द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ।। २८ ।।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ।। २८ ।।
भाष्यम्
द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपो-यज्ञाः इत्यादि । इदं तपो हविस्तद्ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुद्धिः ।। २८ ।।
भावप्रदीपिका
यथैतेषु यज्ञशब्दप्रत्ययौ स्यातां, तथा द्रव्ययज्ञादीन् प्रदर्शयति । होमप्रकारमाह– इदमिति ।। ननु तपश्चरणाद्येव तपोयज्ञादि, नेश्वरार्पणमित्यत आह– तदिति ।। ननु तपश्चरणाद्येव तपोयज्ञादि, नेश्वरार्पणमित्यत आह– तदिति ।। न चरण-मात्रेण होमबुद्धिर्भवतीत्यर्थः ।। २८ ।।
भावप्रकाशिका
यथैतेषु यज्ञशब्दप्रत्ययौ स्याताम्, तथैतान् द्रव्ययज्ञादीन् निरूपयति– द्रव्यमित्यादिना । द्रव्यं सोमादि । न तापसा एव तपोयज्ञाः । किन्तु वक्ष्यमाणप्रकारेण तद्भगवत्यर्पिता एवेति भावेनाह– तप इति ।। आदिशब्देन योगं परमेश्वरार्पणबुध्या परमेश्वरे जुह्वतीति योगयज्ञा इत्यादि । एतदेव विवृणोति– इदमित्यादिना ।। तस्य तपसो ब्रह्मण्यर्पणे सत्येव होमबुद्धिः, नतु तपश्चरणमात्रे सतीत्यर्थः ।। २८ ।।
प्रमेयदीपिका
ननु द्रव्यं यज्ञो न भवति । तत्कथं बहुव्रीहिः? तत्पुरुषत्वे च कथं पुरुषसामानाधिकरण्यम्? इत्यत आह– द्रव्यमिति ।। अनेन नायं यज्ञशब्दो भावार्थः । किन्तु कर्त्रर्थः । तथाच द्रव्यस्य यज्ञाः याजका इत्यर्थ इत्युक्तं भवति । एतदाशङ्कापरिहारायैव तपोयज्ञाः इत्येतदप्येवमेव व्याचष्टे– तप इति ।। तत्र परमेश्वरे । योगयज्ञाः इत्यादिकमप्येवमेव व्याख्येयमिति दर्शयति– इत्यादीति ।। तपसो होमः कथम्? इत्यत आह– इदमिति ।। तपश्चरणमेव तपोयज्ञः किं न स्यात् ? इत्यत आह– तदर्पण एवेति ।। अनेनैव प्रकारेण यज्ञत्वसम्पादनम् । नान्यथेत्यर्थः ।। २८ ।।
भावदीपः
।। तत्पुरुषत्व इति ।। द्रव्याणां यज्ञ इत्येवं तत्पुरुषत्व इत्यर्थः ।। एतदाशङ्कापरिहारायेति ।। तपो यज्ञो येषाम् इति बहुव्रीहित्वे तत्पुरुषत्वे च प्रागुक्तदोष इति शङ्कापरिहारायेत्यर्थः ।। एवमेवेति ।। यज्ञशब्दस्य कर्त्रर्थताभिप्रायेणेत्यर्थः ।। २८ ।।
भावरत्नकोशः
।। द्रव्यं सोमपशुपुरोडाशादि ।। बहुव्रीहिः ‘द्रव्यं यज्ञो येषाम्’ इति बहुव्रीहिः । तत्पुरुषत्वे ‘द्रव्याणां यज्ञः’ इति षष्ठीतत्पुरुषत्वे । पुरुषसामानाधिकरण्यमिति ।। विशेष्यसमर्पकयतिपदोक्तपुरुषसामानाधिकरण्यमित्यर्थः । अनेन ‘जुह्वति’ इति कर्त्रर्थकाख्यात-प्रयोगेण । कर्त्रर्थ इति ।। यद्यपि ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’ इति यजतेर्नङ्प्रत्ययो विहितः । स च ‘भावे’, ‘अकर्तरि च कारके’ इत्यधिकाराद् भावे कर्तृवर्जितेऽन्यस्मिन् कारके च भवन् न कर्तरि । तथाऽपि ‘कृत्यल्युटो बहुलम्’ इत्यतो बहुलग्रहणाद् अन्यत्रापि कृतः प्राप्तिम् अत्यन्तं व्यभिचरन्तीति वृत्तिकारवचनात् कर्तर्यपि नङ्प्रत्ययो नायुक्त इति भावेनेयमुक्तिरिति द्रष्टव्यम् । इत्युक्तं भवतीति ।। तथा चोक्तरीत्या तत्पुरुषत्वेऽपि पुरुषसामानाधिकरण्यमुपपन्नमिति भावः ।।
