नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।। ५ ।।

नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।। ५ ।।

भाष्यम्

न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह– न हीति ।। ५ ।।

भावप्रदीपिका

एवं कर्मत्यागेन न मोक्ष इत्युक्तम् । इदानीं सोऽपि न युक्त इत्यर्थे श्लोकमवतारयति– न चेति ।। ५ ।।

भावप्रकाशिका

नन्वकामकर्मणां मोक्षाविरोधित्वेऽपि, अधमाधिकारिणा-मप्रायत्यकरत्वात् तत्सङ्कोचेन यत्याश्रमश्चेत्, सर्वकर्मत्याग एव श्रेयान् कर्मार्थप्रवृत्तेन्द्रियस्य विषयसङ्गभयादित्याशङ्कापरिहारायोत्तरश्लोकानवतारयति– न त्विति ।। तथाऽपि यथा-शक्त्यखिलं कर्म त्याज्यम्, विषयसङ्गपरित्यागस्यावश्यकत्वादिति भावेनाशङ्क्य तदुत्तर-त्वेनोत्तरं श्लोकद्वयमवतार्य व्याचष्टे– तथाऽपीति ।। ५ ।।

प्रमेयदीपिका

ज्ञानरहितात् कर्मत्यागरूपाद् यत्याश्रमात् ‘सिद्धिं न समधिगच्छति’ (३.४) इति किल पूर्वमुक्तम् । तत्र ‘हेत्वाकाङ्क्षायां ‘न हि कश्चित्’ इत्युच्यते’ इति व्याख्यानमसत् इति भावेन श्लोकतात्पर्यमाह– न त्विति ।। न ह्यत्र ज्ञानस्यावश्यकत्वे किञ्चिदुच्यते । नापि यज्ञादिकर्माकरणस्यासम्भवोऽभिधीयते । येन प्रकृतसङ्गतिस्स्यात् । किन्तु शरीरयात्राद्यर्थानां कर्मणामपरिहार्यत्वम् । अतो नेदं व्याख्यानम् । अपि तर्हि ‘कर्मणा बद्ध्यते जन्तुः’ (म.भा.१२.२४१.७) इति स्मृति-माश्रित्य यस्तृतीयः पक्षस्तमाशङ्क्य ‘यज्ञार्थात्’ (३.९) इति स्मृतेरर्थसङ्कोचं वक्ष्यति । तत्र कुतः स्मृतेरर्थसङ्कोचः? इत्याकाङ्क्षा स्यात् । तामपाकर्तुमुपोद्घातप्रक्रियान्यायेन कर्मशब्द-स्तावदसङ्कुचितार्थः परेणाप्यङ्गीकर्तुमशक्य इति प्रतिपादयितुं ‘कर्माणि सर्वात्मना त्यक्तुं नैव शक्यानि’ इत्यनेन आहेति भावः ।। ५ ।।

भावबोधः

यज्ञादिकर्मत्यागरूपाद्यत्याश्रमात् सिद्धिं न समधिगच्छति । किन्तु ज्ञानादेवेत्यत्र हेतुर्भवन् ज्ञानाऽऽवश्यकत्वसाधको वा यज्ञादिकर्माकरणसम्भवरूपो वा भवे-दित्यभिप्रेत्याह– न ह्यत्रेति ।। तृतीयः पक्ष इति ।। ‘ज्ञानं मोक्षसाधनं भवत्येव । कर्माणि तु प्रतिबन्धकानि’ इति यः प्राग्विकल्पित इत्यर्थः । आद्येऽपि पक्षद्वयस्योक्तत्वाद् द्वितीयस्यैव तृतीयमित्यभिप्रेत्य ‘स तृतीयः’ इत्युक्तम् । यज्ञार्थादितीति ।। ‘यज्ञार्थात् कर्मणोऽन्यत्र’ इत्यनेन ‘कर्मणा बध्यते जन्तुः’ इति स्मृतेरित्यर्थः ।

भावदीपः

अपव्याख्यां स्वयं निराह– न ह्यत्रेति।। प्रकृतेति ।। त्वदभिप्रेत-पूर्वश्लोकार्थसङ्गतिरित्यर्थः ।। तृतीयः पक्ष इति ।। ‘ज्ञानं तु मोक्षसाधनं भवत्येव, कर्माणि प्रतिबन्धकानि’  इति प्राग्विकल्पितः पक्ष इत्यर्थः । आद्यस्य द्वेधा विकल्पितत्वादयं द्वितीयः तृतीयत्वेनोक्तः ।। ५ ।।

