भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।। २९ ।।
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।। २९ ।।
।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः ।। ५ ।।
भाष्यम्
ध्येयमाह– भोक्तारमिति ।। २९ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः ।। ५ ।।
भावप्रदीपिका
ध्यानस्य ध्येयसापेक्षत्वात् किं ध्येयमित्याशङ्क्य, उत्तरश्लोक-मवतारयति– ध्येयमिति । ‘ज्ञात्वा’ इत्यस्य ध्यात्वेत्यर्थः ।। २९ ।।
।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीमद्भगवद्गीताभाष्यभावप्रदीपिकायां पञ्चमोऽध्यायः ।।
भावप्रकाशिका
ध्यानस्य ध्येयसापेक्षत्वात् तमुत्तरश्लोकेनाचष्टे, न ज्ञेय-मात्रमिति भावेनाह– ध्येयमिति ।। ध्यानं नाम निरन्तरमेकविषयः ज्ञानसन्तानः । ततश्च ‘ज्ञात्वा माम्’ इत्यस्य ध्यात्वा मामित्यर्थ उक्तो भवति ।। २९ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां
श्रीनरहरितीर्थभट्टारककृतौ भावप्रकाशिकायां पञ्चमोऽध्यायः ।।
प्रमेयदीपिका
भगवज्ज्ञानस्य शान्तिसाधनत्वं पुनः किमर्थमुच्यते? इत्यत आह– ध्येयमिति ।। ततश्च ज्ञात्वा इत्यस्य ‘ध्यात्वा’ इत्यर्थः । शान्तिसाधनज्ञानत्वमपि भोक्तृत्वादिवद् ध्येयविशेषणमेवेति भावः ।। २९ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां पञ्चमोऽध्यायः समाप्तः ।। ५ ।।
भावदीपः
नन्वेवमपि ‘ध्यात्वा शान्तिमृच्छति’ इति ध्यानफलमेव प्राप्तम् , नतु ध्येयमहिमेत्यत आह–शान्तिसाधनज्ञानत्वमपीति ।। २९ ।।
।। इति श्रीमद्गीताभाष्यटीकाभावदीपे राघवेन्द्रयतिकृते पञ्चमोऽध्यायः ।।
भावरत्नकोशः
।। पुनरिति ।। ‘स शान्तिमाप्नोति न कामकामी’, ‘निर्ममो निरहङ्कारः स शान्तिमधिगच्छति’ इति द्वितीये, ‘श्रद्धावान् लभते ज्ञानं मत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति’ इति चतुर्थे च भगवद्ध्यानस्य शान्तिसाधनत्वमुक्तमिति ‘पुनः’ इत्युक्तम् । ध्येयं ध्यानकर्माहेति भाषितम् । न चात्र ध्यानवाचकं पदमस्ति इत्यत आह– ततश्चेति ।। ध्यानं नाम निरन्तर एकविषयकज्ञानसन्तानः । ततश्च ‘ज्ञात्वा’ इत्यस्य ‘ध्यात्वा’ इत्यर्थो युक्त एवेति भावः । नन्वेवं सति ‘मां ध्यात्वा शान्तिमृच्छति’ इति ध्यानस्य मोक्षफल-कत्वमुक्तं स्यात् । तदयुक्तम् । तस्य ज्ञानसाध्यतायाः ‘तमेवं विद्वानमृत इह भवति’ , ‘दृष्ट्वैव तं मुच्यते नापरेण’ विद्यैव तु निर्धारणात्’ इत्यादौ स्थितत्वात् । अतो ‘ज्ञात्वा माम्’ इति यथाश्रुतमेव साधु । तथा च सङ्करः ‘समाहितचित्तेन विज्ञेयमत्रोच्यत इति’ इत्यत आह– शान्तिसाधनत्वमपीति ।। ‘चक्षुश्चैवान्तरे भ्रुवोः’ इत्यादि ध्यानाङ्गोक्त्या, ‘अथेदानीं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गं विस्तरेण भगवानुपदिशति’ इति सङ्करेण भाषितत्वेन च ध्यानस्य प्रकृतत्वात्, तस्य च ध्येयसापेक्षत्वेन ध्येयविशेषणोक्तेरुचितत्वाच्छान्तिपदेनोक्तं शान्तिसाधनत्वं ध्येयविशेषणमिति युक्तं ‘ध्येयमाह’ इति भाष्यमिति भावः ।। २९ ।।
गीताक्षरार्थस्तु - उक्तध्यानस्य ध्येयसापेक्षत्वादत्र ध्येयमुच्यते– भोक्तारमिति । यज्ञतपसाम् ‘स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः’ इत्यादिशास्त्रोक्तानाम् अग्निहोत्रादियज्ञानाम्, तपसाम् कृच्छ्रचान्द्रायणादिरूपाणां च भोक्तारं सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमीश्वरं सर्वभूतानां सुहृदं प्रत्युपकारानपेक्षयोपकारिणं शान्तिं मोक्षसाधनं मां भगवन्तं ज्ञात्वा ध्यात्वा ऋच्छति साक्षात्करोतीति ।। २९ ।।
श्रीमद्गीताभाष्यटीकापञ्चमाध्यायसेवया ।
गुणिनः परितुष्यन्तु गुणग्रहणभूषणाः ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यश्रीमत्सुमतीन्द्रभिक्षुविरचितायां श्रीमद्भगवद्गीताभाष्यटीकाव्याख्यायां भावरत्नकोशसमाख्यायां पञ्चमोऽध्यायः ।।
भावदीपिका
ननु ‘ज्ञात्वा माम्’ इत्यनेन ज्ञेयमेवोच्यते, न ध्येयमित्यत आह– ततश्चेति ।। ध्येयप्रतिपादकत्वादेवेत्यर्थः । नन्वनेन श्लोकेन ध्येयं कथं प्रतिपाद्यते? ‘ज्ञात्वा मां शान्तिमृच्छति’ इत्यस्यांशस्य भोक्तृत्वादिवद् ध्येयविशेषणत्वासम्भवेन ध्येयस्वरूपाप्रतिपादकत्वा-दित्यत आह– शान्तिसाधनज्ञानत्वमपीति ।। मोक्षसाधनध्यानविषयत्वमपीत्यर्थः ।। २९ ।।
इति यदुवरगीताभाष्यटीकासु युक्ता-
शयमतिललिताभिर्गीर्भिरावेदयित्री ।
सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा
समगमदयमस्यां पञ्चमोऽध्याय अन्तम् ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृतौ भावप्रदीपिकाख्यायां पञ्चमोऽध्यायः ।।