देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।। ११ ।।

देवान् भावयतानेन ते देवा भावयन्तु वः ।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।। ११ ।।

भाष्यम्

(तत्र)अत्रार्थवादमाह– सहयज्ञा इति ।। १०-११ ।।

भावप्रदीपिका

कर्मविध्युपयोगितयोत्तरप्रघट्टकमवतारयति– अत्रेति ।। स्तुतिर्निन्दा परकृतिः पुराकल्पः अर्थवादः ।। १०-१३ ।।

भावप्रकाशिका

न केवलं यज्ञार्थं सङ्गरहितं कर्म न बन्धकम्, किन्तु मोचकमेव ज्ञानद्वारेति भावेनोत्तरं प्रघट्टकमवतारयति– तत्रेति ।। अस्मिन्नेवार्थेऽन्यत्र तन्त्रभागवतवाक्यमुदाहृतं भाष्यकारैः–

कर्मणा निरपेक्षेण विष्णावेवार्पितेन च ।

 सम्यज्ज्ञानं भवेत् पुंसां देवतातृप्तिपूर्वकम् ।।

 निर्देशाद्भगवत्येव तृप्ता स्युर्देवता यतः ।

 तदङ्गत्वेन निर्देशात् तेषु तृप्तिं व्रजन्ति ते ।

 तृप्तेषु तेषु देवेशे विष्णौ चोत्पद्यते परम् ।

 ज्ञानं तेनैव सम्यक् च मुच्यते कर्मपीडनात्’ इत्यादि ।

मुक्तिरेव ह्युच्यते मुख्यतः,‘ इष्टकामधुक्’ ‘श्रेयः परमवाप्स्यथ’ ‘मुच्यन्ते सर्व-किल्बिषैः’ इति वाक्येषु पुरावृत्ताख्यानात् स्तुतिनिन्दात्मकत्वाच्चार्थवादोऽयम् ।।१०-१३।।

प्रमेयदीपिका

‘सह यज्ञाः’ इत्यादेर्न प्रकृते सङ्गतिर्दृश्यते । अत आह– अत्रेति ।। वर्णाश्रमोचितस्य कर्मणः सर्वथा कर्तव्यत्वे । स्तुतिर्निन्दा परकृतिः पुरा-कल्पोऽर्थवादः ।। १०-११ ।।

भावबोधः

।। स्तुतिरिति ।। समग्रस्यार्थवादस्य गीतायां दर्शनादिति भावः

।। १० ।।

भावदीपः

‘अत्र’ इत्यस्यार्थः– ‘वर्ण’ इत्यादि ।। स्तुतिरिति ।। गुणिनिष्ठ-गुणोक्तिः स्तुतिः । दोषोक्तिः निन्दा । एककर्तृकचरितानुवादः परकृतिः । बहुकर्तृक-चरितानुवादः पुराकल्पः। ‘सह’ इत्यादि श्लोकचतुष्टये ‘पुरोवाच प्रजापतिः’ इत्येककर्तृक-चरितानुवादस्य, आद्यश्लोकद्वयेन गुणकीर्तनस्य, ‘इष्टान्’ इत्यादिश्लोकद्वयेन बहुकर्तृकचरितानु-वादस्य दोषकीर्तनस्य च सत्वेन चतुर्णामप्युक्तिः ।। १०-११ ।।

