एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ।। २२ ।।
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ।। २२ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु एतत्त्यागे किं स्यात् इत्यत उच्यते– एतैरिति ।। तमोद्वारैः तमःप्रापकैः एतैः कामक्रोधरूपैः त्रिभिः दोषैः विमुक्तो विशेषेणास्पृष्टः, स च आत्मनः श्रेयः निःश्रेयसः साधनं श्रवणमननादिजन्यज्ञानरूपम् आचरति सम्पादयति । ततः पराम् अखिलक्लेशनिवृत्तिविशिष्टपरमानन्दानुभवरूपां गतिं याति च ।
अत्रेदं वेदितव्यम् ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिना यानि देवलक्षणानि, यानि च ‘दम्भो दर्पोऽभिमानश्च’ इत्यादिना असुरलक्षणान्यभिहितानि, अभिहिते च प्रातिस्विके फले ‘मा शुचः सम्पदं दैवीम्’ इति, ‘निबन्धायासुरी’ इति, ‘ततो यान्त्यधमां गतिम्’ इति चापवर्गान्धतमसे, तत्र कानिचिद् देवलक्षणान्यसुरेषु, असुरलक्षणानि देवेषु च दृश्यन्त इति च तत्तत्फलं तत्रतत्र विनिमयेन स्यात् । तदयुक्तम् । दानवास्तु तमोलया इति, ‘देवानां निरयो नास्ति तमश्चापि कथंचन’ इत्यादिवचनविरोधात् । किञ्च कामक्रोधलोभानाम् आत्मनाशापरपर्यायनित्यनिरय-प्रापकत्वमुच्यमानमयुक्तम् । देवेष्वपि कामादिदर्शनेन तेषामपि आत्मनाशाख्यफलापत्तेः, इति चेत् ।
अत्रोच्यते । यत्तावदुक्तम् ‘देवेष्वासुरलक्षणं दृश्यते’ इति, सत्यं दृश्यत इति । किन्तु नासुरभावः तेषां देवत्वस्वभावनिवर्तकः । स्फटिकशौक्ल्यानिवर्तकलौहित्यवत् दुर्जनसङ्गादिना प्राप्तस्य तस्य औपाधिकत्वात् औपाधिकस्य च तस्य सच्छास्त्रोपदेष्टृसज्जनसङ्गत्यादिशुभकारणेन दुष्टलक्षणस्य प्रहाणे देवत्वमेव युक्तम् । श्रूयते च शापादिना प्राप्तासुरभावादीनामपि प्रह्लादादीनां स्वतो देवानाम् औपाधिकसुखप्रहाणेन नैजो देवभावः । एवमेव असुरेष्वपि यत्किञ्चित् दयादि देवलक्षणं दृश्यते तस्यापि मनोगतस्य औपाधिकस्य सर्वथा प्रहाण एव नैजासुरत्वप्राप्त्या तमःप्रवेशः ‘इतरस्याप्येवमसंश्लेषः पाते तु’ इति भगवता सूत्रकारेणाभिहितः ।
यदपि ‘किञ्च कामक्रोधलोभानाम्’ इत्याद्युक्तम्, तत्र ब्रूमः । न यादृशतादृशकामादीनाम् आत्मनाशलक्षणतमःप्रापकत्वम् , किन्तु
‘अयोग्येशत्वकामाच्च लोभाच्चात्मसमर्पणे ।
तत्त्ववेदिषु कोपाच्च तमस्तेषां न दुर्लभम् ।।’
इति शास्त्रावेदितदुष्टकामानामेव । तत्र ‘ब्रह्मभावो ममास्तु’ इति दुष्टेच्छा गीतोक्तकाम-शब्दार्थः ।
‘अनाद्यनन्तकालेषु मुक्तौ संसार एव च ।
मयिस्थश्चोदयत्येको विष्णुर्मां सर्वदैव तु ।
इति सप्रीतिकं ज्ञानं विद्यादात्मसमर्पणम् ।।’
इति शास्त्रावेदितात्मसमर्पणे अकरणेच्छालोभशब्देन विवक्षितः । ‘स्वस्मिन्नपि तथाऽ-न्यस्मिन् नियन्ता भगवानस्ति’ इति जानन्तः तत्त्ववेदिनः, तेषु कोपः क्रोधशब्दार्थतयाऽभिमत इति तेषामेवान्धतमसः प्रापकत्वम् । सज्जनेषु दृश्यमानकामक्रोधलोभानां तु औपाधिकानां नरकमात्रप्रापकत्वम् । तथाविधानां च तेषां निःशेषतया निवृत्तावेव भगवान् स्वात्मानं प्रदर्श्य तान् मोचयति, इत्ययमर्थः
‘निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हरेः........ ।।’
‘पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’, ‘स बिम्बदर्शन एवैनं मोचयति’
इत्यादि शास्त्रसिद्ध इति । मा शुचः । ‘सम्पदं दैवीम्, ‘एतैर्विमुक्तस्ततो यान्ति परां गतिम्’ इति च गीताचार्येणोपदिष्टमिति ।। २२ ।।