यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।। २१ ।।

यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।। २१ ।।

भावरत्नकोशः

प्राप्तान्यदेवता अपि ता विहाय भगवन्तं पुनः किमिति न प्रपद्येरन् इत्यत उच्यते– यो य इति । यो यो भक्तः यां यां ब्रह्मरुद्रादिरूपां तनुं श्रद्धयाऽर्चितु-मिच्छति तस्य तस्य तां तद्विषयिणीं श्रद्धामचलां स्थिरां विदधामि करोमि ।। २१ ।।