न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। १४ ।।

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। १४ ।।

भाष्यम्

नच करोति वस्तुत इत्याह– न कर्तृत्वमिति ।। प्रभुर्हि जीवो जडमपेक्ष्य

।। १४ ।।

भावप्रदीपिका

ननु कर्तृत्वकारयितृत्वयोः प्रत्यक्षसिद्धत्वेन यदि नैव करोमीत्यादि मन्यते तर्ह्यसावात्मनि विप्रलिप्सुरित्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतारयति– नचेति ।। करोति कारयति चेत्यर्थः । ननु जीवस्य कर्तृत्वाद्यभावे न तमुद्दिश्य विधिनिषेधौ स्यातामित्यत आह– प्रभुरिति ।। ‘प्रभुविभुशब्दौ विधिनिषेधशास्त्रपरिवृतत्वेन जीवे प्रयुक्तौ’

।। १४,१५ ।।

भावप्रकाशिका

ननु यदि वचनदर्शनादिकर्मवत्येव नवद्वारे देहे ‘नाहं वच्मि, न पश्यामि, न श्रावयामि शिष्यान्’ इत्यभिमत्यैवाकुर्वन्न कारयंश्चास्ते । तर्ह्यसौ विप्रलम्भकः किं न स्यात् ? इत्याशङ्कापरिहारत्वेनोत्तरं श्लोकद्वयमवतारयति– नचेति ।।। चशब्दान्न कारयति च । तथाहि । कर्माणि न सृजतीति न करोतीत्यर्थः । कर्तृत्वं लोकस्य न सृजतीति न कारयतीत्यर्थः । यत एवं न कर्ता न च कारयिता, अतः कर्मफलसंयोगं न कस्यापि सृजत स्वमन्यं च सुखदुःखाभ्यां न स्वयं संयोजयतीत्यर्थः । तथाऽपि न तस्य कर्मयोगे प्रवृत्त्यभावः शङ्कनीय इत्युच्यते– स्वभावस्त्विति ।। स्वः स्वतन्त्रः परमात्मा । तेनैव सदा स्वयं भवति भावयति चान्यानिति स्वभावः संन्यासी । प्रतिबिम्बसत्ताक्रिययोर्बिम्बाधीनत्वात् । तुशब्दात् सर्वेषां स्वभावत्वेऽप्ययं जानन्नेव प्रवर्तत इति विशेषः ।।

यद्वा स्वतन्त्रं भावयति ध्यायतीति स्वभावः । स्वतन्त्रः परमात्मैव सर्वं करोति, तेनैवाह विहितकृदित्युच्यते तत्प्रसादादिति भावयन्नेव स्वविहितकर्मयोगे प्रवर्तते । एवं ध्यायन् कर्तृत्वेन कारयितृत्वेन वा स्वविहितकर्मयोगे प्रवर्तमानो न कस्यापि पापं पुण्यं वाऽऽदत्ते ।

ननु यद्यात्मनः परः स्वतन्त्रोऽन्यः कर्ताऽस्ति, यत्कर्तृंके कर्मणि ‘अहं करोमि’ इत्यभिमन्यते जीवः, तर्हि कथं तं सर्वे न पश्यन्ति ? इत्यत उच्यते– अज्ञानेनेति ।। इति श्लोकद्वयार्थः । नन्वेवं जीवपरमौ विविच्य, जीवकर्तृत्वस्यैव निषेधे प्रभुशब्दः कथं तत्रेत्यत आह –प्रभुर्हीति ।।

एतेन ‘विभु’शब्दार्थोऽपि सोऽवगन्तव्यः । जडापेक्षया विशिष्टभवनत्वात् ।। १४,१५ ।।

प्रमेयदीपिका

ननु ‘न कर्तृत्वम्’ इत्येतत् प्रागुक्तान्न विशिष्यत इत्यत आह – नचेति ।। दर्शनादिकं कुर्वन्नेव ‘नैव किञ्चित् करोमीति मन्येत’ इत्युक्तम् । तर्हि ‘मिथ्या-ज्ञानी प्रसज्येत’ इत्याशङ्कानिरासाय परमेश्वरप्रेरितः कुर्वन् कारयन् अपि वस्तुतः स्वातन्त्र्येण न करोति न कारयति च इति अनेन आहेत्यर्थः । अस्य जीवविषयत्वे प्रभुः इत्येतन्न सम्भवति इत्यत आह – प्रभुर्हीति ।।

अनेन ‘विभुः’ (५.१५) इत्येतदुपपादितप्रायम् ।। १४,१५ ।।

भावदीपः

।। प्रागुक्तादिति ।। ‘नैव किञ्चित्करोमि’ इत्यादिना प्रागुक्ता-दित्यर्थः ।। १४ ।।

भावरत्नकोशः

।। प्रागुक्तात् ‘नैव कुर्वन्न कारयन्’ इति प्रागुक्तात् । ‘जीव-लोकस्य कर्तृत्वं न सृजति’ इत्यनेन कारयितृत्वस्य, ‘यः कर्माणि न सृजति’ इति कर्तृत्वस्य च निषेधे ‘नैव कुर्वन्न कारयन्’ इत्युक्तादधिकं नात्रोच्यत इति भावः । मन्येतेत्युक्तम् इत्यनन्तरं ‘तथा नैव कुर्वन्न कारयन् इत्यपि’ इति संयोज्यम् । टीकायाम् ‘इत्यादिशङ्का’ इति आदिशब्दप्रयोगात् ‘कुर्वन् कारयन्नपि’ इत्यनुवादाच्चेति केचित् । ‘वस्तुतः’ इत्यस्य व्याख्यानम् स्वातन्त्र्येणेति । भाष्यगतचशब्दसमुच्चेयमाह– न कारयति चेतीति ।।

