दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ।। ३८ ।।

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ।। ३८ ।।

भावरत्नकोशः

।। दण्ड इति ।। दमयतां दमयितॄणाम्, दण्डं कुर्वतां दण्डोऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्विभूतिः । जिगीषतां जेतुमिच्छताम्, नीतिरस्मि सामाद्युपायभूतसारधर्मप्रदोऽस्मि । गुह्यानां गोपनीयानां मध्ये मौनं मौनलक्षण-सारधर्मोऽस्मि । ज्ञानवतां ज्ञानलक्षणसारधर्मोऽहम् ।। ३८ ।।