तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। १० ।।

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। १० ।।

भावरत्नकोशः

य एवं भजन्तः तेषां सततयुक्तानां नित्याभियुक्तानां नित्यं मयि निबद्धमनसां प्रीतिपूर्वकं भक्तिपूर्वकं भजतां सेवमानानां ध्यायतां बुद्धियोगम् अपरोक्ष-ज्ञानरूपम् उपायं प्रीतिपूर्वकं ददामि न तु प्रसभात् । येन बुद्धियोगेन मामुपयान्ति ते

।। १० ।।