यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ३० ।।
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ३० ।।
भाष्यम्
फलमाह– यो मामिति ।। तस्याहं न प्रणश्यामि इति । सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः । एवं भृत्येऽप्यभजत्यभृत्य इति हि प्रसिद्धिः । उक्तं च
‘सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति ।
अचला तस्य भक्तिस्स्यात् योगक्षेमं वहाम्यहम्’ इति गारुडे ।। ३० ।।
भावप्रदीपिका
नन्वेवं सर्वगतत्वेन परमात्मोपासने किं फलम् ? इत्यत उत्तरश्लोकमवतारयति– फलमिति । एवं भृत्येऽपि ‘अभजति’ इति शेषः । व्यतिरेक-दृष्टान्तोऽयम् ।। ३० ।।
भावप्रकाशिका
‘आत्म’शब्दोक्तं भगवन्तमेवास्मच्छब्देन परामृश्य तज्ज्ञानिनः फलाभिधानाच्च पूर्वोक्त आत्मा भगवानेवेत्यभिप्रायेणोत्तरं श्लोकमवतार्य व्याचष्टे– फलमिति । ननु सतामेव कार्यविशेषाकारित्वेनासत्वव्यवहारः क्व दृष्टः ? येन विद्वद्भगवतोरेव परस्परं प्रत्यनाशित्वं स्यादित्यत आह– सत्यपीति । भृत्येऽपि ‘अभजति’ इति शेषः । न केवलं दृष्टान्तमात्रेणैतदुपपादितमित्याह– उक्तं चेति । न च तस्याहं न परोक्षीभवामि, स च मे न परोक्षीभवतीति व्याख्येयम् । देशकालादिभिरविलुप्तावबोधात्मकत्वात् भगवतः को परोक्षीभवति, तमृते सर्वेषामिति, तद्रूपत्वात् सोऽपि न कस्यापि परोक्षीभवेदिति विशेष-प्रतिषेधानुपपत्तेः ।। ३० ।।
प्रमेयदीपिका
किञ्चैतदर्थानुवादेन फलप्रतिपादकमुत्तरवाक्यमप्यस्य भगव-द्विषयत्वं ज्ञापयतीति भावेनाऽह– फलमिति ।। अस्य ‘ध्यानविषयस्य’ इति शेषः ।। ननु भगवान्, तद्ध्यायी च सर्वान् प्रति नित्यौ । तत्कथमेतत् ? इत्यत आह– तस्येति ।। कथमयमर्थो लभ्यते? इत्यत आह– सत्यपीति ।। अविद्यमाननाथोऽयमिति भृत्ये प्रसिद्धिः । एवं सत्यपि भृत्येऽभजति ‘अविद्यमानभृत्योऽयम्’ इति स्वामिनि प्रसिद्धिः ।। एतदुक्तं भवति । विद्यमानस्यापि स्वयोग्यव्यापाराकरणसादृश्यादुपचारेण अविद्यमानता । प्रकृते तु तथात्वा-भावात् न प्रणश्यामीत्यादि । रूढोपचारश्चायम् । अतो न प्रयोजनान्वेषणमिति ।। अत्र पुराणसम्मतिमाह– उक्तं चेति ।। ३० ।।
भावदीपः
।। तथात्वाभावादिति ।। अरक्षणाभजनयोरभावात् न प्रणश्यामि इत्याद्युक्तिः गीतायामित्यर्थः ।।
भावरत्नकोशः
।। अस्य ‘सर्वभूतस्थमात्मानम्’ इत्यत्रात्मशब्दस्य । ‘अस्य’ इत्यस्य विवरणम्– ध्यानविशेषस्येति । सर्वभूतस्थत्वादिप्रकारकस्येत्यर्थः । कथमेतदिति । अप्रणाशो ध्वंसाप्रतियोगित्वं नित्यत्वं सर्वान् प्रत्यस्तीति ‘तस्याहम्’, ‘स च मे’ इति भगवतो योगिनश्च परस्परं नित्यत्ववचनं कथमित्यर्थः । ‘अरक्षति’ इत्यस्य प्रतियोगिभूतं शेषमाह– अभजतीति । ‘स्वामिनि’ इत्येतदत्राप्यनुकृष्यत इति भावेनोक्तं– स्वामिनीति । ‘कया वृत्त्याऽयमर्थो लभ्यते’ इति कृतचोद्ये कः परिहारः उक्त इत्यत आह– एतदुक्तं भवतीति । सादृश्यादिति । अनेन ‘प्रणश्यामि’ इत्यादेर्गौणी वृत्तिरिति विभावितं भवति । तथात्वाभावात् अरक्षणकर्तृत्व-अभजनकर्तृत्वयोरभावात् । प्रसिद्धिपदोपादानलब्धमर्थमाह– रूढेति । अत्र ‘न प्रणश्यामि’ इत्यस्य ‘योगक्षेमवहो भवामि’ इत्यर्थकत्वेन केवलमेव तत् लोकन्यायगम्यम्, पुराणे कथितं चेति भाष्ये चशब्द इति प्राचीनटीका ।।
सर्वभूतस्थत्वादिप्रकारकध्यानविशेषस्य फलमुच्यते– यो मामिति । यो ध्यानयोगी सर्वत्र ब्रह्मादितृणान्तेषु समं मां यः पश्यति मयि च सर्वं ब्रह्मादि जगत् पश्यति, तस्याहं न प्रणश्यामि सर्वदा योगक्षेमवहः स्याम्, स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति ।। ३० ।।
भावदीपिका
।। ध्यानविशेषस्येति ।। उत्तमाधिकारिभिः क्रियमाणस्योक्त-ध्यानविशेषस्येत्यर्थः ।। सर्वान् प्रतीति ।। तथा च ‘तस्य’ ‘मे’ इत्यनुपपन्नमित्यर्थः । विद्यमानस्यापीति ।। स्वामिनो भृत्यस्य वेत्यर्थः । स्वयोग्येत्यादि ।। स्वयोग्यव्यापाराकरण-रूपादविद्यमानतासादृश्यादित्यर्थः । अविद्यमानता अविद्यमानता व्यवहार इत्यर्थः । तथात्वाभावा-दिति ।। स्वयोग्यव्यापाराकरणाभावादित्यर्थः । भगवान् स्वयोग्यव्यापारं योगक्षेमाख्यं करोति । अयं च योगारूढः स्वयोग्यव्यापारं भगवद्भक्त्यादिरूपं करोति इति अविद्यमानतासादृश्याभावात् ‘न प्रणश्यामि’ इत्याद्युपपन्नमिति भावः । उपचारप्रयोगे किं प्रयोजनमित्यत आह– रूढेति ।। अत एव ‘सत्यपि’ इत्यादिलौकिकोदाहरणं प्रदर्शितमिति ध्येयम् ।। ३० ।।
भावप्रकाशः
नन्वेतावता शब्दस्य का वृत्तिरुक्तेत्यत आह– एतदुक्तं भवतीति ।। न प्रणश्यामीत्यादीति । अनेन प्रणश्यामीत्यादेः गौणीवृत्तिरिति सूचितम् ।। ३० ।।