । न सर्वत्र । अन्यथा ‘कर्त्रभिप्राये क्रियाफले’ इत्यस्य वैयर्थ्यप्रसङ्गात् । न चात्र क्रियाफलस्य कर्तृगामिता अस्तीति कथमात्मनेपदप्रसङ्गः? इति साम्प्रतम् । अकर्त्रभिप्रायेऽपि ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु’ इति आत्मनेपदस्यैव नियमात् ।

ननु चात्र प्रोपसृष्टयुजेरात्मनेपदं नियम्यते । न चात्र युजेः प्रोपसृष्टत्वमस्ति । तत्कथ-मात्मनेपदप्रसङ्गः? इति चेत् – न । ‘उद्युङ्क्ते नियुङ्क्ते’ इत्याद्यभियुक्तप्रयोगसंरक्षणार्थं प्रवृत्तैतत् सूत्रीयस्वराद्यन्तोपसृष्टाच्चेति वक्तव्यमिति वार्तिके प्रोपसृष्टत्वाभावेऽपि उपसर्गान्तरयुक्तादपि युजेस्तद्विधानात् । अयमस्यार्थः । स्वरः अच् आदिः अन्त्यो वा यस्य स स्वराद्यन्तः, तेनैवोपसर्गेण सम्बद्धः स्वराद्यन्तोपसृष्टः तस्माद्युजेरात्मनेपदं भवतीति । अनेन च ‘सन्निन्दुर् सत्’ इत्येतान् वर्जयित्वा सर्वोपसर्गसम्बन्धात् युजेरात्मनेपदनियमात् ‘नि’ इत्यस्यापि स्वराद्यन्ततया तर्त्पूवकादपि आत्मनेपदस्यैव युक्तत्वात् । तत्कथं नियोक्ष्यामीति परस्मैपदप्रयोग इत्यत आह– स्वराद्यन्तोपसृष्टाच्चेति कात्यायनवचनमनित्यमिति ।। तत्रैव ज्ञापकमाह– अत एवेति ।। अनित्यत्वादेवेत्यर्थः । अन्यथा ‘प्रोपाभ्याम्’ इत्यनुक्त्वा ‘स्वराद्यन्तोपसृष्टात्’ इत्येवावक्ष्यदिति भावः । उपलक्षणमेतत् । ‘स्वराद्युपसृष्टाच्च’ इति वार्तिकान्तरविरुद्धत्वाच्चेति तस्यानित्यत्वमवधातव्यम् । अत एव महाभाष्ये अपर आह– ‘स्वराद्यन्तोपसृष्टाच्चेति वक्तव्यमिति परमतत्वेन तस्योक्तिरिति ध्येयम्’ ।

भावरत्नकोशः

ननु ‘यतिधर्मेषु सत्सु युद्धे नियोजनमयुक्तम्’ इति पृष्टम् । तत्र ‘युद्धे नियोजनमयुक्तम्’ इत्यस्यैव परिहारः प्रतीयते । न तु यतिधर्मानुष्ठाने हेतुरुच्यत इत्यत आह– अयमत्र इति ।। ‘काम्यान्येव, फलश्रवणात््’ इति प्राक् चोदितत्वात् निषेधति– न शुद्धेति ।। अविरोधं घटयितुं ‘कर्तुरिच्छया’ इत्युक्तम् । तत्र युद्धे ।। नियोगः प्रेरणा ।। अनधिकारिकाणाम् आधिकारिकेतरेषाम् ।। तैः आधिकारिकैः ।। तेषामपि यत्याश्रमविहित-शमदमादिभिरेव ज्ञानसम्पादनसम्भवात् किं कर्मानुष्ठानेन ? इति चोद्यं परिहर्तुम्–‘ईश्वर-नियमात्’ इत्युक्तम् ।

