न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बद्ध्यते ।। १४ ।।
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बद्ध्यते ।। १४ ।।
भाष्यम्
अत एव न मां कर्माणि लिम्पन्ति । इतश्च न लिम्पन्तीत्याह– न मे कर्मफले स्पृहा ।। इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः ।।
भावप्रदीपिका
ननु चातुर्वर्ण्यकर्ता चेद्भगवान्, तर्हि तस्य महत्कर्मलेपः स्यादित्यत आह– अत एवेति । मनोऽभिनिवेशाभावादेवेत्यर्थः । इतश्च न कर्मलेपो ममेत्यर्धं श्लोकमवतारयति– इतश्चेति । ननु कथं भगवतो न फलेच्छा ? ‘स्त्रक्ष्ये हि चेतनगणान्’ इति फलेच्छादर्शनादित्यत आह– इच्छामात्रमिति । ममेदं फलं स्यादित्याग्रहोऽभिनिवेशः ।।
भावप्रकाशिका
ननु यदि परमार्थतः कर्ता भगवान् सर्वस्यापि चातुर्वर्ण्यस्य, तर्हि किञ्चित्कर्तृभ्यो जीवेभ्योऽतिशयेनैव लिप्येतैतेैः कर्मभिः । अतः कथं तस्येशत्वमित्या-शङ्क्य, परिहारत्वेनोत्तरं श्लोकं व्याचष्टे– अत एवेति । यत एवं सर्वकर्मणां तत्फलानां चानभिनिवेशादेव कर्ता हरिः, अतः सर्वेशत्वादेव न तं कर्माणि लिम्पन्ति । न तु कर्तृत्वाद्यपारमार्थिकत्वनिश्चयादित्यर्थः ।।
इतोऽपि न भगवतः कर्मलेपः तदपारमार्थिकत्वनिश्चयात् किन्त्वाप्तकामत्वेन निःस्पृह-त्वादेवेत्याह– इतश्चेति । ननु भगवान् चातुर्वर्ण्यं सर्वं वा जगत् प्रविश्य विहर्तुं हि तत् ससर्ज । सा विहृतिर्जगत्सुखदुःखमध्यसम्प्राप्तयेऽस्तु नाम । तथाऽपि सा विहारेच्छा कर्म-फलेच्छैव । अतः कथं न तस्य कर्मफलस्पृहा ? इत्यत आह– इच्छामात्रं त्विति ।। आप्तकामत्वाविरोधित्वान्नेच्छामात्रास्तित्वे कश्चिद्दोषः, अपि तु गुण एवेति भावः ।
प्रमेयदीपिका
अपव्याख्यानस्य दूषणान्तरं सूचयन् क्रियावैलक्षण्यकथनस्य का सङ्गतिः ? इत्यत उत्तरेण सङ्गतिमाह– अत एवेति ।। एवशब्देनास्मद्व्याख्यान एवायं हेतुहेतुमद्भावो युज्यते, न परव्याख्यान इति सूचयति ।।
जीवानां कर्मलेपेऽभिनिवेशादिकं कारणम्, तदस्य नास्तीति । मिथ्यात्वं तु जीव-क्रियायामपि समानमिति तेषामपि लेपाभावे किमाश्रय आक्षेपः स्यात् ? ज्ञानेन विशेष इति चेन्न । तस्याश्रवणात् । लेपनिवारणं च व्यर्थम् । तस्यापि मिथ्यात्वेन ज्ञातव्यत्वात् । हेतुहेतुमतोरुक्तत्वात् न मे कर्म इति किमर्थम्? इत्यत आह – इतश्चेति ।।
नन्वात्मार्थं भगवतः फलस्पृहाभावेऽपि परार्थमस्त्येव । तत्कथमेवमुच्यते ? इत्यत आह– इच्छेति ।। तत्र कर्मफले । येन तत्प्राप्तिपर्यन्तं मनसो विक्षेपः सोऽभिनिवेशः ।।
भावदीपः
