द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ।।२०।।
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ।।२०।।
भावरत्नकोशः
गीताक्षरार्थस्तु द्यावापृथिव्योरिति ।। द्यावापृथिव्योरिद-मन्तरम् एकेनैव रूपेण त्वया व्याप्तम्, सर्वाः दिशश्च रूपान्तरैः व्याप्ताः । ‘त्वया’ इत्यनेनैक-त्वस्य सिद्धावपि ‘एकेन’ इत्युक्तिः ‘अन्तरिक्षव्यापिरूपमेकम्, दिग्व्यापिरूपाणि बहूनि’ इति विवेकप्रत्यायनार्था । तथा च श्रुतिः ‘द्यावापृथिव्योरन्तरङ्गः स एकरूपेण चान्यैः सर्वगतः स एकः’ इति । हे महात्मन् अक्षुद्रविग्रह तव इदमुग्रं भयङ्करम् अद्भुतं रूपं दृष्ट्वा लोकत्रयं लोकत्रयस्थितविश्वरूपदर्शनयोग्यप्रतिबन्धकहीनभक्तजनाः प्रव्यथितं भगवतः किञ्चिदुग्रत्वात् तद्दर्शिनां भयं समुत्पतितम् । यद्वा विश्वरूपदर्शनार्थं यतमानानां लोकत्रयस्थानां पुंसां तददृष्ट्वाऽपि मनसाऽनुसन्धाय स्थितानां भये जाते सति तद्द्रष्टाऽर्जुन ‘अहमिवैतेऽपि दृष्ट्वा बिभ्यति’ इति बुद्धिर्जाता । अतो ‘लोकत्रयं दृष्ट्वा प्रव्यथितम्’ इत्याहेति योज्यम् । अत्र ‘दृष्ट्वाऽद्भुतम्’ इत्यादिना विश्वरूपदर्शनस्य यद्भयहेतुत्वमावेदितं तत् न सर्वेषां सर्वदा, किन्तु केषाञ्चित्, कारणवशादेव । तथा च श्रुतिः ‘प्रीयन्ति केचित्तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः’ इति । एवं तद्दर्शनस्य भयहेतुत्वनियमाभाव इव लोकत्रयस्य दर्शन-नियमाभावोऽपि द्रष्टव्यः । तथा च तात्पर्यनिर्णये
त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शितम् ।
दृष्टं विष्णोः विश्वरूपं स्वयोग्यत्वानुरूपतः ।।
प्रायः सहैव पार्थेन प्रायो भीताश्च तेऽखिलाः ।
दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकदा भवेत् ।।
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात्् ।
उग्रत्वमिव सर्वत्र न भीतिर्ब्रह्मदर्शिनाम् ।।
अजुन•दधिका ये तु तेषां भीतिर्न चाभवत् ।
श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः ।। इति ।। २० ।।