ननु ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु’ इत्यात्मनेपदविधिपरे सूत्रे ‘स्वराद्यन्तोपसृष्टाच्चेति वक्तव्यम्’ इति वार्तिककृताऽऽत्मनेपदविधानाद् भाष्ये ‘नियोक्ष्ये’ इति प्रयोक्तव्यम् । कथं ‘नियोक्ष्यामि’ इति प्रयुक्तम् ? इत्यत आह– स्वरादीति ।। स्वरः अच्, आदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बद्धात् ‘युजिर् योगे’ इत्यस्माद् धातोरात्मनेपदं वक्तव्यमिति वार्तिकार्थः । कात्यायनवाक्यं वार्तिकम् । अनित्यत्वे ज्ञापकम्– अत एवेति ।। अनित्यत्वादेवेत्यर्थः । अन्यथा ‘प्रोपाभ्याम्’ इत्यनुक्त्वा ‘स्वराद्यन्तोपसृष्टाद् युजेः’ इत्येवावक्ष्यत् । अतो वार्तिककारमते परस्मैपदं न साधु इति भावः । उपलक्षणं चैतत् । ‘युज पृच संयमन’ इति चुरादौ पठितस्य विकल्पितणिच्कस्य युजेर्ग्रहणे ऌटि णिचि ‘नियोजयिष्यामि’ इति रूपमिव णिजभावपक्षे ‘नियोक्ष्यामि’ इति निष्प्रत्यूहं रूपम् ।

न चोक्तकात्यायनवचनेनास्मादपि धातोरात्मनेपदं स्यादेवेति वाच्यम् । ‘प्रोपाभ्याम्’ इति सूत्रे ‘युजेरितीकारो विवक्षितः’ इति हरदत्तवचनात् । चौरादिकस्तु अकारान्त इति न तस्यात्मनेपदप्राप्तिरित्यपि द्रष्टव्यम् । श्रूयते च बह्वृचब्राह्मणे सप्तमपञ्चके षोडशे खण्डे ‘तस्य ह विश्वामित्रो होताऽसीत्’ इत्युपक्रम्य ‘शतं दत्त्वाऽहमेनं नियोक्ष्यामि’ इति । स्मर्यते चात्रैव गीतायामष्टादशाध्याये ‘मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति’ (१८.५९) इति ।

भावदीपिका

।। एवं चेदिति ।। उक्ताभिप्रायकश्चेदित्यर्थः । सङ्गच्छत इति ।। भगवता स्वविधेययुद्धादिकर्मणो निष्कामतया ज्ञानद्वारा मोक्षहेतुत्वादेरकथनादिति भावः । ‘आधिकारिक’ इति पुरुषविशेषाणां सञ्ज्ञा । ननु तथाऽपि ‘रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यतिधर्मेषु सत्सु अशक्यानुष्ठाने युद्धे नियोजनमयुक्तम्’ इति परिचोदनायाः किमुत्तरं जातम्? इत्यत आह– अयमत्रोत्तरक्रम इति ।। शुद्धकाम्यानीति ।। सर्वान् प्रत्यपि नियमेन ज्ञानेतरस्वर्गादिफलकान्येवेत्येवं केवलकाम्यानीत्यर्थः । स्वर्गाद्यर्थानीत्यादि काम्यान्य-काम्यानि चेत्यर्थः । काम्यकर्मणः सकाशात् । सम्भवात् ‘ज्ञानार्थिनं प्रति’ इति शेषः । यतिधर्मान् रागादिप्रसक्तिहीन•न्, शक्यानुष्ठानांश्च । एतेन रागादिमतेत्यर्थः । तद्विहितानि कर्माणि गृहस्थाश्रमविहितानि युद्धादिकर्माणि ।। निष्कामतयेति ।। प्रसक्तमपि रागादिकं परित्यज्येत्यर्थः ।

नन्वस्त्वाधिकारिकाणामेवम्भावः । मम त्वनाधिकारिकत्वाद् इत्थं नियोजनमनुपपन्नमित्यत आह– तव चेति ।।

प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः ।

 ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् ।।

 गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु ।

 अल्पाधिकारिणः प्रोक्ता अनधीकारिणः परे ।।’

इति पञ्चमस्कन्धतात्पर्ये (भाग.ता.५-६-५) उदाहृतब्रह्माण्डपुराणवचनेन देवाना-माधिकारिकत्वावगमात्, तवापीन्द्रावतारतया देवत्वेनाऽधिकारिकत्वादित्यर्थः ।

