अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ।।१९
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ।।१९
भाष्यम्
‘शशिसूर्यनेत्रम्’ इत्यपि ‘अहं क्रतुः’ इत्यादिवत् । ‘तदङ्गजाः सर्वसुरादयोऽपि तस्मात्तदङ्गेत्यृषिभिस्तुतास्ते’ इति ऋग्वेदखिलेषु ।‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इतिच । बहुरूपत्वाद् बह्वाश्रयत्वं तेषां युक्तम् ।। १९ ।।
भावप्रदीपिका
शशिसूर्यादीनां कथं भगवदङ्गैक्यमुच्यते ? इत्यत आह– शशीति । भगवदङ्गजन्यत्वात् तदाश्रयत्वाच्चैक्यव्यपदेश इत्यर्थः । ननु कथं रुद्रादीनां मनोनयनादिबह्वाश्रयत्वजन्यत्वे ? इत्यत आह– बह्विति ।। १९ ।।
प्रमेयदीपिका
‘शशिसूर्यनेत्रम्’ इत्युक्तत्वात् कथं विश्वरूपशब्दस्यान्यथा व्याख्यानम्? इत्यत आह– शशीति ।। इत्यादिवत् व्याख्येयम् । जन्यजनकभावेन आश्रयाश्रयिभावेन वाऽभेदोक्तिः इत्यर्थः । कुत एतत्? इत्यत आह– तदङ्गजा इति ।। तदङ्ग इत्यविभक्तिको निर्देशः, सम्बुद्धिर्वा । अभेदे बाधकं चाह– चन्द्रमा इति ।। चक्षोः चक्षुषः । नन्वत्र चन्द्रमसो मनोजातत्वं तदाश्रयत्वं चोच्यते । गीतायां तु नेत्राश्रयत्वादि । तथाऽन्यत्र ‘दंष्ट्रार्यमेन्दू’ इति । तत्कुतो न विरोध इत्यत आह– बह्विति ।। १९ ।।
भावदीपः
।। अन्यत्र ‘दंष्ट्रार्यमेन्दूडुगणा द्विजानि’ इति द्वितीयस्कन्धे आद्येऽध्याये ।। १९ ।।
भावरत्नकोशः
।। शशीति ।। ‘शशिसूर्यनेत्रम्’ इति चन्द्रसूर्ययोर्भगवन्नेत्रत्वं गीयते । तच्च विश्वरूपशब्दस्य पूर्णरूपार्थत्वे न युज्यते, युज्यते तु जगदात्मकत्वार्थत्वे, इति कथं भाष्यकारीयं व्याख्यानमित्यर्थः । भाष्यपदमनूद्य शेषमाह– इत्यादिवद् व्याख्येयमिति ।। शशिसूर्यौ शशिसूर्यसत्ताप्रतीत्यादिकारणे नेत्रे यस्य, शशिसूर्यौ शशिसूर्याश्रयौ नेत्रे यस्येति वा व्याख्येयमित्यर्थः । तदेतदाह– जन्यजनकभावेनेति ।। जनकभावः सत्ताप्रतीत्यादिकारण-त्वम् । दृष्टश्च जन्यजनकभावेऽभेदव्यपदेशः ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यत्र, ‘इग्यणः सम्प्रसारणम्’ इति सूत्रे सम्प्रसारणात्् जातो वर्णः सम्प्रसारणम् इत्यादौ । आश्रयाश्रयि-भावेनैक्यव्यपदेशश्च ‘तत्त्वमसि’ इत्यत्र, ‘समर्थः पदविधिः’ इति सूत्रे समर्थपदाश्रितत्वात् पदविधिरुपचारेण समर्थपदेनोच्यत इत्यत्र च ।।
यद्यपि ‘अहं क्रतुः’ इत्यत्र, ‘रसोऽहम्’ इत्यत्र, ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ इत्यत्र च क्रत्वादिसत्ताप्रतीत्यादिकारणत्वात््, तद्भोक्तृत्वात्, तत्रोपास्यत्वाच्च ‘क्रतुरहम्’ इत्याद्यैक्यव्यपदेश इत्युक्तम्, न पुनराश्रयाश्रयिभावेनापि तद्व्यपदेश उक्तः । तथापि सत्ताप्रतीत्यादिकारणत्वेनात्राभेदोक्तिः ‘तदङ्गजाः’ इति प्रमाणादाश्रयितव्येति तद्दृष्टान्तोक्तिः । आश्रयाश्रयिभावेनाभेदकथनं तु
‘प्रतिमापेक्षयाऽङ्गानि भूरादीनि स्वरूपतः ।
तदाश्रितानि तज्जानि बह्वङ्गत्वं बहुत्वतः ।।’
