तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ।। ४४ ।।

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्

।। ४४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु यत एवं तस्मात् कायं प्रणिधाय दण्डवन्निपात्य प्रणम्य भक्तिश्रद्धाद्यतिशयेन नत्वा ईड्यं स्तुत्यं त्वां प्रसादये प्रसादोन्मुखं करोमि । सख्युः मित्रस्यापराधं सखा निरुपाधिकसख इव, ‘प्रियाया अर्हसि’ इति वक्तव्ये ‘प्रियायार्हसि’ इत्यार्षः सन्धिः । सोढुं क्षन्तुम् अर्हसि ‘अपराधम्’ इति शेषः ।। ४४ ।।