यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ।। १७ ।।
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ।। १७ ।।
भाष्यम्
‘सर्वारम्भपरित्यागी’ इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेन अपुनरुक्तिः । हर्षादिभिर्मुक्त इत्युक्ते कादाचित्कमपि भवतीति ‘यो न हृष्यति’ (१२.१७) इत्युक्तम् । उपचारपरिहारार्थं पूर्वम् ।।
भावप्रदीपिका
सर्वारम्भ...इत्यादौ प्रतीतपुनरुक्तिं परिहरति– सर्वेति । ननु यो न हृष्यति इत्यनेन सर्वदा हर्षाद्यभावसिद्धिश्चेत्, किं हर्षामर्ष... इति वाक्येन ? इत्यत आह– उपचारेति ।
प्रमेयदीपिका
पुनरुक्तिदोषमाशङ्क्य परिहरति– सर्वेति ।। ‘सर्वारम्भ-परित्यागी’,‘शुभाशुभपरित्यागी’ इत्यादौ सामान्यविशेषभावेन ।। ‘सन्तुष्टः सततं’ ‘सन्तुष्टो येन केनचित्’ इत्यादौ व्याख्यानव्याख्येयभावेन ।। ‘हर्षामर्षभयोद्वेगैर्मुक्तः’, ‘यो न हृष्यति’ इत्यत्र नोक्तं प्रकारद्वयं सम्भवतीत्यत आह– हर्षादिभिरिति ।। निष्ठाप्रत्ययेनातीतत्वप्रतीत्या कालान्तरे हर्षादिकं भवतीत्याशङ्क्य क्रियाप्रबन्धे विहितेन लटा प्रतिपादयतीत्यर्थः ।।
भावबोधः
।। सामान्यविशेषभावेनेति ।। शुभाशुभशब्दयोरारम्भविशेष-वाचकत्वादिति भावः । व्याख्यानव्याख्येयभावेनेति ।। ‘येन केनचित्’ इति निमित्तकथनेन पूर्वोक्तमेव सन्तुष्टत्वं व्याख्यायत इत्यर्थः । ननु ‘ओष्टा’ इत्याद्युक्तद्वेषादिवर्जनादेः भगव-द्विषयत्वासम्भवात् कथं तद्विषयमित्युक्तमित्यत आह– तदुपासनाङ्गत्वादिति ।। १६ ।।
भावदीपः
।। क्रियाप्रबन्ध इति ।। तृतीयाध्यायतृतीयपादे ‘नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः’ इति सूत्रम् । तस्यार्थः– भूतानद्यतने भविष्यदनद्यतने च लङ्लृटौ विवक्षितौ । तयोः प्रतिषेधः क्रियते । अनद्यतने च प्रत्ययविधिर्न भवति । क्रियाप्रबन्धे सामीप्ये च गम्यमाने क्रियाणाम् । प्रबन्धक्रिया क्रियाप्रबन्धः । सातत्येनानुष्ठानं कालानाम्, सामीप्यं तुल्यजातीयेनाव्यवधानम् । यावज्जीवं भद्रमन्नमदात्, यावज्जीवं भृतः अन्नं दास्यति, यावज्जीवं युक्तः अध्यापिपत्, यावज्जीवं युक्तो अध्यापयिष्यति । सामीप्ये तु ‘येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनादधीत । ‘सोमेनायष्ट । स ग्राममदादधिपतये यममावास्यागामिना एतस्या यक्ष्यति असङ्गां दास्यति उपाध्यायः अग्निना दास्यति सोमेन अग्निना अधीते इत्यादीन्युदाहरणानि ।। अद्यतनवत् क्रियाप्रबन्धसामीप्ययोरित्येव वक्तव्ये नानद्यतनवदिति चेति द्वौ प्रतिषेधौ प्राप्तस्याप्यनुज्ञानायेत्युक्तम् । ‘भूतभविष्यानद्यतनवत् प्रत्ययौ न भवतः’ इत्युक्त्या अद्यतने लटः अप्रतिषेधात् क्रियाप्रबन्धे लडित्युक्तम् । तथा च हृष्यतीति सन्ततहर्षवान् इत्यर्थो भवतीति भावः ।। अपव्याख्यां ‘हृष्यति’ इत्युक्त्या अद्यतनो हि ईश्वरः उपासकानाम् इति ।।
वाक्यार्थप्रदीपः