भावरत्नकोशः

।। इति व्याख्यानमसदिति । ‘कस्मात् पुनः कारणात् कर्मसंन्यासादेव ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो न समधिगच्छतीत्यत्र हेत्वा-काङ्क्षायामाह’ इति सङ्करव्याख्यानमित्यर्थः । कथमनेनापव्याख्याननिरसनम् ? इत्यतो भाष्यभावं व्यञ्जयन्नाह– न ह्यत्रेति ।। अत्र ‘न हि कश्चित्’ इति श्लोके । ज्ञानरहितात् कर्मत्यागरूपाद् यत्याश्रमान्न मोक्ष इत्यर्थे हेतुप्रतिपादनपरे ‘न हि कश्चित्’ इत्यत्र किञ्चित् साधकं वक्तव्यम् । तथात्वे ज्ञानराहित्यरूपविशेषणविघटनाद् विशिष्टस्य कारणत्वाभावः सेत्स्यति । यज्ञादिरूपविहितकर्मत्यागासम्भवो वाऽत्राभिधातव्यः । तथात्वे विशेष्याभाव-सम्पादनेन विशिष्टस्य हेतुत्वं विहन्यते । तत्राऽद्यो न युक्तः । ज्ञानावश्यकतायां साधकोप-न्यासानुपलम्भात् । न द्वितीयः । विहितत्यागस्य कार्यत्वानभिधानात् । येनान्यतराभिधानेन ज्ञानरहितकर्मत्यागस्य मोक्षहेतुप्रतिपादकतया सङ्गतिः स्यादिति भावः ।। अपरिहार्यत्वम् ‘अभिधीयते’ इति वर्तते ।। तृतीयः पक्ष इति ।। यद्यपि, ‘उत ज्ञानं मोक्षसाधनं भवत्येव । किन्तु ‘कर्मणा बध्यते जन्तुः’ इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा’ इति विकल्पित-त्वाद् अयं द्वितीयपक्ष इव भाति । तथाऽप्याद्यपक्षस्य द्वेधा विकल्पितत्वात् तदपेक्षया अयं तृतीयतयोक्त इति स्वामिनः । स्मृतेः ‘कर्मणा बध्यते जन्तुः’ इति स्मृतिगतकर्मशब्दस्य । वक्ष्यति गीताकारः । उपोद्घातः प्रकृतिसिद्ध्यनुकूलार्थान्तरपरामर्शः । परेणापि कर्मत्यागरूपाद् यत्याश्रमान्नैष्कर्म्यमिति वदता पूर्वपक्षिणाऽपि ।। ५ ।।

गीताक्षरार्थः– ‘न हि कश्चित्’ इत्यादिपञ्चश्लोक्यक्षरार्थस्तु ‘कर्मणा बध्यते जन्तुः’ इति स्मृतिमाश्रित्य यश्चोदितस्तृतीयः पक्षः तमाशङ्क्य ‘यज्ञार्थात्’ इत्यत्रोक्तस्मृतिगतकर्मशब्दस्य अभागवतकर्मपरत्वेनार्थसङ्कोचो वक्ष्यते । तत्र कुतः स्मृतेरर्थसङ्कोच इत्याकाङ्क्षा स्यात् । तामपाकर्तुम् उपोद्घातन्यायेन कर्मशब्दस्तावदसङ्कुचितार्थः परेणाप्यङ्गीकर्तुमशक्य इति प्रतिपादयितुं शरीरयात्राद्यर्थकर्मणां सर्वात्मना त्यक्तुमशक्यत्वमुच्यते– न हि कश्चिदिति ।। जातु कदाचित् कस्यामप्यवस्थायां क्षणमपि कालं ‘कालाध्वनोरत्यन्तसंयोगे’ द्वितीया । क्षणेऽपि । कश्चिदपि ज्ञोऽज्ञो वा अकर्मकृत् कर्माण्यकुर्वाणो न तिष्ठति । कुतः ? हि यस्मात्, अवशः विष्णुवशः अस्वतन्त्र एव सर्वः प्राणी प्रकृतिजैः ‘सप्तम्यां जनेर्डः’ प्रकृतौ जातैः सत्त्वरजस्तमोलक्षणैर्गुणैः । कर्म द्वितीयान्तम् । कार्यते अत इति ।। ५ ।।

