तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। १९ ।।

तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। १९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवमासुरस्वभावमापन्ना नरके पतन्तीति नरकानुभवः फलमुक्तः । नैतावदेव, किन्नाम कञ्चित्कालं मयैव प्रापितसंसारमनुभूय ततो नित्यनरकप्राप्तिरपीत्युच्यते– तानहमिति द्वाभ्याम् ।। तान् उक्तासुरभावमापन्नान् अत एव द्विषतः क्रूरान् घोरान् अमङ्गलस्वभावान् आसुरीष्वेव, न कदापि साध्वीषु योनिषु संसारेषु जननमरणमार्गेषु क्षिपामि निरस्यामि परिवर्तयामि ।। १९ ।।