यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षमर्षभयोद्वेगैर्मुक्तो य स च मे प्रियः ।। १५ ।।

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।

हर्षमर्षभयोद्वेगैर्मुक्तो य स च मे प्रियः ।। १५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– किञ्च, ‘यस्मात्’ इति ‘भीत्रार्थानां भयहेतुः’ इत्यपादानता । नोद्विजते उद्वेगं न प्राप्नोति । ‘हर्षमर्षाभयोद्वेगैः’ इत्यत्र हर्षः प्रियलाभे अन्तःकरणस्योन्नाहः । अमर्षः असहिष्णुता, भयं त्रासः, उद्वेगः मनोवैकल्यम्, तैर्मुक्तः, चशब्दात् ‘भक्तश्च’ इति समुच्चीयते ।। १५ ।।