भावदीपिका

।। कर्मत्यागरूपादिति ।। यज्ञादिकर्मत्यागरूपादित्यर्थः । ज्ञानरहिताद् यज्ञादिकर्मत्यागरूपाद् यत्याश्रमात् सिद्धिं न समधिगच्छतीत्यत्र ‘न हि’ इत्ययं हेतुर्भवन् ज्ञानावश्यकत्वसाधक इति वक्तव्यम् । न ह्यत्र ज्ञानस्याऽवश्यकत्वे किञ्चिदुपपादक-मुच्यते । अतो न प्रकृतसङ्गतिरित्याह– न ह्यत्रेति ।। नन्वथापि यथाकथञ्चित् प्रकृतसङ्गति-रस्त्येव । तथा हि । यज्ञादिकर्मत्यागरूपाद् यत्यायमात् सिद्धिं न समधिगच्छतीति पूर्वमुक्तम् । तत् कुतः? इति शङ्कायां ‘न हि’ इत्युच्यते । कश्चित् पुमान् क्षणमपि अकर्मकृद् यज्ञादिकर्मा-कृत् न हि तिष्ठति । अतो यज्ञादिकर्माकरणमसम्भावितम् । अतस्तत्परित्यागो न सम्भवति । अतस्तत्परित्यागरूपाद् यत्याश्रमात् सिद्धिं न समधिगच्छतीति प्रकृतसङ्गतिरस्त्येवेत्यत आह– नापीति ।। तर्हि किं विधीयते इति पृच्छति– किन्त्विति ।। उत्तरमाह– शरीरेति ।। अपरिहार्यत्वमिति ।। शरीरयात्रोपयुक्तकर्मपरित्यागरूपाद् यत्यायमात् सिद्धिं न समधि-गच्छतीति यदि किल पूर्वमुक्तं स्यात्, तदैव शरीरयात्रोपयुक्तकर्माकरणस्यासम्भवप्रतिपादकतया ‘न हि’ इति श्लोकस्य प्रकृतसङ्गतिः स्यात् । न ह्येवं त्वया व्याख्यातम् । किन्तु यज्ञादि-कर्मत्यागरूपादेवेति । अतो न कथमपि प्रकृतसङ्गतिरिति भावः ।

।। यस्तृतीयः पक्ष इति ।। ज्ञानं मोक्षसाधनं भवत्येव । किन्तु ‘कर्मणा बध्यते जन्तुः’ इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा कर्माणि त्यज्यन्त इति यः प्राग् विकल्पित इत्यर्थः । यद्यप्ययं द्वितीयपक्ष एव, तथाऽपि आद्येऽपि ‘मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वमात्रमाश्रित्योच्यते, उत बीजाभावयुक्तिमाश्रित्य’ इति पक्षद्वयस्योक्तत्वात् तदभिप्रायेण द्वितीयस्यापि तृतीय-त्वोक्तिरिति ध्येयम् । यज्ञार्थादिति स्मृतेरिति ।। ‘यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः’ (३-९) इति गीतावाक्येन ‘कर्मणा बध्यते जन्तुः’ इति स्मृतेरभगवदर्थकर्मणामेव बन्धकत्वम् इत्येवमर्थसङ्कोचं वक्ष्यतीत्यर्थः । उपोद्घातप्रक्रियान्यायेनेति ।। ‘चिन्तां प्रकृत-सिद्ध्यर्थामुपोद्घातं प्रचक्षते’ इति न्यायेनेत्यर्थः । स्मृतेरर्थसङ्कोचोपयोगित्वेनेति यावत् । कर्मशब्द इति ।। ‘कर्मणा बध्यते जन्तुः’ इति स्मृतिस्थः कर्मशब्द इत्यर्थः । परिस्पन्दमात्रस्य त्यक्तुमशक्यत्वेन सङ्कुचितार्थस्याऽवश्यकत्वादित्याशयः । ‘नैव’ इत्युक्त्या ‘नतु’ इत्यत्रत्यः तुशब्द ‘एवार्थः’ इत्युक्तं भवति । तथा च ‘कर्माकरणान्मुक्तिरित्यसदिति हृदयं वक्तुमुत्तरश्लोक’ इति शेषः ।। ५ ।।

भावप्रकाशः

 ज्ञानरहितात्कर्मत्यागान्न मोक्ष इत्यर्थे हेतुप्रतिपादकेनानेन वाक्येन ज्ञानस्यावश्यकत्वे किञ्चिद्वक्तव्यं तथात्वे विशेषणविघटनेन विशिष्टविघटनात् । यद्वा यज्ञादिकर्मत्यागस्यासम्भवो विधेयः तथा सति विशेष्यविघटनेन विशिष्टाभावसम्पादनात् । तत्राद्योऽत्र न सम्भवतीत्याह– न ह्यत्रेति ।। द्वितीयोऽपि न सम्भवतीत्याह– नापीति ।। तृतीय पक्ष इति ।। आद्यपक्षस्य द्विरूपत्वात् तदभिप्रायेण द्वितीयस्यैव तृतीयत्वमुक्तमिति ध्येयम् । यज्ञाथा•दिति स्मृतेरिति ।। यज्ञार्थादित्यनेन कर्मणा बध्यत इति स्मृतेरित्यर्थः ।। ५ ।।