।। अत एवेतीति ।। ‘लोकविलक्षणक्रियावत्वादेव’ इत्यर्थस्य स्पष्टत्वाद् एवकारार्थमाह– एवशब्देनेति ।। ‘युज्यते’ इत्याद्युक्तं व्यनक्ति– जीवानामिति ।। आक्षेप इति ।। चातुर्वर्ण्यं त्वया सृष्टं चेत् तर्हि कर्तृत्वात् जीववत् तवापि कर्मलेपः प्रसज्येत इत्यर्जुनकृताक्षेपः किमाश्रयः? किं दृष्टान्तमाश्रित्य प्रवर्तते? येन ‘तस्य’ इत्त्याद्युत्तरार्धेन परिहारो घटतेत्यर्थः ।। नन्वीश्वरस्य क्रियाणां मिथ्यात्वज्ञानादलेपः, जीवस्य तु तदभावाल्लेप इति शङ्कते– ज्ञानेनेति ।। लेप इति ।। जीवस्य मिथ्यात्वाज्ञानाल्लेपे सति निवारणं च व्यर्थम् । ओपार्थं मिथ्यात्वज्ञानस्यैव सम्पाद्यत्वादित्यर्थः ।। हेतुहेतुमतोरिति ।। ‘अकर्तारम्’ इत्यनेनाभि-निवेशाभावरूपहेतोः ‘न मां कर्माणि लिम्पन्ति’ इत्यनेन साध्यस्य चोक्तत्वादित्यर्थः ।।
भावरत्नकोशः
।। क्रियावैलक्षण्यकथनस्येति ।। तस्य कर्तारमपि मां क्रियायां वैलक्षण्यादकर्तारं विद्धीत्युक्तक्रियावैलक्षण्यकथनस्येत्यर्थः । ‘अत एव’ इति भाष्ये ‘अतो लोक-विलक्षणक्रियात्वात्’ इत्यस्यातिरोहितत्वादेवकारतात्पर्यमाह– एवशब्देनेति ।। प्राचीनटीकायां तु ‘यत एवं सर्वकर्मणां तत्फलानां चानभिनिवेशादेव कर्ता हरिः अतः सर्वेशत्वादेव न तं कर्माणि लिम्पन्ति। न तु कर्तृत्वाद्यपारमार्थिकत्वनिश्चयादित्यर्थः’ इत्युक्तम् । अस्मद्व्याख्याने क्रियायां वैलक्षण्यात् कर्ताप्यकर्तेति व्याख्याने । अत्र हेतुहेतुमद्भावमुपपादयति– जीवानामिति ।। ‘अभिनिवेशादिकम्’ इत्यत्र आदिशब्देन क्रियाया अस्वरूपत्वं ग्राह्यम् । भागवती तु क्रिया स्वरूपमेव, ‘क्रियाऽऽकृतिः’ इत्युक्तेरिति ज्ञातव्यम् । इतिशब्दस्य ‘इति सूचयति’ इत्यन्वयः ।।
परव्याख्याने हेतुहेतुमद्भावयोगमुपपादयति– मिथ्यात्वं त्विति ।। तथा च क्रियाया मिथ्या-त्वाद् अकर्ता भगवानित्यनुमानस्य जीवे व्यभिचार इति भावः । साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्क्याह– तेषामपीति ।। आक्षेप इति ।। यदि चातुर्वर्ण्यं त्वया सृष्टं तर्हि कर्तृत्वाज्जीववत् तवापि कर्मलेपः प्रसज्येतेति अर्जुनस्य आक्षेपः किमाश्रयः कं दृष्टान्तमवलम्ब्य प्रवर्तेत । येन ‘तस्य’ इत्युत्तरार्धे परिहारो घटेतेति भावः । व्यावहारिकं लेपमाश्रित्य हेतुहेतुमद्भावायोग उक्तः । परमार्थतो लेपाभावेन परमते आक्षेपानुपपत्तिरियमुद्भावितेति न कश्चिद्दोषः ।
केचित्तु ‘समानम्’ इत्यत्रत्येतिशब्दस्य सूचयतीत्यन्वयः । एवं भाष्यगतैवशब्दसूचितं दूषण-मभिधाय स्वयं दोषान्तरमाह– तेषामपीति ।। ‘मिथ्यात्वं तु’ इति पूर्वोक्तमत्रापि हेतुत्वेन सम्बध्यते । चातुर्वर्ण्यकर्तृत्वात्तवापि लेपः स्यादित्याक्षेपो न युक्तः । क्रियाया मिथ्यात्वेन जीवा-नामपि लेपाभावे निराश्रयत्वादिति भावः’ इति व्याचक्षते ।
