ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।। १२ ।।

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।। १२ ।।

भाष्यम्

न त्वहं तेषु इति तदनाधारत्वमुच्यते । उक्तं च ‘तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः’ इति गीताकल्पे ।। १२ ।।

भावप्रदीपिका

ननु सर्वगतो हरिः कथं भूतेषु नावस्थित उच्यत इत्यत आह– न त्विति । भगवतोऽनाधारत्वे प्रमाणमाह– उक्तं चेति ।। १२ ।।

भावप्रकाशिका

ननु भगवतः सर्वभावेषु स्थित्यभावे परिच्छिन्नत्वम्, ‘सर्वभूतस्थमात्मानम्’ इत्याद्युक्तिविरोधश्च स्यादित्यत आह– न त्विति । तत्र प्रमाणमाह– उक्तं चेति ।। १२ ।।

प्रमेयदीपिका

‘सर्वभूतस्थमात्मानम्’ (६.२९) इत्युक्तत्वात्, उपसंहार-वाक्ये ‘न त्वहं तेषु’इति कथमुच्यते? इत्यत आह– न त्वहमिति ।। तदनाधारत्वं तदुप-जीवनेन स्थित्यभावः । कुत एतत्? इत्यत आह– उक्तं चेति ।। न केवलमुक्तविरोधादिति चार्थः ।। १२ ।।

भावदीपः

।। इत्युक्तत्वादिति ।। पूर्वाध्याये ।। उक्तेति ।। ‘सर्वभूतस्थ’-मित्युक्तेरित्यर्थः ।। १२ ।।

भावदीपिका

ननु तत्रस्थत्वे तदाधारत्वं प्राप्तमेवेत्यतो व्याचष्टे– तदुप-जीवनेनेति ।। उक्तविरोधादिति ।। ‘सर्वभूतस्थामात्मानम्’ इत्युक्तविरोधादित्यर्थः ।।११,१२।।

भावरत्नकोशः

‘मत्त एवेति तान् विद्धि’ इत्युपसंहाराच्च’ इत्युत्तरप्रस्थानोक्तिं हृदि कृत्वाऽऽह– उपसंहारवाक्य इति ।।

विज्ञाननिरूपणमुपसंह्रियते– ये चैवेति । ये चैव सत्त्वगुणनिर्वृत्ताः, रजोगुणनिर्वृत्ताः, तमोगुणनिर्वृत्ताश्च ये च केचिद् भावाः पदार्थाः तान् मत्त एव मत्कारणकानेव विद्धि । तेषु भावेषु अहं तदुपजीवनेन न तिष्ठामि । ‘सर्वभूतस्थमात्मानम्’ इत्यत्र स्थितिमात्रोक्तावपि तदुपजीवनेन स्थित्यभावोऽभिसंहित इति न तद्विरोधः । ते तु मयि मदुपजीवनेनैव वर्तन्त इति च विद्धि । ‘उपसंहारवाक्ये’ इति टीकोक्तेः ‘मत्त एवेति तान् विद्धीत्युपसंहाराच्च’ इति तात्पर्यनिर्णयवचनाच्च इतिशब्दो विज्ञाननिरूपणसमाप्तिवचनोऽपि व्याख्येयमिति ।। १२ ।।