ननु ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु ।’ ‘प्र’ ‘उप’ इत्युपसर्गाभ्यां परस्य युजेर्धातोरात्मनेपदं स्यात् । प्रयुङ्क्ते उपयुङ्क्ते । अयज्ञापात्रेष्विति किम्? द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । अत्र सूत्रे वार्तिकम्– ‘स्वराद्यन्तोपसृष्टाच्च’ इति । तस्यार्थः– स्वराक्षरमेवाऽदावन्ते च यस्योपसर्गस्य स स्वरद्यन्तोपसर्गः । स उपसर्गो यस्य युजेः स स्वराद्यन्तोपसृष्टः । तस्माद् युजेर्धातोरात्मनेपदं स्यात् । यद्वा उपसृष्टमुपसर्गः । भावे क्तः । तस्मात् परस्य युजेरात्मनेपदं स्यादिति शेषः । उद्युङ्क्ते । उकारस्य स्वरत्वेन ‘उद्’ इत्युपसर्गस्य स्वरादित्वात् स्वराद्युपसर्गसंयुक्तोऽयं युजिः । नियुङ्क्ते । इकारस्य स्वरत्वेन ‘नि’ इत्युपसर्गस्य स्वरान्तत्वात् तदन्तोपसर्गसंयुक्तोऽयं युजिः । तथा च ‘नियोक्ष्यामि’ इत्यत्रापि युजेः स्वरान्त‘नि’ इत्युपसर्गसंयुक्तत्वेनाऽत्मनेपदित्वात् ‘नियोक्ष्ये’ इति स्यात्, ‘भजिष्ये’ इतिवत् ।

तथा हि । निपूर्वकाद् युजधातोः लृट्प्रत्यये तस्याऽत्मनेपदिनि उत्तमपुरुषैकवचने इडादेशे टकारलोपे ‘नियुज् इ’ इति जाते, ‘स्यतासी लृलुटोः’ लृ इति लृङ्लृटोर्ग्रहणम् । ‘धातोः स्यतासी प्रत्ययौ स्तः लृलुटोः परयोः’ इति स्यप्रत्यये ‘युज् स्य इ’ इति जाते, ‘चोः कुः’ इति जकारस्य कुत्वे ‘युग्’ इति जाते ‘खरि च’ इति सकाररूपे खरि परे झलो गकारस्य ककाररूपे चरि सति ‘युक्’ इति जाते, ‘पुगन्तलघूपधस्य च’ इति लघूपधत्वाद् उकारस्य ओकाररूपगुणे ‘योक्’ इति जाते, ‘आदेशप्रत्यययोः’ इति कवर्गात् परस्य स्यप्रत्ययस्य सकारस्य षकाररूपे मूर्धन्यादेशे कषयोगे ‘क्ष’ इति जाते, ‘नियोक्ष्य इ’ इति जाते ‘टित आत्मनेपदानां टेरे’ लट् लिट् लुट् लृट् एते टितः । एतदात्मनेपदानाम् आत्मनेपदिनि लादेशभूतानाम्, त - आतां - झ - थास् - आथां - ध्वम् - इड् - वहि - महिङ् इत्येतेषां टेरेत्वं स्यादिति टिभूतस्य इकारस्य एकारादेशे ‘नियोक्ष्य ए’ इति जाते, ‘अतो गुणे’ ‘अपदान्ताद् अतः गुणे परतः अकारस्य पररूपम् एकादेशः स्यात्’ इत्यनेन ‘क्ष्य’ इत्यत्रत्यस्य अकारस्य परस्य एकारस्य च पररूपे जाते, ‘नियोक्ष्ये’ इति रूपं भवेत्, न तु ‘नियोक्ष्यामि’ इति लृटः परस्मैपदिनि रूपमित्यत आह– स्वराद्यन्तोपसृष्टाच्चेति कात्यायनवचनमनित्य-मिति ।। ‘अनित्यम्’ इत्यस्य क्वचित् स्यात्, क्वचिन्न स्यादित्यर्थः । तथा च युज्धातोः स्वरान्तोपसर्गसंयुक्तत्वेऽपि ‘नियोक्ष्यामि’ इति परस्मैपदित्वमेव जातमित्यर्थः ।

साधनप्रकारस्तु निपूर्वकाद् ‘युज्’ अस्माल्लृटि परस्मैपदिनि उत्तमपुरुषैकवचने मिप् इत्यादेशे पकारलोपे, ‘स्यतासी लृलुटोः’ इति स्यप्रत्यये ‘नियुज् स्य मि’ इति जाते ‘चोः कुः’ इति चवर्गान्तर्गतस्य जकारस्य कवर्गान्तर्गतगकाररूपे कुत्वे ‘नियुग्’ इति जाते, ‘खरि च’ इति गकारस्य ककाररूपे चर्त्वे लधूपधगुणे, ‘नियोक्’ इति जाते, ‘आदेशप्रत्यययोः’ इति सस्य षत्वे कषयागे ‘क्ष’ इति जाते, ‘नियोक्ष्य मि’ इति स्थिते ‘अतो दीर्घो यञि’ अदन्ताङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे इति मकारस्य यञ्प्रत्याहारान्तर्गतत्वेन मिप्प्रत्ययो यञादिः । ‘तिङ्शित् सार्वधातुकम्’ इति सार्वधातुकश्च भवति । तिपमारभ्य महिङ्पर्यन्तास्तिङो भवन्ति । तिङ्-प्रत्याहाररूपत्वात् । एवं सार्वधातुके यञादौ मिपि परे ‘क्ष्य’ इत्यत्रस्थाकारस्य दीर्घे ‘नियोक्ष्यामि’ इति लृटः परस्मैपदिनि रूपं भवति ‘भविष्यमि’ इतिवदिति द्रष्टव्यम् ।