भावरत्नकोशः

बहूनामर्थानां प्रकृतत्वात् ‘अत्र’ इति भाष्य एतच्छब्देन कस्य परामर्श इति न ज्ञायते । अत आह– वर्णाश्रमेति ।। विहितकर्मणो विधिबलेनैव कर्तव्यत्व-सिद्धावप्यर्थवादेन स्ववर्णाश्रमोचितं कर्म सर्वथा कर्तव्यम् अत्यवश्यमनुष्ठेयमिति ज्ञाप्यत इत्यर्थवादोपयोगः । तत्र स्तुतिरूपार्थवादेन करणेऽभ्युदयस्य, निन्दया चाकरणेऽनिष्टस्य सूचनादिति भावः । अत्रार्थवादशब्देन सङ्कोचाभावाच्चतुर्विधोऽपि विवक्षित इति भावेनोक्तम्– स्तुतिरित्यादि ।। अस्ति च प्रकृते ‘एष वोऽस्त्विष्टकामधुक्’ इति स्तुतिः । मुक्तिरेव हि मुख्यत इष्टकामः । ‘यो भुङ्क्तेे स्तेन एव सः’ इति निन्दा । ‘पुरोवाच प्रजापतिः’ इत्येक-कर्तृकचरितानुवादरूपपरकृतिः । ‘इष्टान् भोगान् हि वो देवाः’ इत्यनेककर्तृक-चरितानुवाद-रूपपुराकल्पश्च । ‘तमाह’ इत्यर्थ इति शेषः ।। १०-१३ ।।

भावदीपिका

।। स्तुतिरिति ।। समग्रस्याप्यर्थवादस्य गीतायां दर्शनादित्थं व्याख्यातमिति द्रष्टव्यम् । ‘कौण्डिन्येनेदमनुष्ठितम्’ इत्यादिनामग्रहणपूर्वकवचनं परकृतिः । ‘पूर्वतरैरनुष्ठितम्’ इति सामान्यतो वचनं पुराकल्पः, इति तयोर्भेदः । केचित्तु एककर्तृ-कोपाख्यानं परकृतिः । अनेककर्तृकोपाख्यानं पुराकल्प इति तयोर्भेद इत्याहुः । तथा हि । ‘एष वोऽस्त्विष्टकामधुक्’ ‘श्रेयः परमवाप्स्यथ’ ‘इष्टान् भोगान्’ इति स्तुतिः । ‘तैर्दत्तान्’ इत्यादि निन्दा । ‘पुरोवाच प्रजापतिः’ इति परकृतिः । ‘यज्ञशिष्टाशिनः’ इति पुराकल्पः कथ्यत इति द्रष्टव्यम् ।। १०-१३ ।।

भावप्रकाशः

बहूनामर्थानां प्रकृतत्वात् कस्य परामर्श इत्यत आह– वर्णाश्रमोचितस्येति ।। कर्तव्यत्वस्य विधिवाक्यबोध्यत्वान्न तत्रार्थवादोपयोग इत्यत उक्तम्– सर्वथेति ।। स्ववर्णाश्रमोचितं कर्मावश्यं कर्तव्यमेवेति ज्ञापयितुमित्यर्थः । स्तुत्या करणे लाभस्य निन्दया चाकरणेऽनिष्टस्य वचनादिति भावः । तेनार्थवादस्य न शब्दविधयोक्तार्थप्रतिपादकत्वम् । अनुपलम्भात् । नाप्यनुमानविधया तात्पर्यभिन्नत्वात् । तत्रैव तस्य लिङ्गतया प्रामाण्यादिति निरस्तम् । अर्थवादस्य प्राशस्त्यप्रतिपाद्यावश्यकत्वज्ञापकत्वात् । परकृतिरिति ।। एको यत्र कर्तृत्वेनोपाख्यायते सा परकृतिः । यथा ‘जनको ह वैदेह आसाञ्चक्रे’ इति । अनेके यत्र कर्तृत्वेनोपाख्यायन्ते स पुराकल्पः । यथा  ‘त्रयो होद्गीथे कुशला बभूवुः’ इति । प्रकृते च ‘एष वोऽस्त्विष्टकामधुक्’ इत्यादिस्तुतेः ‘स्तेन एव’ इत्यादिनिन्दायाः ‘पुरोवाच’ इति परकृतेः ‘इष्टान् भोगान्’ इति पुराकल्पस्य च सत्त्वात् ‘स्तुतिः’ इत्याद्युक्तम् ।। १०-१३ ।।