नन्वेवं चेद् द्रव्यं यजन्तीति द्रव्ययज्ञाः, तपो यजन्तीति तपोयज्ञा इत्यादि भाषितव्यम् । न पुनः ‘जुह्वति’ इति चेन्न । देवतां यजतीत्यत्र देवताया उद्देश्यत्वावगमाद् अत्रापि द्रव्यस्योद्देश्य-त्वस्य शङ्का स्यात् । तच्चात्र न विज्ञातव्यम्, यजनसाधनत्वमात्रं ज्ञातव्यम् । तच्च जुह्वतीत्युक्तौ लभ्यते । अतो द्रव्यं जुह्वतीत्युक्तौै न तच्छङ्का गीयते चात्र प्रकरणे ‘जुह्वति’ इति पदाभ्यासः । तस्य च ददतीत्यर्थः प्रतीयते इत्यभिप्रायेण तथा भाषणात् । ‘जुह्वति’ इत्यस्यैव ‘यजन्ति’ इत्यर्थ-कत्वाच्च । अत एव ‘इदं तपो हविः एतद्ब्रह्माग्नौ जुहोमि । तत्पूजार्थमिति होमः’ इति होमस्य यज्ञत्वं वक्ष्यतीति ।।
एतदाशङ्केति ।। ‘तपो यज्ञो न भवति । तत्कथं बहुव्रीहिः ? तत्पुरुषत्वे च कथं पुरुष-सामान्याधिकरण्यम् ?’ इत्याशङ्केत्यर्थः । एवमेवेति ।। तपसो याजकास्तपोयज्ञा इतिवत् योगं परमेश्वरार्पणबुद्ध्या परमेश्वरे जुह्वतीति योगयज्ञाः । स्वाध्यायं भगवत्पूजात्वेनाधीयानाः स्वाध्याय-यज्ञाः । भगवत्पूजात्वेन श्रवणादि कृत्वा तत्रार्पयन्तः ज्ञानयज्ञा इत्येवमेवार्थः ।।
तपसो होमः कथमिति ।। ‘तपो जुह्वति’ इति तपसो होम उक्तः । स कथम् ? अद्रव्य-रूपत्वेन तेन तन्निवर्तनायोगादिति शङ्कितुर्हृदयम् । तस्य तपसो ब्रह्मण्यर्पणे सत्येव होमबुद्धिः, न तु तपश्चरणमात्रे सतीत्यर्थ इति तदर्पण एव च होमबुद्धिरिति भाष्यं व्याख्यातं प्राचीनटीकायामिति तत्तात्पर्यमाह– अनेनैव इति ।। होमबुद्धिविषयत्वेनैवेत्यर्थः । अन्यथा तपश्चरणत्वेन ।। २८ ।।
अक्षरार्थस्तु अपरे द्रव्ययज्ञाः द्रव्यस्य याजकाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञाः । योगं ध्यानं परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति योगयज्ञाः । स्वाध्यायं विष्णुपूजात्वेना-धीयते इति स्वाध्याययज्ञाः । भगवत्पूजात्वेन श्रवणाद्यनुष्ठाय ज्ञानमापादयन्तीति ज्ञानयज्ञाः । संशितव्रताः सुतीक्ष्णव्रताः यतयो यतनशीलाः केचन सन्ति ।। २८ ।।
भावदीपिका
।। बहुव्रीहिरिति ।। द्रव्यं यज्ञो येषां ते द्रव्ययज्ञा इति बहुव्रीहि-रित्यर्थः ।। तत्पुरुषत्व इति ।। द्रव्यस्येत्यादिषष्ठ्यादितत्पुरुषत्व इत्यर्थः ।। पुरुषेति ।। अपर इत्युक्तेत्यर्थः ।। भावार्थ इति ।। यजनरूपधात्वर्थप्रतिपादक इत्यर्थः ।। कर्त्रर्थ इति ।। यजतीति यज्ञ इत्यर्थः । कर्त्रर्थमेव दर्शयति – याजका इति ।। होमकर्तार इत्यर्थः ।। एतदाशङ्केति ।। ननु तपो यज्ञो न भवति, तत्कथं बहुव्रीहिः? तत्पुरुषत्वे च कथं पुरुषसामानाधिकरण्यम्? इति शङ्कापरिहारायैवेत्यर्थः । एवमेवेति ।। यज्ञशब्दस्य कर्त्रर्थत्वमभिप्रेत्येत्यर्थः । तपसो यज्ञा याजका इत्येवमेवेत्यर्थः । अनेनैव प्रकारेणेति ।। ‘इदं तपो हविः’ इत्युक्तप्रकारेण तदर्पणे कृते सत्येव यज्ञत्वं सम्पद्यत इति भावः ।। २८ ।।
भावप्रकाशः
।। पुरुषसामानाधिकरण्यमिति ।।‘यतयः’ इत्युक्तयतिरूपपुरुष-सामानाधिकरण्यमित्यर्थः ।। कर्त्रर्थ इति ।। यद्यपि यज-याज-यत-विच्छ-प्रच्छरक्षोे नङ् इति यजेर्नङविहितः । स च भावे । अकर्तरि च कारक इत्यधिकाराद् भावादावेव, न कर्तरि । तथाऽपि ‘कृत्यल्युटो बहुलम्’ इत्यत्र अबहुलमिति योगविभागेन कृन्मात्रस्यार्थ-व्यभिचारोक्तेः कर्तर्यपि नङ्प्रत्ययो युक्त इत्यभिप्रेत्यैवमुक्तम् । एतदाशङ्केति ।। तपो यज्ञो न भवति तत्कथं बहुव्रीहिः । तत्पुरुषत्वे च कथं पुरुषसामानाधिकरण्यमित्याशङ्केत्यर्थः ।। २८ ।।