अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।। २६ ।।

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।। २६ ।।

भाष्यम्

सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः । ‘प्रीतिः सुखं कम् आनन्दः’ इत्यभिधानात् । ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति च ।

ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैः बिभर्ति जायमानं च पश्येत् ।

 सुखादनन्तात् पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्ति’

इति च बाभ्रव्यशाखायाम् ।। २६ ।।

भावप्रदीपिका तं कपिलं ऋषिं ज्ञानिनं पश्येत् । योऽग्रे प्रसूतं जायमानं च ब्रह्माणं ज्ञानैः बिभर्ति पुष्णातीत्यर्थः ।।

प्रमेयदीपिका

‘सिद्धानां कपिलो मुनिः’ इति कपिलशब्दं व्याचष्टे– सुखेति ।। सुखरूप इति कः । पाल्यते जगदनेनेति पिः । ‘पा रक्षणे’ इत्यतः किः । लीयते जगदनेनेति लः ।‘लीङ् शेषणे’ इत्यस्मात् डः, ‘ला आदाने’ इत्यतो वा कः । ततः कर्मधारयः । कशब्दस्य सुखवाचित्वेऽभिधानं प्रयोगं च पठति– प्रीतिरिति ।। समग्रार्थे श्रुतिमाह– ऋषिमिति ।। तं भगवन्तम् ऋषिं कपिलं च पश्येत् । कथमृषिः सर्वज्ञत्वादित्युच्यते । यः प्रसूतं पूर्वकल्पेषु जातम् । जायमानं वर्तमानं च,एवमागामि च जगत् ज्ञानैः बिभर्ति जानातीति यावत् । कथं कपिलः? इत्यत उक्तम्– सुखादिति ।। ‘यत्’ शब्दद्वयस्य तम् इत्यनेनान्वयः ।। २६ ।।

भावबोधः

।। किरिति ।। आतो लोप इटि चेत्याकारलोपः । ड इति ।। डित्वाट्टेर्लोपः । क इति ।। आतो लोप इत्याकारलोपः ।। २६ ।।

भावदीपः

।। किरिति ।। कित्वात् ‘आतो लोपः’ इति वेत्यकारलोप इति भावः ।। ड इति ।। डित्त्वात् टिलोपः ।। क इति ।। आतो लोपे रूपमिति भावः । कश्चासौ पिश्चासौ लश्चेति कर्मधारय इत्यर्थः ।। २६ ।।

वाक्यार्थप्रदीपः

।। किरिति ।। ‘आतो लोप इटि च’ इति आकारलोप इति भावः ।। ड इति ।। डित्त्वाद् टिलोप इति भावः ।। क इति ।। ‘आतो लोप इटि च’ इति आकारलोप इति भावः ।।

भावरत्नकोशः

‘सुखरूपः’ इत्यनन्तरं भाष्ये ‘कपिलः’ इति निर्देशघटनाय शेषमाह– इति क इति ।। किः औणादिकः । ततश्च ‘आतो लोप इटि च’ इत्याकारलोप इति भावः । यद्यपि ‘पाल्यते’ इति भाष्ये ‘पाल रक्षणे’ इति धातुर्गृहीतः । तथापि ‘पा रक्षणे’ इत्यस्यार्थानुवाद इति भावेन ‘पा रक्षणे’ इत्यतः ‘किः’ इत्युक्तमिति केचित् । वस्तुतस्तु ‘पा रक्षणे’ इत्यस्य ‘णौ’ इति वर्तमाने ‘पातेर्लुग्वक्तव्यः’ इति णिचि परतो लुगागमे, कर्मणि यकि च, ‘पाल्यते’ इति रूपमिति भावेन एवमुक्तम् । ‘लीङ् श्लेषणे’ इत्यत्र श्लेषणम् स्वस्वकारणेषु मेलनं स्वोदरसंश्लिष्टतापादनमर्थः । तस्माद्धातोः ‘विभाषा लीयतेः’ इत्यात्वे ‘अर्तिह्री...’ इति आत्वेन पुगागमे, ल्युटि ‘लापनात्’ इति भाष्ये रूपम् । ‘लायनात्’ इति क्वचित् पाठः । तत्र दीर्घत्वं छान्दसमिति आहुः । ‘ला आदाने’ इत्यत्र आदानम् आत्मनियम्यतापादनम् । एकत्र टिलोपः, अपरत्राल्लोप इति भावः । कर्मधारयः ‘कश्चासौ पिश्चासौ लश्च’ इति कर्मधारयः ।

