नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ।। १९ ।।

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ।। १९ ।।

भाष्यम्

परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति । अन्यथा ‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (आथर्वण.३.१.३) इति श्रुति-विरोधः । ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः’ (म.भा.१२. २२७.८४ ) इति मोक्षधर्मे ।। १९ ।।

भावप्रदीपिका

‘नान्यं गुणेभ्यः’ इत्यत्रानीश्वरकर्तृवादो निराक्रियते श्रुत्यादि विरोधादित्याह– परिणामीति ।। १९ ।।

प्रमेयदीपिका

‘नान्यं गुणेभ्यः कर्तारम्’ इति स्वतन्त्रकर्तृत्वं गुणानामेव नान्यस्येत्युच्यते’ इत्यपव्याख्याननिरासार्थमाह– परिणामीति ।। कुत एतत्? इत्यत आह– अन्यथेति ।। गुणेभ्यः अन्यस्य कर्तृत्वाभावे । मोक्षधर्मे ‘परमेश्वरस्य कर्तृत्वमुक्तं तद्विरोधश्च’ इति वाक्यशेषः ।। १९ ।।

भावरत्नकोशः

‘अन्यथा’ इत्यस्यार्थमाह– गुणेभ्योऽन्यस्य कर्तृत्वाभाव इति ।। भाष्यपदमनूद्यानन्तरं शेषमाह– मोक्षधर्म इति ।। ‘विरोधः’ इति भाष्यपदं ‘मोक्षधर्मे’ इत्यनेनान्वितम् इत्यनुवर्तितम् ।। १९ ।।

 गीताक्षरार्थस्तु ‘नान्यं गुणेभ्यः’ इत्यादि गीताक्षरार्थस्तु– एवं ‘कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’ इत्यत्र सङ्क्षेपेणोक्तानां त्रयाणां गुणानां बन्धकत्वं तत्तज्जन्यफलदातृत्वेन विविच्योक्तम् । तत्र शङ्का एवं त्रैगुण्ये विविच्योक्ते तर्हि ‘गुणा एव स्वतन्त्राः, न ततोऽन्यः स्वतन्त्रः कश्चित्’ इति । सा निरस्यते– नान्यमिति ।। द्रष्टा जीवः यदा गुणेभ्यः सत्त्वादिभ्यः अन्यं कर्तारं परिणामिकर्तारं नानुपश्यति; गुणेभ्यश्च परम् उत्तमं स्वतन्त्रं कर्तारं परमात्मानं वेत्ति च, स ज्ञानी मद्भावं मयि सत्तां निर्दुःखानन्दात्मिकां स्थितिम् अधिगच्छति प्राप्नोति ।। १९ ।।