पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ।। ९ ।।

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ।। ९ ।।

भावरत्नकोशः

पुण्यो गन्धः शुचिः सुरभिर्गन्धः, विभावसौ अग्नौ तेजो दीप्तिः, जीवनं प्राणधारणम्, तपः कृच्छ्रादि ।। ९ ।।