क्रियाप्रबन्धे लडिति ।। तृतीयाध्यायतृतीयपादीये ‘नानद्यतनवत् क्रियाप्रबन्धे सामीप्यां अद्यतनवद्वचने हि विधानम् । तत्र लडवधिप्रसङ्गः । ‘लुङ् लृटोश्च यथाकालम्’ इत्यादिना नञ्द्वयप्रयोजनप्रतिपादकवार्तिके क्रियासातत्यानुष्ठानरूपक्रिया-सम्बन्धे द्योत्ये अनद्यतनवत्प्रत्ययान्निषिध्य भूतवर्तमानभविष्यदद्यतनप्रत्ययान् लुङ्लृट् एव स्वस्वकालप्राप्तानभ्यनुज्ञातुं नञ्द्वयमित्यर्थस्य प्रतिपादितत्वेन क्रियाप्रबन्धेन विहितेन लटा इत्युक्तमिति ध्येयम् ।। ‘वर्तमाने लट्’ इति सूत्रे ‘नित्यवृत्ते च’ इति निरन्तरं प्रवृत्तं मान-क्रियायां ‘पर्वतास्तिष्ठन्ति आकाशस्तिष्टति इत्यादि प्रयोगसिद्ध्यर्थं क्रियासातत्ये लट्विधानात् इत्यर्थ इति तु तत्वम् ।।
भावरत्नकोशः
।। व्याख्यानेति ।। ‘सन्तुष्टः सततं योगी’ इत्यत्रोक्तः सन्तोषो न यादृशतादृशः, किन्तु येन केनचिद्दैवलब्धेन प्राप्त इति व्याख्यानभावेनापुनरुक्तिरिति व्याख्यातव्यमित्यर्थः । भूताधिकारे निष्ठाप्रत्ययानुशासनादिति भावेनोक्तम्– अतीतत्वेति ।।
भावदीपिका
।। सामान्यविशेषेति ।। शुभाशुभशब्दयोः आरम्भविशेष-वाचकत्वादिति भावः । व्याख्यानेति ।। ‘येन केनचित्’ इत्याधिक्योक्तेरिति भावः । निष्ठेति ।। ‘क्तक्तवतू निष्ठा’ इति सूत्रात् ‘मुक्तः’ इत्यत्रत्येन भूतार्थकक्तप्रत्ययेनेत्यर्थः । कालान्तरे वर्तमानकाले भविष्यत्काले चेत्यर्थः । ननु तर्हि ‘न हृष्यति’ इत्यादिलटा वर्तमानकालीन-निषेधलाभेऽपि, अतीतभविष्यत्कालयोः हर्षादिकं भविष्यतीति शङ्का स्यादेव? इत्यत उक्तम् – क्रियाप्रबन्ध इति ।। क्रियाप्रबन्धः क्रियासातत्यम् । तत्रार्थे नित्यप्रवृत्ते चेति वार्तिकविहितेन लटेत्यर्थः । तथा च ‘मुक्तः’ इत्यस्य ‘सततं हर्षादिशून्यः’ इत्यर्थो लभ्यत इति द्रष्टव्यम् ।
भावप्रकाशः
।। परित्यागीत्यादाविति ।। आदिपदाद् ‘ओष्टा समः शत्रौ च मित्रे च’ इत्यादेः संग्रहः । सन्तुष्टो येन केनचिदित्यादाविति । आदिपदेन ‘क्षमी, सम-दुःखसुखः’ इति सङ्ग्रहः । व्याख्यानेति । ‘येन केनचित्’ इति निमित्तकथनाद् व्याख्यान-त्वम् । अतीतत्वप्रतीत्येति ।। भूताधिकारे निष्ठाप्रत्ययोक्तेरिति भावः ।। क्रियाप्रबन्ध इति ।। क्रियासातत्य इत्यर्थः । यथा तिष्ठन्ति पर्वताः स्रवन्ति नद्य इत्यादौ अवस्थानादेः सदातनत्वेन भूतभविष्यत्वाभावात् तत्प्रतियोगिकवर्तमानत्वस्याप्यभाव इति वर्तमाने लडित्यस्या-प्रवृत्तेर्नित्यप्रवृत्ते च कालाविभागादिति वार्तिकेन लट् तथेहापि हर्षस्य नित्यं विद्यमानत्वं हृष्यतीति लडिति भावः । वार्तिकार्थस्तु नित्यं विद्यमाने अवस्थानादिरूपव्यापारे भूतं भविष्य-द्वर्तमानमिति कालविभागज्ञानाभावात् सदातनक्रियावाचकाद्धातोः लट् वाच्य इति बोध्यः । यद्यपीदं वार्तिकं प्रत्याख्यातम् । तथाऽपि नाज्झलावित्यादिवच्छब्दव्युत्पादने एतदुपादानं न विरुद्धम् । प्रत्याख्यानपक्षेऽपि पर्वतादिकालीनराजादिस्थितिगतस्य प्रारब्धापरिसमाप्तत्वरूप-वर्तमानत्वस्य पर्वतादावप्यारोपात् यथा नित्यप्रवृत्तेऽपि लट् तथैवात्रापीति न कश्चिद्दोषः
।। १६ ।।