असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ।। ४९ ।।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।

नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ।। ४९ ।।

भाष्यम्

नैष्कर्म्यसिद्धिं नैष्कर्म्यफलां योगसिद्धिम् ।। ४९ ।।

भावप्रदीपिका

ब्रह्माप्नोति इत्युत्तरत्र श्रवणात् न नैष्कर्म्यसिद्धिर्मोक्ष इत्याह– नैष्कर्म्येति ।। ४९ ।।

प्रमेयदीपिका

‘नैष्कर्म्यसिद्धिं मोक्षम्’ इति केचित् । तदसत् । तदनन्तरं मां विशते इति वाक्यशेषविरोधादिति भावेनान्यथा व्याचष्टे– नैष्कर्म्यमिति ।। नैष्कर्म्यार्था सिद्धिः नैष्कर्म्यसिद्धिः । सा च योगस्येत्यर्थः ।। ४९ ।।

भावदीपः

‘विशते तदनन्तरम्’ इत्यस्यान्वयमुखेन अनुवादः, तदनन्तरं मां विशत इति ।। ततो मां तत्वतो ज्ञात्वा विशते इत्यत्राङः प्रश्लेष इति भावः ।। ४९ ।।

भावरत्नकोशः

।। नैष्कर्म्यसिद्धिमिति ।। नैष्कर्म्यं च सा सिद्धिश्च नैष्कर्म्यसिद्धिः, तां मोक्षमिति भावेन नैष्कर्म्यसिद्धिं मोक्षमित्युक्तम् । ‘नैष्कर्म्यफलम्’ इति भाष्यघटनायाऽह– नैष्कर्म्यार्थेति ।। नैष्कर्म्यम् अर्थः प्रयोजनं फलं यस्याः सा नैष्कर्म्यार्था, तां नैष्कर्म्यफलामिति गीताभाष्ययोरेकार्थता । सा च सा सिद्धिः ज्ञानम् अपरोक्षज्ञानम् । तद्धि नैष्कर्म्यशब्दितमोक्षफलकम् ‘नैष्कर्म्यफलां सिद्धिम्’ इत्येव भाषणीये यद् योगग्रहणं तत्तात्पर्य-माह– सा चेति ।। नैष्कर्म्यार्थसिद्धिश्च । योगस्य सात्त्विकज्ञानकर्मादिलक्षणस्य अपरोक्ष-ज्ञानोपायस्य सिद्धिः फलरूपा इति भावेन भाष्ये ‘योगसिद्धिम्’ इत्युक्तम् । तेन ‘पुनः साधन-प्रथनाय गुणभेदमाह’ इति भाष्ये ‘ज्ञानं कर्म च’ इत्यादिप्रघट्टकस्य यन्मोक्षसाधनज्ञानाय परोक्षज्ञानोपायप्रपञ्चनपरत्वमुक्तं तद्विशदं भवतीत्याशयः ।

अत्र ‘नैष्कर्म्यार्था सिद्धिः नैष्कर्म्यसिद्धिः’ इति समासः । शाकपार्थिवादाविव मध्यम-पदलोपी च । यद्वा नैष्कर्म्यम् अस्याः फलत्वेनास्तीति नैष्कर्म्या, अर्शआदिभावेन मत्वर्थीयोऽच्प्रत्ययः । सा च सा सिद्धिश्च नैष्कर्म्यसिद्धिरिति कर्मधारयः । ‘नैष्कर्म्या नैष्कर्म्यफला सिद्धिः फलत्वेन यस्याः परोक्षज्ञानकर्मादिलक्षणायाः साधनसामग््रयाः सा नैष्कर्म्यसिद्धिः’ इति बहुव्रीहिश्च इति तन्त्रेण समासद्वयमभिसंहितम् । इदं च ‘नैष्कर्म्यफलां योगसिद्धिम्’ इति भाष्यवाक्यद्वयेन, ‘नैष्कर्म्यार्था सिद्धिः नैष्कर्म्यसिद्धिः’ इति ‘सा च योगस्य’ इति टीकावाक्यद्बयेन चोन्नीयते । एवं समासद्वयानभिसन्धाने नैष्कर्म्यफलां सिद्धिम् इति, ‘नैष्कर्म्यार्था सिद्धिः नैष्कर्म्यसिद्धिः’ इत्येवावक्ष्यदिति आहुः ।। ४९ ।।

गीताक्षरार्थस्तु कर्मनिरतस्य सिद्धिरुक्ता । तदनुष्ठाने इत्थम्भाव उच्यते– असक्तेति ।। सर्वत्र कर्म तदङ्गाद्यनुष्ठाने असक्ता कर्तृत्वाभिमानहीना बुद्धिः यस्य स तथा जितात्मा वशीकृतचित्तः, विगता निःशेषेण निवृत्ता स्पृहा फलाभिलाषो यस्मात् स तथा । एवंभूतः साधकः परमाम् उत्तमां नैष्कर्म्यसिद्धिः नैष्कर्म्यार्था मोक्षार्था सिद्धिः नैष्कर्म्यसिद्धिरिति समासो मध्यमपदलोपी । यद्वा ‘नैष्कर्म्यम् अस्याः फलत्वेनास्ति’ इत्यत्र अर्शआदिलक्षणे मत्वर्थीयेऽ-च्प्रत्यये नैष्कर्म्यार्था मोक्षफला च सा सिद्धिश्च नैष्कर्म्यसिद्धिरिति कर्मधारयः । नैष्कर्म्या नैष्कर्म्यफला सिद्धिः फलत्वेन यस्याः परोक्षज्ञानकर्मादिलक्षणायाः साधनसामग््रयाः सा नैष्कर्म्य-सिद्धिरिति बहुब्रीहिः, तां नैष्कर्म्यसिद्धिं सन्न्यासेन सर्वकर्मणां भगवति समर्पणलक्षणेन अधिगच्छति प्राप्रोति ।। ४९ ।।

भावदीपिका

।। तदनन्तरं नैष्कर्म्यसिद्धिप्राप्त्यनन्तरम् । नैष्कर्म्यार्था मोक्षार्था । योगस्येति ।। कर्मसमाधियोगरूपस्य सिद्धिः तत्फलभूतम् अपरोक्षज्ञानमित्यर्थः

।। ४९ ।।

भावप्रकाशः

 ।। सा च योगस्येति ।। ज्ञानस्येत्यर्थः । अग्रे सिद्धेर्ज्ञाननिष्ठात्मकत्वेन अभिधानात् ।। ४९ ।।