ननु क्रियामिथ्यात्वे समानेऽपि तत्त्वेन ज्ञानाभावाज्जीवानां लेपः । ईश्वरस्य तु तद्भावादलेपः । तथा च जीवदृष्टान्तसमाश्रयणेन आक्षेपः सेत्स्यतीति शङ्कते– ज्ञानेनेति ।। तर्हि तस्य कर्तारमपि मां क्रियामिथ्यात्वज्ञानवन्तं मां विद्धीति वक्तव्यम् । न चैवं गीतायां श्रूयत इत्याह – तस्येति ।। प्रत्युत ‘अकर्तारम्’ इत्येव हि श्रूयत इति भावः । एवं ‘तस्य कर्तारम्’ इति गीतावाक्यमसमञ्जसं परपक्ष इत्यभिधाय ‘न मां कर्माणि’ इति वाक्यमसङ्गतमित्याह– लेपनिवारणं चेति ।। तस्य लेपस्य । न केवलं क्रियाया इत्यपिशब्दः । मिथ्यात्वेन प्रकारेण ज्ञातव्यत्वात् ज्ञातव्यतयाऽभि-धातव्यत्वात् ।
इदमुक्तं भवति । यथा ‘विद्ध्यकर्तारम्’ इत्यत्र क्रियामिथ्यात्वं मुमुक्षुं प्रति ज्ञातव्य-तयाऽभिधीयत इति तवाभिमानः, तथा ‘विद्ध्यलेपम्’ इति लेपमिथ्यात्वमपि ज्ञातव्यतया वक्तव्यम् । मोक्षसाधनत्वाविशेषात् । ‘न मां कर्माणि लिम्पन्ति’ इति कर्मलेपाभावमात्रकथन-मप्रयोजनम् । अन्यथा क्रियामिथ्यात्वस्याप्यवक्तव्यत्वापातादिति । हेतुहेतुमतोरिति ।। ‘तस्य कर्तारमपि मां विद्ध्यकर्तारम्’ इत्यत्राभिनिवेशाभावरूपहेतोः, ‘न मां कर्माणि लिम्पन्ति’ इति हेतुमच्छद्बितसाध्यस्य चोक्तत्वादित्यर्थः । ‘इतश्च’ इति भाष्यस्य आप्तकामत्वेन कर्मफलस्पृहाऽ-भावाच्चेत्यर्थः । ‘स्पृहा’ इत्यनन्तरं ‘इति’ शब्दो भाष्येऽध्याहार्यः । अस्त्येवेति ।। ‘स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृताम्’ इति भारततात्पर्यनिर्णये तथोक्तेरिति भावः । आप्तकामत्वाविरोधीच्छामात्रसद्भावो न दोषाय, अपि तु गुणायैवेति भाष्यभावः स्फुटत्वान्नोक्तः । हेतुद्वयस्यैकरूपत्वाद्भाष्ये ‘इतश्च’ इति चशब्दायोग इत्यतोऽभिनिवेशशब्दार्थमाह– येनेति ।। अत्र भगवत उक्तरूपाभिनिवेशाभावे ।।
भावदीपिका
।। अस्मद्व्याख्यान इति ।। अभिनिवेशाद्यभावेनाकर्तृत्व-व्याख्यान एवेत्यर्थः । हेतुहेतुमद्भावः अकर्तृत्वकर्मलेपाभावयोर्हेतुसाध्यभाव इत्यर्थः । तदेव प्रदर्शयति– जीवानामिति ।। ‘अभिनिवेशादिकम्’ इत्यत्राऽदिपदेन ज्ञानात्मककर्तृत्वाभावे-नाहङ्कारिकं कर्तृत्वं ग्राह्यम् ।। नास्तीति ।। ततश्चायमकर्ता, तथा च कर्मलेपशून्य इति भावः । ननु भगवतोऽभिनिवेशाभावेनाकर्तृत्वं कुतः? किन्तु क्रियाया मिथ्यात्वादेवाकर्तृत्वमस्तु । तथाच मिथ्याभूतकर्तृत्ववत्त्वेनैव कर्मालेपः साध्यताम्, इत्यत आह – मिथ्यात्वं त्विति ।। समानमिति ।। तथा च मिथ्याभूतकर्तृत्ववत्त्वं जीवेष्वस्तीति तेषामपि कर्मालेपः प्रसज्यत इत्यर्थः । अस्त्विति चेत् तत्राऽह– तेषामपीति ।। किमाश्रय इति ।। यदि चातुर्वर्ण्यं त्वया सृष्टं तर्हि कर्तृत्वाद् जीववत् तवापि कर्मलेपः प्रसज्येत, इत्येवं जीवदृष्टान्तमाश्रयीकृत्याऽक्षेपः कार्यः, स कर्तुं न शक्यते । जीवानामपि कर्मलेपाभावप्रसक्तौ दृष्टान्ताभावादिति भावः ।
