त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।। १३ ।।

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।। १३ ।।

भाष्यम्

तर्हि कथमेवं न ज्ञायस इत्यत आह– त्रिभिरिति ।। तादात्म्यार्थे मयट् । तच्चोक्तम्– ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इति । नहि गुणकार्यभूता माया । ‘गुणमयी’इति च वक्ष्यति ।।

भावप्रदीपिका

नन्वयं यदि भगवान् सर्वाधारो नान्याधारः, तर्हि किमिति सर्वविलक्षण एव न दृश्यते, सर्वसादृश्येनैव प्रतीयते ? इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतारयति– तर्हीति । ‘गुणमयैः’ इत्यस्य विवक्षितार्थमाह– तादात्म्येति । मयटो विकारार्थत्वे ‘मामेभ्यः’ इत्यत्र गुणातीतत्वमयुक्तं स्यात् । अतस्तादात्म्यार्थतैवेत्यर्थः । मयटो विकारार्थत्वादर्थान्तरमेव नास्तीति कश्चिद्व्याख्याति । तं प्रत्याह– न हीति । यदि मयटो विकारैकार्थता तदा प्रकृतेर्गुणविकारत्वं स्यात् । न च तद्युक्तमित्यर्थः । कथं मयटो विकारैकार्थताभ्युपगमे प्रकृतेर्गुणविकारतापत्तिः ? इत्यत आह– गुणेति । तादात्म्यार्थत्वे गुणातीतत्वमेव हरेः स्यात्, न गौणातीतत्वमित्यत आह– सिद्धं चेति ।

भावप्रकाशिका

ननु यदि भगवान् सत्वरजस्तमोगुणात्मकदेहानां ब्रह्मादीनां सर्वेषामाश्रयः स्वयमनन्याश्रयश्च, तर्हि तद्विलक्षणाप्राकृतापरिमितज्ञानानन्दादिस्वरूपदेहः स्यात् । तादृक्त्वाप्रतीतेरयमपि गुणात्मकदेह इति भावेनाशङ्क्य, एतां परिहर्तुमुत्तरं श्लोकमवतार्य व्याचष्टे– तर्हीति । मयटोऽत्र विकारार्थत्वे ‘मामेभ्यः परम्’ इति गुणकार्येभ्य एव भगवतः परत्वं स्यात् । न गुणेभ्योऽपि अतस्तदुभयज्ञापनार्थं तादात्म्यार्थत्वं मयटः सप्रमाणकमाह– तादात्म्येति । मायिनाऽत्र मयटो विकारार्थत्वमुक्तं ‘गुणमयैः गुणविकारैः’ इति । तत्पक्षे मायाऽपि गुणकार्यभूता स्यात् । न च तद्युज्यत इत्याह– न हीति । ननु कथं गुणकार्यभूता स्यात् ? इत्याशङ्क्य, तस्या अप्युत्तरश्लोके गुणमयीत्वाभिधानादित्याह– गुणमयीति ।।

प्रमेयदीपिका

ननु विज्ञाननिरूपणं प्रारभ्य ‘त्रिभिः’ इत्यादिकं किमर्थ-मुच्यते? इत्यत आह– तर्हीति ।। ‘ये चैव’ (७१२) इति विज्ञाननिरूपणोपसंहार-वाक्ये सत्त्वादिगुणनिर्वृतानां भगवान् कारणम् आश्रयश्च तदनाश्रयश्चेत्युक्तम् । तेनैव‘गुणातीतः’ इति चोक्तप्रायम् । तस्यायमाक्षेपः । एवं गुणातीततया ‘सगुणश्च ज्ञायसे’ इति शेषः । एवमनुपलम्भविपरीतोपलम्भाभ्याम् उक्तमसदिति भावः ।।

विकारार्थतानिरासार्थमाह– तादात्म्येति ।। मयटः तादात्म्यार्थत्वं कुत इत्यत आह– तच्चेति ।। तादात्म्ये प्रयोगं दर्शयितुमुपोद्घातमाह– न हीति ।। कार्यभूतेत्युपलक्षणम् । गुणप्राचुर्यादिकमपि तस्यां न सम्भवति । ततः किम्? इत्यत आह– गुणेति ।। ‘दैवी ह्येषा गुणमयी मम माया’ (७.१४) इति मायाया गुणमयीत्वमुच्यते । नच तत्र विकाराद्यर्थता सम्भवति । ततः परिशेषतस्तादात्म्यार्थता ग्राह्येत्यर्थः ।।

भावदीपः

।। प्रारभ्येति ।। ‘रसोऽहम्’ इत्यादिना इति योज्यम् ।। अनुवाद-व्याजेन पूर्वश्लोकार्थं व्यनक्ति– ये चैवेति ।। एवमित्यनूद्यार्थमाह– एवं गुणातीततयेति ।। उक्तमिति ।। गुणातीतत्वं गुणप्राचुर्यादिकमपीति ।। मयटः प्राचुर्यार्थत्वं प्राधान्यार्थकत्वं चात्र न युक्तमिति सूचितम् ।।

