वक्त्राणि ते त्वरमाणा विशन्ति दंष्ठ्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ।।२७।।

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ठ्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ।।२७।।

भावप्रकाशः

 गीताक्षरार्थस्तु ननु युद्धोपक्रम एव चूर्णितोत्तमाङ्गतया अन्यैरदृष्टाः कथमर्जुनेन ‘मया तथा संदृश्यन्ते’ इत्युच्यते ‘केचिद्विलग्नाः’ इत्यादिना इति चेत्, ये तस्मिन्नेव मुहूर्ते मरिष्यमाणास्तेषामेवात्र ग्रहणाद् युद्धोपक्रमे एवैवमुक्तिर्युक्ता । विशीर्णत्वेनापि तस्य सूक्ष्मदृष्टिगोचरत्वाद् अन्येषां तथा दर्शनाभावश्च युक्तः । ‘दिव्यं ददामि चे चक्षुः’ इत्यादेरन्यादृष्टदर्शनं च युक्तम् । अन्येषां तददर्शने, अर्जुनस्य दिव्यदृष्टितयाऽन्यादृष्टदर्शने च दृष्टान्तोऽभिहितस्तात्पर्यनिर्णये ‘यथा भिन्नमपि घटादिकं यावत् पृथङ् न पतति तावन्मन्ददृष्टीनां न ज्ञायते, यथा पुरूरवसो जरा अश्विभ्यामेव दृष्टा’ इति च ।। २७ ।।