ननु परमार्थतो लेपाभावस्य जीवेश्वरयोः साम्येऽपि ईश्वरस्य मिथ्यात्वज्ञानेन लेपप्रतीतिर्नास्ति, जीवस्य तु मिथ्यात्वज्ञानाभावेन लेपप्रतीतिर्भवति । अतो जीववत् कर्मलेपप्रतीतिः स्यादित्येवं जीवदृष्टान्ताश्रयेणाऽक्षेपो युज्यत इत्याशङ्कते– ज्ञानेनेति ।। मिथ्यात्वज्ञानाभावभावाभ्यां लेपप्रतीत्यभावतत्प्रतीतिभावरूपो विशेषो युज्यत इत्यर्थः ।। तस्येति ।। एतादृशविशेषस्य प्रमाणेष्वश्रवणादित्यर्थः। लेपेति ।। मिथ्याभूतकर्तृत्वेन ‘न मां कर्माणि लिम्पन्ति’ इति भगवता स्वस्य लेपनिवारणं क्रियमाणं व्यर्थमित्यर्थः । कुत इत्यत आह– तस्यापीति ।। लेपाभावस्या-पीत्यर्थः । त्वन्मते लेपवत् लेपाभावस्यापि मिथ्यात्वेनावश्यं ज्ञातव्यत्वान्मिथ्याभूतलेपाभावज्ञानेन ‘कर्मभिर्न स बध्यते’ इति श्रूयमाणं फलकथनं न युज्यत इत्यर्थः । तथा हि साङ्कर्षणं सूत्रम् । ‘अचेतनायोग्यासत्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति ।। हेतुहेतुमतोः ।। अकर्तृत्वलेपा-भावयोः ।
भावप्रकाशः
स्वव्याख्याने हतुहेतुमद्भावमुपपादयति– जीवानामिति ।। अभिनिवेशादिकमिति ।। आदिपदेन क्रियायाः प्राकृततत्वं ग्राह्यम् । तनुर्विद्या इत्यनेन तद्विरोधिनः क्रियायाः स्वरूपत्वस्योक्तत्वादिति मन्तव्यम् । अपव्याख्याने हेतुहेतुमद्भावायोगमुपपादयति– मिथ्यात्वं त्विति ।। तथा च जीवे व्यभिचार इति भावः । इतिशब्दस्य सूचयतीत्यनेनान्वयः । एवं भाष्यगतैवैशब्दसूचितं दूषणमुक्त्वा दोषान्तरमप्याह– तेषामपीति ।। मिथ्यात्वं त्विति पूर्वोक्तमत्रापि हेतुत्वेन सम्बध्यते ।
अयमर्थः । चातुर्वर्ण्यसर्गादिकर्मकर्तृत्वात् तवापि लेपः स्यादिति परोक्त ‘तस्य कर्तार’मिति गीतानिवृत्त्याऽक्षेपो न युक्तः । क्रियामिथ्यात्वेन जीवानामपि लेपाभावाद्दृष्टान्तालाभे निराश्रय-त्वादिति । व्यावहारिकं लेपमाश्रित्य पूर्वं हेतुहेतुमद्भावायोग उक्तः । परमार्थतो लेपाभावेन परमते आक्षेपानुपपत्तिरियमुद्भावितेति न कश्चिद्दोषः । ननु क्रियामिथ्यात्वे समानेऽपि तज्ज्ञानाभावात् जीवानां लेपः तदभावाच्चेश्वरस्यालेपः । तथा च जीवदृष्टान्ताश्रयेणाक्षेपो भविष्यतीति शङ्कत– ज्ञानेनेति ।। तर्हि कर्तृत्वमिथ्यात्वज्ञानवन्तमिति वक्तव्यम् । नत्वकर्तारमिति ।। नचैवं श्रूयत इत्याह– तस्येति ।। एवं परपक्षे ‘तस्य कर्तार’मिति गीताया असङ्गतिमुक्त्वा ‘न मां कर्माणी’ति गीताप्यसङ्गतेत्याह– लेपनिवारणं चेति तस्यापीति ।। न केवलं क्रियायाः किन्तु लेपस्यापीत्यर्थः । अयमाशयः । यथा ‘विद्ध्यकर्तार’मिति क्रियामिथ्यात्वं ज्ञातव्यतया विहितं मुमुक्षोरवश्यम-पेक्षितत्वात् । अन्यथा ‘इति मां योभिजानाती’ति ज्ञानानुवादेन फलकथनयोगाच्च । तथा ‘विद्ध्यलेप’मिति लेपमिथ्यात्वमपि ज्ञातव्यतया वक्तव्यम् । अविशेषात् । ‘न मां कर्मणि लिम्पन्ती’ति लेपमिथ्यात्वमात्रकथनं त्वसङ्गतम् । सन्नियोगशिष्टन्यायविरोधादिति ।।