भावरत्नकोशः

कृतामसङ्गतिशङ्कां परिहर्तुं पूर्वश्लोकार्थं वदन् आक्षेपविषयं दर्शयति– ये चैवेतीति ।। तेनैव उपसंहारवाक्येनैव । उक्तप्रायमिति ।। न हि गुणबद्धो गुण-निर्वृतपदार्थकारणं भवतीत्यर्थाद् गुणातीतत्वमपि प्राप्तमिति भावः । तस्य गुणातीतत्वस्य । अयं भाष्यगतः ‘कथम्’ इत्ययम् । न पुनः कारणत्वस्य आश्रयत्वस्य वा, गीतायां तत्परिहाराप्रतीतेरिति भावः । ‘एवम्’ इत्यनूद्यार्थवर्णनं– एवं गुणातीततयेति ।। गुणमयाः पदार्थाः भगवद्विषयस्य सगुणत्वप्रकारकमोहस्य कारणम् । तेन च मोहेन गुणातीतत्वं न जानातीत्यस्यार्थस्य गीतायां वक्ष्यमाणत्वात्, गमनिकाभाष्ये तद्व्यावर्त्या शङ्का संयोज्येति भावेनाह– सगुणश्च ज्ञायस इति शेष इति ।। ‘नाभिजानाति’ इत्यादिगीतानिवर्त्याशङ्कामुक्त्वा ‘मोहितम्’ इति गीताव्यावर्त्याक्षेप-माह ‘सगुणश्चेति’ इत्यप्यवतारयन्ति । एवमनुपलम्भविपरीतोपलम्भाभ्यामिति ।। गुणातीत-त्वानुपलम्भसगुणत्वोपलम्भाभ्यामित्यर्थः । उक्तम् ‘गुणातीतः’ इत्युक्तम् । विकारार्थतेति ।। तथा

च सङ्करः ‘गुणमयैः गुणविकारैः’ इति । ‘प्रयोगं च’ इत्यत्र न केवलं प्रमाणसिद्धत्वमिति चशब्दः ।

ननु मयटः विकारः, अवयवः, प्राचुर्यम्, तादात्म्यं चेति चत्वारोऽर्थाः । तत्र ‘न हि कार्यभूत’ इति विकारार्थत्वप्रतिषेधमात्रेण न परिशेषे वक्ष्यमाणः प्रवर्तते । प्रसक्त्योः प्राचुर्यावयवार्थ-योरप्रतिषेधादित्यत आह– कार्यभूतेति ।। न सम्भवति ‘इत्यपि ग्राह्यम्’ इत्युपस्कर्तव्यम् । ‘गुणमयीत्वम्’ इत्यत्र ‘त्वतलोर्गुणवचनस्य’ इति सूत्रे गुणशब्दः शुक्लादिगुणवचन एवेति मनोरमायां व्यवस्थापितमिति न पुंवद्भावः । अत्र सत्त्वादेर्गुणशब्दार्थस्य द्रव्यत्वात् । अत एव ‘स्त्रियाम्’ इति सूत्रे ‘व्यापिनीत्वात्’ इति कैयटः । विकाराद्यर्थता विकारप्राचुर्याद्यर्थता ।

भावदीपिका

।। निर्वृतानाम् उत्पन्नानाम् । तेनैवेति ।। गुणमयसर्वपदार्थानां कारणत्ववचनेनेत्यर्थः । उक्तं गुणातीतत्वम् । कार्यभूतेति ।। तथा न विकारार्थे मयडिति भावः । गुणप्राचुर्यमपि तस्यां न सम्भवतीति ।। ‘इत्यपि द्रष्टव्यम्’ इति शेषः । वाक्यार्थमाह– गुणेति ।। तत्र मायाशब्देन दुर्गाया गृहीतत्वात्, तस्यां च गुणविकारस्य, तत्प्राचुर्यस्य वाऽसम्भवादित्यर्थः । मायायाः दुर्गायाः । तादात्म्यार्थतेति ।। गुणतादात्म्यं चाभिमानित्वाद्युक्तम् । अभिमान्यभि-मन्यमानयोरैक्यपदेशस्य ‘तथौ प्राणात्मकौ प्रोक्तौ’ ‘महतश्च चतुर्मुखात्’ इत्यादौ दर्शनादिति द्रष्टव्यम् ।

भावप्रकाशः

।। ननु तर्हीत्यादिना ।। कारणत्वादिना कुतो न ज्ञायस इत्याक्षिप्यते । न चैतद्युक्तम् । गीतायां सगुणत्वमोहादौ कारणस्योक्तत्वेनोक्ताक्षेपपरिहारालाभा-दित्यत आह– ये चैवेतीति ।। ‘नाभिजानाती’त्यादि गीतानिवर्त्यशङ्कामुक्त्वा मोहितमित्यन्त-गीतानिवर्त्याक्षेपमाह– सगुणश्चेति ।। ननूक्तप्रमाणाच्छाब्दिकप्रसिद्धेश्च मयटश्चत्वारोऽर्थाः विकारोऽवयवः प्राचुर्यं तादात्म्यं चेति । तत्र न हि कार्यभूतेति विकारार्थत्वं निषिद्धं न चैतावता वक्ष्यमाणपरिशेषप्रवृत्तिः । प्रसक्त्योः प्राचुर्यावयवार्थत्वयोरनिषेधात् । इत्यत आह– उपलक्षणमिति । प्राचुर्यादिकमिति ।। आदिपदाद्गुणावयवत्वसङ्ग्रहः । गुणमयीत्वमिति ।। नात्र त्वतलोर्गुण-वचनस्येति पुंवद्भावः शुक्रादयो ये गुणाः प्रसिद्धाः तद्वाचिन एव पुंवद्भाव इति भट्टोजिना सिद्धान्तितत्वात् । प्रकृते च सत्त्वादेः द्रव्यत्वेन तदात्मकत्ववाचिगुणमयशब्दस्य प्रसिद्धशुक्रादि-गुणवाचित्वाभावादिति बोध्यम् ।।

Load More