भाष्ये अपेक्ष्य ‘उच्यते’ इति शेषः । हिशब्दश्चेतनत्वादियुक्तिसिद्धतां प्रभवस्याहेति व्याख्यानं द्रष्टव्यमिति भावः । विभुरित्येतदिति । ‘पदं ‘न चैवं सुकृतं विभुः’ इत्युत्तरश्लोकस्थम्’ इति शेषः । प्रभुशब्दस्याहत्यानुपादानात् ‘प्रायम्’ इत्युक्तम्, समानन्यायत्वादिति भावः ।। १४ ।।

गीताक्षरार्थस्तु - दर्शनादिकं कुर्वन्नेव ‘नैव किञ्चित्करोमि’ इति मन्येत इत्युक्तम्, ‘नैव कुर्वन् न कारयन्’ इति च । तर्हि मिथ्याज्ञानी प्रसज्येत ? ‘न कारयन्’ इति वदन् मिथ्यावादी ।प्राचीनटीकारीत्या ‘विप्रलम्भकश्च स्यात्’ इति शङ्कानिरासाय परमेश्वरप्रेरितः कुर्वन् कारयन्नपि स्वातन्त्र्येण न करोति न कारयति चेति प्रतीतिव्यवहारौ युक्ताविति भावेनेदमुच्यते– न कर्तृत्व-मिति । जडमपेक्ष्य प्रभुः इत्युच्यमानो जीवो न कर्माणि सृजति स्वातन्त्र्येण न करोति, लोकस्य कर्तृत्वं न सृजति, लोके न किमपि रथप्रासादादिकं स्वातन्त्र्येण कारयति । यत एवं न करोति न कारयति, अतः कर्मफलसंयोगं न कस्यापि सृजति । स्वात्मानं लोकं वा कर्मफलाभ्यां सुखदुःखाभ्यां न संयोजयति ।

एवं कर्तृत्वकर्मफलादेरभावे पुरुषो न कर्मयोगे प्रवर्तेत इति न शङ्कनीयमित्युच्यते– स्वभाव इति । स्वः स्वतन्त्रः परमात्मा । तेनैव सदा स्वयं भवति भावयति चान्यानिति स्वभावः संन्यासी । प्रतिबिम्बसत्ताक्रिययोर्बिम्बाधीनत्वात् तुशब्दः । सर्वेषां स्वभावत्वेऽपि अयं स्वभावत्वं जानन्नेव प्रवर्तत इति विशेषार्थः । स्वं स्वतन्त्रं भावयति ध्यायतीति वा स्वभावः । स्वतन्त्रः परमात्मैव मद्गतः सर्वं करोति, नाहं स्वातन्त्र्येण किञ्चित्करोमि । तत्प्रसादायत्तकर्मणैवाहं विहितकृदित्युच्यत इति भावयन्निति यावत् । स एव स्वविहितकर्मयोगे प्रवर्तते ।।

अनेन यदुक्तम् ‘जीवस्य कर्तृत्वफलसम्बन्धयोरभावे कर्मयोगे स न प्रवर्तेत’ इति तन्निरस्तम् । स्वातन्त्र्याभावविवक्षयैवाकर्तृत्वस्याभ्युपगतत्वेन भगवदधीनतया कर्तृत्वोपपत्त्या फलसम्बन्धस्य सम्भवेन तत्र प्रवृत्तेरनौचित्याभावादिति । तथा चोक्तम्

स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् ।

 एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ।।’ इति ।

अस्वतन्त्रेऽपि कर्तृशब्दप्रयोगः फलसम्बन्धश्चास्तीति, एवमक्षरयोजना प्राचीनटीकायां कृता ।

गीताविवृतौ तु जीवो लोकस्य कर्तृत्वं लोकेन कर्म न सृजति न कारयति स्वातन्त्र्येणेत्यर्थः । स्वयं च कर्माणि न सृजति न करोति । कर्मणि स्वातन्त्र्यं न चेत्, फले नास्तीति किमु वाच्यम् इत्युच्यते न कर्मेति । ‘सृजतीत्यनुषङ्गः’ इत्युक्त्वा चतुर्थपाद उक्तार्थ एव व्याख्यात इति ।। १४ ।।

भावदीपिका

।। न करोतीति ।। तथाच न मिथ्याज्ञानित्वमिति भावः ।। विभुरितीति ।। उत्तरश्लोकगतं विभुपदमपीत्यर्थः ।। १४-१५ ।।

भावप्रकाशः

।। प्रागुक्तादिति ।। नैव कुर्वन्न कारयन्निति प्रागुक्तादित्यर्थः । जीवो लोकस्य कर्तृत्वं न सृजतीत्यनेन कारयितृत्वस्य स्वयं च कर्माणि न सृजतीत्यनेन कर्तृत्वस्य च निषेधादिति भावः । विभुरित्येतदिति ।। उत्तरश्लोकस्थमिति शेषः ।। १४ ।।