यद्यप्यभिधाने कशब्दो नपुंसकलिङ्गो निर्दिष्ट इति ‘सुखरूपम्’ इति ‘कम्’ इत्येवानुवादः कर्तव्यः । तथापि ‘कं सुखं स्वरूपत्वेनास्यास्ति’ इति ‘अर्शआदिभ्यः’ इति मत्वर्थीयाच्प्रत्यये ‘कः’ इति रूपमिति द्योतयितुं भाष्ये ‘सुखम्’ इति वक्तव्ये ‘सुखरूपः’ इति पुंलिङ्गप्रयोग इति तदनुसारेणैव ‘कः’ इति पुंलिङ्गोऽनूदितः । ‘कं ब्रह्म’ इति श्रुतौ कशब्दः ‘सुखविशिष्टाभिधाना-देव च’ इति सूत्रे सुखार्थो व्याख्यात इति प्रकृतसिद्धिः । समग्रार्थे ‘कपिलशब्दस्योक्ते’ इति शेषः । चशब्दसमुच्चेयमाह– आगामि चेति ।। कथमनेन सार्वज्ञ्यलाभ इत्यत उक्तम्– जानातीति यावदिति ।। यच्छब्दद्वयस्य ‘यो ज्ञानैः बिभर्ति’, ‘यं च पश्येत््’ इति यच्छब्दद्वयस्य ।।

अश्वत्थ इति ।। सर्ववृक्षाणां मध्ये अश्वत्थः अस्मि । देवर्षीणां देवा एव सन्तोऽपि ऋषित्वं प्राप्ताः, तेषां नारदः अस्मि । चित्ररथनामा गन्धर्वः । सिद्धानां जन्मनैव सिद्धानां धर्मज्ञानवैराग्य ऐश्वर्याद्यतिशयशालिनां मध्ये कपिलः । कं सुखम्, तदेव रूपमस्यास्तीति कः । ‘पाल्यते जगदनेन’ इति पिः । ‘पा रक्षणे’ इत्यतः किः । ‘लीयते जगदनेन’ इति लः । ‘लीङ् श्लेषणे’ इत्यस्मात् डः । ‘ला आदाने’ इत्यतो वा कः । ‘कश्चासौ पिश्चासौ लश्च’ इति कर्मधारये कपिलोऽस्मि इति प्रत्यक्षविभूतिः ।। २६,३० ।।

भावदीपिका

।। किरिति ।। तथा च ‘पा रक्षणे’ अस्मात् किप्रत्यये, ककारलोपे, कित्त्वाद् ‘आतो लोप इटि च’ इति धात्वाकारलोपे, ‘प् इ पि’ इति रूपम् । ड इति ।। तथा च ‘ली श्लेषणे’ अस्माद् डप्रत्यये, डित्त्वात् टीभूतस्य ईकारस्य लोपे, प्रत्ययाकारसम्बन्धे च सति ‘ल’ इति रूपम् । क इति ।। कित्त्वाद् ‘आतो लोप इटि च’ इति धात्वाकारलोपे, प्रत्ययाकारसम्बन्धे ‘लः’ इति रूपम् । तत इति ।। ‘कश्चासौ पिश्चासौ लश्चेति कपिलः’ इति कर्मधारय इत्यर्थः । ‘अग्रे’ इत्यस्यार्थः पूर्वकल्पेष्विति ।। तमित्य-नेनेति ।। ‘यो ज्ञानैर्बिभर्ति तमृषिं पश्येत्, यं सुखादिनिमित्तात् कपिलमुदाहरन्ति तं कपिलं पश्येत्’ इति यच्छब्दद्वयस्य ‘तम्’ इत्यनेनान्वयो द्रष्टव्यः ।। २६,३० ।।

भावप्रकाशः

।। किरिति ।। कित्वादातो लोप इटि च इत्याकारलोप इति भावः । पश्येदिति ।। जानीयादित्यर्थः ।।