इति भागवततात्पर्योदाहृतप्रमाणानुसारेणेति मन्तव्यम् ।
‘तदङ्गानि स्तुताः’ इति वक्तव्ये ‘तदङ्ग’ इति कथमुक्तम् ? इत्यत आह– तदङ्गेत्य-विभक्तिक इति ।। ‘न लोपः प्रातिपदिकान्तस्य’ इत्यादाविव लुप्तविभक्तिक इत्यर्थः । ‘सुपां सुलुक्’ इति स्मरणादिति भावः । सम्बुद्धिर्वेति ।। चन्द्रसूर्यादिदेवानुद्दिश्य प्रत्येकं ‘हे विष्ण्वङ्ग’ इत्येवं सम्बोधनानुकूलप्रथमैकवचनान्तेन सम्बोध्य, स्तुताः शशिसूर्यादिदेवा इत्यर्थ इति वा व्याख्येयमित्यर्थः । उपलक्षणमेतत् । तदङ्गप्रातिपदिकात् परस्य जसः ‘सुपां सुलुक्’ इत्यादिना आदादेशे ‘विश्वा भूतानि’ इत्यादाविव ‘तदङ्गाः तदङ्गानि’ इत्यर्थ इत्यादि द्रष्टव्यमित्यपि आहुः । न केवलम् अमुख्याभेदस्याङ्गीकार्यत्वे साधकम्, मुख्याभेदाङ्गीकारे बाधकं चेति चशब्दः ।
‘चक्षेः शिच्च’ इत्युसिप्रत्यये शितोऽनार्धधातुकतया ख्याञादेशाभावे ‘चक्षुषः’ इति स्यात्, कथं ‘चक्षोः’ इति इत्यत आह– चक्षोश्चक्षुष इति ।। वेदे रूपम् अनुकूलप्रत्ययोत्पादने-नोह्यमिति हृदयम् । ‘तदाश्रितानि तज्जानि’ इत्युदाहृतप्रमाणं मनसि निधायोक्तम्– मनो-जातत्वं तदाश्रयत्वं चेति ।। ‘नेत्राश्रयत्वादि’ इत्यत्रादिशब्देन नेत्रजन्यत्वं ग्राह्यम् । इदं च सिद्धान्तरीत्या । भाष्योक्तं बहुरूपं घटयितुमाह– तथाऽन्यत्रेति ।। ‘सूर्याचन्द्रमसौ दंष्ट्राऽऽ-श्रितौ’ इति भागवत इत्यर्थः । भाष्ये ‘तेषाम्’ इत्यस्य सूर्यादिदेवानामित्यर्थः ।। १९ ।।
गीताक्षरार्थस्तु- अनादीति ।। ‘अनादिमध्यान्तम्’ इत्यत्र परिमाणेतरगुणानन्त्यमेवोच्यते न तु परिमाणानन्त्यम्, तस्य ‘नान्तं न मध्यम्’ इत्युक्तत्वादिति तात्पर्यनिर्णये व्यक्तम् । शशिसूर्यौ नेत्रे यस्य स तथा, तम् इत्यत्र, ‘दीप्तहुताशवक्त्रम्’ इत्यत्र च जन्यजनक-भावेनाश्रयाश्रयिभावेन वाऽभेदोक्तिः । तपन्तं तापयन्तम्् ।। १९ ।।
भावदीपिका
।। अन्यथा व्याख्यानमिति ।। शशिसूर्ययोरेव नेत्रत्वोक्ते ‘विश्वं रूपं यस्य’ इत्येव विश्वरूपशब्दस्य व्याख्येयतया ‘पूर्णरूपः’ इत्यन्यथाव्याख्यानं कथमित्यर्थः । अविभक्तिकेति ।। ‘यस्मात् सुरादयस्तदङ्गजाताः, तस्मात् तदङ्ग’ इति ते देवाः स्तुताः ‘तदङ्गाः’ इति स्तुता इत्यर्थः । सम्बुद्धिर्वेति ।। तथा च तदङ्गजत्वाद् ऋषिभिः ‘हे तदङ्ग’ इति देवाः स्तुता इत्यर्थः । सम्बुद्ध्येकवचनं देवसमुदायापेक्षयेति ज्ञेयम् । ‘नेत्राश्रयत्वादि’ इत्यादिपदेन तज्जन्यत्वं ग्राह्यम् । अन्यत्रेति ।। द्वितीयस्कन्धभागवते इत्यर्थः
।। १९ ।।
भावप्रकाशः
ननु यस्मात्सर्वसुरादयोऽपि तदङ्गजाः तस्मादृषिभिस्तदङ्गानीति स्तुता इति वक्तव्ये तदङ्गेति कथमुक्तमित्यतो द्वेधोपपत्तिमाह– तदङ्गेतीत्यादिना ।। सम्बुद्धिरिति ।। चन्द्रसूर्यादिकमुद्दिश्य प्रत्येकं हे तदङ्गेति सम्बुद्धिरित्यर्थः । दंष्ट्रार्यमेन्दू इति ।। सूर्यचन्द्रौ दंष्ट्राजन्यौ तदाश्रितौ चेत्यर्थः ।। १९ ।।