कात्यायनवचनस्यानित्यत्वे ज्ञापकमाह– अत एव न पाणिनिरभाणीदिति ।। कात्यायन-वचनस्यानित्यत्वादेवेत्यर्थः । तथा हि । यदि ‘स्वराद्यन्तोपसृष्टाच्च’ इति कात्यायनवचनं नित्यं स्यात् तर्हि पाणिनिः ‘प्रोपाभ्याम्’ इति सूत्रे ‘प्रोपाभ्याम्’ इत्यनुक्त्वा स्वराद्यन्ताभ्यां युजेरयज्ञपात्रेषु इति ब्रूयात् । एवं वचनेऽपि प्रोपेत्युपसर्गयोरपि ‘स्वरान्तस्वराद्युपसर्गत्वेन सङ्गृहीतत्वात् तत्परस्य युजेरात्मनेपदित्वोक्तिलाभात् । न ह्येवमभाणीत् । किन्तु ‘प्रोपाभ्याम्’ इत्येव । तेनेत्थं तदभिप्रायोऽवगम्यते । स्वरान्तस्वराद्युपसर्गा एव सर्वे ‘प्र’ ‘परा’ इत्याद्याः । तन्मध्ये प्रोपाभ्यां परस्य युजेरात्मनेपदित्वं नियतम् । इतरोपसर्गात् परस्य युजेस्त्वात्मनेपदित्व-मनियतमिति । एवं युजेः स्वरान्तोपसर्गसंयुक्तत्वेऽपि परस्मैपदित्वमेवेति ध्येयम् । अत एवैतत्सूत्रव्याख्यानावसरे फणिभणितभाष्ये ‘स्वराद्युपसृष्टत्वाच्च इति वक्तव्यम्’ इत्युक्त्वा ‘स्वरान्तोपसृष्टाच्च इत्यपरे’ इत्युक्तेः तत्र स्वराद्युपसृष्टयुजेरात्मनेपदित्वं नियतमिति स्वाभिप्रायः । ‘अपरे’ इत्युक्त्या च स्वरान्तोपसर्गसंयुक्तयुजेरपि आत्मनेपदित्वं नियतमिति यत् कात्यायनेनोक्तं तद् अनित्यम् इत्यस्वरससूचनादिति न किञ्चिदत्रानुपपन्नमित्यालोचनीयं व्याकरणशौण्डैरिति ।

भावप्रकाशः

 ननु यतिधर्मेषु सत्सु युद्धे नियोजनमयुक्तमिति पृष्टम् । तत्र युद्धे नियोजनमयुक्तमित्यस्यैव परिहारः प्रतीयते न तु यतिधर्माननुष्ठाने हेतुरित्यत आह– अयमत्रेति ।। ननु प्रोपाभ्यां युजेरयज्ञपात्रेष्विति सूत्रे स्वराद्यन्तोपसृष्टाच्चेति वक्तव्यमिति वार्तिककृता आत्मनेपदविधानात् नियोक्ष्ये इति वक्तव्यम् । नियोक्ष्यामीति तु कथमित्यत आह– स्वरेति ।। स्वरोऽच्आदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बन्धाद्युजेरात्मनेपदं वक्तव्यमिति वार्तिकार्थः । अत एवेति ।। अनित्यत्वादेवेत्यर्थः । अन्यथा ‘प्रोपाभ्याम्’ इत्यनुक्त्वा ‘स्वराद्यन्ताभ्याम्’ इत्येवावक्ष्यत् । न हि सूत्रानुक्तं वार्तिककृतोच्यते । ‘सूत्र एव तु तत्सर्वं यद्वृत्तौ यच्च वार्तिके’ इति शाब्दिकोक्तेरति भावः ।

 

Load More