पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ।।१५।।

अर्जुन उवाच–

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ।।१५।।

भावरत्नकोशः

गीताक्षरार्थस्तु- ‘धनञ्जयोऽभाषत’ इत्युक्तभाषणमेव विविच्योच्यते– अर्जुन उवाच .... पश्यामि इत्यादि सप्तदशभिः । तत्रापि दृष्टविश्वरूप-स्यार्जुनस्य दृष्टानुवादव्याजेन स्तवनप्रकार उच्यते– पश्यामीति ।। देव , स्तुत्य, भूतविशेषाः प्राणिभेदाः ब्रह्माणं चतुर्मुखं कमलासनस्थं कमलासने ब्रह्मणि स्थितम् ईशं रुद्रं दिव्यान् लोकविलक्षणान् उरगान् वासुकिप्रभृतिसर्पान् तव देहे पश्यामि ।। १५ ।।