महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।। ६ ।।

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।। ६ ।।

भावरत्नकोशः

‘तत्क्षेत्रम्’ इति प्रतिज्ञातमुच्यते– महाभूतानीति ।। आकाशादीनि पञ्च महाभूतानि । अहङ्कारशब्देन महत्तत्त्वमपि ग्राह्यम् । बुद्धिः अन्तःकरण-वृत्तिविशेषः । अव्यक्तं त्रिगुणात्मकं प्रधानम् । इन्द्रियाणि ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्चेति दश, चशब्द इन्द्रियत्वानुकर्षणार्थः, मन इन्द्रियं चैकम् । इन्द्रियगोचराः इन्द्रियविषयाः शब्दस्पर्शरूपरसगन्धाः पञ्चेति, चतुर्विंशति तत्त्वानि क्षेत्रम् ।। ६ ।।